उक्तं परमार्थदर्शनमेव व्यक्तीकर्तुं चोदयति —
एवमिति ।
तेन याज्ञवल्क्येनेति यावत् । इति वदता विरुद्धधर्मवत्त्वमुक्तमिति शेषः ।
एवं वदनेऽपि कुतो विरुद्धधर्मवत्त्वोक्तिस्तत्राऽऽह —
कथमिति ।
एकस्यैव विज्ञानघनत्वे संज्ञाराहित्ये च कुतो विरोधधीरित्याशङ्क्याऽऽह —
न हीति ।
विरोधबुद्धिफलमाह —
अत इति ।
अत्रेत्युक्तविषयपरामर्शः ।
न वा इति प्रतीकं गृहीत्वा व्याकरोति —
अर इति ।
मोहनं वाक्यं ब्रवीत्येव भवानिति शङ्कते —
नन्विति ।
समाधत्ते —
न मयेति ।
कथं तर्हि ममैकस्मिन्नेव वस्तुनि विरुद्धधर्मवत्त्वबुद्धिरित्याशङ्क्याऽऽह —
त्वयैवेति ।
त्वया तर्हि किमुक्तमिति तत्राऽऽह —
मया त्विति ।
खिल्यभावस्य विनाशे प्रत्यगात्मस्वरूपमेव विनश्यतीत्याशङ्क्याऽऽह —
न पुनरिति ।
ब्रह्मस्वरूपस्यानाशे विज्ञानघनस्य किमायातमित्याशङ्क्याऽऽह —
तदिति ।
विज्ञानघनस्य प्रत्यक्त्वं दर्शयति —
आत्मेति ।
कथं तर्हि तान्येवानुविनश्यतीति तत्राऽऽह —
भूतनाशेति ।
खिल्यभावस्याविद्याकृतत्वे प्रमाणमाह —
वाचाऽऽरम्भणमिति ।
खिल्यभाववत्प्रत्यगात्मनोऽपि विनाशित्वं स्यादिति चेन्नेत्याह —
अयं त्विति ।
पारमार्थिकत्वे प्रमाणमाह —
अविनाशीति ।
अविनाशित्वफलमाह —
अत इति ।
पर्याप्तं विज्ञातुमिति संबन्धः ।
इदमित्यादिपदानां गतार्थत्वादव्याख्येयत्वं सूचयति —
यथेति ।
विज्ञानघन एवेत्यत्र वाक्यशेषं प्रमाणयति —
नहीति ॥१३॥