बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अयमग्निः सर्वेषां भूतानां मध्वस्याग्नेः सर्वाणि भूतानि मधु यश्चायमस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्मयस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ३ ॥
तथा अग्निः । वाचि अग्नेर्विशेषतोऽवस्थानम् ॥

पृथिव्यामप्सु चोक्तं न्यायमग्नावतिदिशति —

तथेति ।

वाङ्मय इत्यस्यार्थमाह —

वाचीति ।

अग्निर्वाग्भूत्वा मुखं प्राविशदिति हि श्रूयते ॥३॥