एवं संगतिं ब्राह्मणस्योक्त्वा तदक्षराणि व्याकरोति —
इयमित्यादिना ।
यदुक्तं मध्विव मध्विति तद्विवृणोति —
यथेति ।
न केवलमुक्तं मधुद्वयमेव किन्तु मध्वन्तरं चास्तीत्याह —
किञ्चेति ।
पुरुषशब्दस्य क्षेत्रविषयत्वं वारयति —
स चेति ।
तस्य पृथिवीवन्मधुत्वमाह —
स च सर्वेषामिति ।
सर्वेषां च भूतानां तं प्रति मधुत्वं दर्शयति —
सर्वाणि चेति ।
नन्वाद्यमेव मधुद्वयं श्रुतमश्रुतं तु मधुद्वयमशक्यं कल्पयितुं कल्पकाभावादत आह —
चशब्देति ।
प्रथमपर्यायार्थमुपसंहरति —
एवमिति ।
पृथिवी सर्वाणि भूतानि पार्थिवः पुरुषः शरीरश्चेति चतुष्टयमेकं मध्विति शेषः ।
मधुशब्दार्थमाह —
सर्वेति ।
अस्येति पृथिव्यादेरिति यावत् ।
परस्परोपकार्योपकारकभावे फलितमाह —
अत इति ।
अस्येति सर्वं जगदुच्यते । उक्तं च यस्मात्परस्परोपकार्योपकारकभूतमित्यादि ।
भवत्वनेन न्यायेन मधुपर्यायेषु सर्वेषु कारणोपदेशो ब्रह्मोपदेशस्तु कथमित्याशङ्क्याऽऽह —
यस्मादिति ।
स प्रकृत आत्मैवायं चतुर्धोक्तो भेद इति योजना । इदमिति चतुष्टयकल्पनाधिष्ठानविषयं ज्ञानं परामृशति । इदं ब्रह्मेत्यत्र चतुष्टयाधिष्ठानमिदंशब्दार्थः ।
तृतीये च तस्य प्रकृतत्वं दर्शयति —
यद्विषयेति ।
इदं सर्वमित्यत्र ब्रह्मज्ञानमिदमित्युक्तम् । सर्वं सर्वाप्तिसाधनमिति यावत् ।
तदेव स्पष्टयति —
यस्मादिति ॥१॥