बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
इमा आपः सर्वेषां भूतानां मध्वासामपां सर्वाणि भूतानि मधु यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं रैतसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ २ ॥
तथा आपः । अध्यात्मं रेतसि अपां विशेषतोऽवस्थानम् ॥

यथा पृथिवी मधुत्वेन व्याख्याता तथाऽऽपोऽपि व्याख्येया इत्याह —

तथेति ।

रैतस इति विशेषणस्यार्थमाह —

अध्यात्ममिति ।

‘आपो रेतो भूत्वा शिश्नं प्राविशन्’ इति हि श्रुत्यन्तरम् ॥२॥