बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यत् केवलं कर्मनिरपेक्षम् अमृतत्वसाधनम् , तद्वक्तव्यमिति मैत्रेयीब्राह्मणमारब्धम् ; तच्च आत्मज्ञानं सर्वसन्न्यासाङ्गविशिष्टम् ; आत्मनि च विज्ञाते सर्वमिदं विज्ञातं भवति ; आत्मा च प्रियः सर्वस्मात् ; तस्मात् आत्मा द्रष्टव्यः ; स च श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति च दर्शनप्रकारा उक्ताः ; तत्र श्रोतव्यः, आचार्यागमाभ्याम् ; मन्तव्यः तर्कतः ; तत्र च तर्क उक्तः — ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) इति प्रतिज्ञातस्य हेतुवचनम् आत्मैकसामान्यत्वम् आत्मैकोद्भवत्वम् आत्मैकप्रलयत्वं च ; तत्र अयं हेतुः असिद्ध इत्याशङ्क्यते आत्मैकसामान्योद्भवप्रलयाख्यः ; तदाशङ्कानिवृत्त्यर्थमेतद्ब्राह्मणमारभ्यते । यस्मात् परस्परोपकार्योपकारकभूतं जगत्सर्वं पृथिव्यादि, यच्च लोके परस्परोपकार्योपकारकभूतं तत् एककारणपूर्वकम् एकसामान्यात्मकम् एकप्रलयं च दृष्टम् , तस्मात् इदमपि पृथिव्यादिलक्षणं जगत् परस्परोपकार्योपकारकत्वात् तथाभूतं भवितुमर्हति — एष ह्यर्थ अस्मिन्ब्राह्मणे प्रकाश्यते । अथवा ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) इति प्रतिज्ञातस्य आत्मोत्पत्तिस्थितिलयत्वं हेतुमुक्त्वा, पुनः आगमप्रधानेन मधुब्राह्मणेन प्रतिज्ञातस्य अर्थस्य निगमनं क्रियते ; तथाहि नैयायिकैरुक्तम् — ‘हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्’ इति । अन्यैर्व्याख्यातम् — आ दुन्दुभिदृष्टान्तात् श्रोतव्यार्थमागमवचनम् , प्राङ्मधुब्राह्मणात् मन्तव्यार्थम् उपपत्तिप्रदर्शनेन, मधुब्राह्मणेन तु निदिध्यासनविधिरुच्यत इति । सर्वथापि तु यथा आगमेनावधारितम् , तर्कतस्तथैव मन्तव्यम् ; यथा तर्कतो मतम् , तस्य तर्कागमाभ्यां निश्चितस्य तथैव निदिध्यासनं क्रियत इति पृथक् निदिध्यासनविधिरनर्थक एव ; तस्मात् पृथक् प्रकरणविभाग अनर्थक इत्यस्मदभिप्रायः श्रवणमनननिदिध्यासनानामिति । सर्वथापि तु अध्यायद्वयस्यार्थः अस्मिन्ब्राह्मणे उपसंह्रियते ॥

पूर्वोत्तरब्राह्मणयोः संगतिं वक्तुं वृत्तं कीर्तयति —

यत्केवलमिति ।

कैवल्यं व्याचष्टे —

कर्मनिरपेक्षमिति ।

तच्चाऽऽत्मज्ञानमुक्तमिति संबन्धः । ततो निराकाङ्क्षत्वं सिद्धमिति चकारार्थः ।

आत्मज्ञानं संन्यासिनामेवेति नियन्तुं विशिनष्टि —

सर्वेति ।

ननु कुतस्ततो नैराकाङ्क्ष्यं सत्यपि तस्मिन्विज्ञेयान्तरसंभवादत आह —

आत्मनि चेति ।

न वा अरे पत्युरित्यादावुक्तं स्मारयति —

आत्मा चेति ।

तस्य निरतिशयप्रेमास्पदत्वेन परमानन्दत्वे फलितमाह —

तस्मादिति ।

स चेद्दर्शनार्हस्तर्हि तद्दर्शने कानि साधनानीत्यासंक्याऽऽह —

स चेति ।

दर्शनप्रकारा दर्शनस्योपायप्रभेदाः ।

श्रवणमननयोः स्वरूपविशेषं दर्शयति —

तत्रेति ।

कोऽसौ तर्को येनाऽऽत्मा मन्तव्यो भवति तत्राऽऽह —

तत्र चेति ।

दुन्दुभ्यादिग्रन्थः सप्तम्यर्थः ।

उक्तमेव तर्कं संगृह्णाति —

आत्मैवेति ।

प्रधानादिवादमादाय हेत्वसिद्धिशङ्कायां तन्निराकरणार्थमिदं ब्राह्मणमिति संगतिं संगिरन्ते —

तत्रायमिति ।

कथं हेत्वसिद्धिशङ्कोद्ध्रियते तत्राऽऽह —

यस्मादिति ।

तस्मात्तथाभूतं भवितुमर्हतीत्युत्तरत्र संबन्धः ।

अन्योन्योपकार्योपकारकभूतं जगदेकचैतन्यानुविद्धमेकप्रकृतिकं चेत्यत्र व्याप्तिमाह —

यच्चेति ।

दृष्टं स्वप्नादीति शेषः ।

दृष्टान्ते सिद्धमर्थं दार्ष्टान्तिके योजयति —

तस्मादिति ।

तच्छब्दार्थं स्फुटयति —

परस्परेति ।

तथाभूतमित्येककारणपूर्वकादि गृह्यते । विमतमेककारणं परस्परोपकार्योपकारकभूतत्वात्स्वप्नवदित्ययुक्तं हेत्वसिद्धेः ।

न हि सर्वं जगत्परस्परोपकार्योपरारकभूतमित्याशङ्क्याऽऽह —

एष हीति ।

हेत्वसिद्धिशङ्कां परिहर्तुं ब्राह्मणमिति संगतिमुक्त्वा प्रकारान्तरेण तामाह —

अथवेति ।

प्रतिज्ञाहेतू क्रमेणोक्त्वा हेतुसहितस्य प्रतिज्ञार्थस्य पुनर्वचनं निगमनमित्यत्र तार्किकसम्मतिमाह —

तथा हीति ।

भर्तृप्रपञ्चानां ब्राह्मणारम्भप्रकारमनुवदति —

अन्यैरिति ।

द्रष्टव्यादिवाक्यादाराभ्याऽऽदुन्दुभिदृष्टान्तादागमवचनं श्रोतव्य इत्युक्तश्रवणनिरूपणार्थम् । दुन्दुभिदृष्टान्तादारभ्य मधुब्राह्मणात्प्रागुपपत्तिप्रदर्शनेन मन्तव्य इत्युक्तमनननिरूपणार्थमागमवचनम् । निदिध्यासनं व्याख्यातुं पुनरेतद्ब्राह्मणमित्यर्थः ।

एतद्दूषयति —

सर्वथाऽपीति ।

श्रवणादेर्विधेयत्वेऽविधेयत्वेऽपीति यावत् । अन्वयव्यतिरेकाभ्यां श्रवणे प्रवृत्तस्य तत्पौष्कल्ये सत्यर्थलब्धं मननं न विधिमपेक्षते । यथा तर्कतो मतं तत्त्वं तथा तस्य तर्कागमाभ्यां निश्चितस्योभयसामर्थ्यादेव निदिध्यासनसिद्धौ तदपि विध्यनपेक्षमेवेत्यर्थः ।

त्रयाणां विध्यनपेक्षत्वे फलितमाह —

तस्मादिति ।

इति परकीयव्याख्यानमयुक्तमिति शेषः ।

सिद्धान्तेऽपि श्रवणादिविध्यभ्युपगमात्कथं परकीयं प्रस्थानं प्रत्याख्यातमित्याशङ्क्याऽऽह —

सर्वथापि त्विति ।

तद्विध्यभ्युपगमेऽपीति यावत् ।