धर्मस्य शास्त्रैकगम्यत्वेन परोक्षत्वादयमिति निर्देशानर्हत्वमाशङ्क्याऽऽह —
अयमितीति ।
यद्यपि धर्मोऽप्रत्यक्षोऽयमिति निर्देशानर्हस्तथाऽपि पृथिव्यादिधर्मकार्यस्य प्रत्यक्षत्वात्तेन कारणस्याभेदमौपचारिकमादाय प्रत्यक्षघटादिवदयं धर्म इति व्यपदेशोपपत्तिरित्यर्थः ।
कोऽसौ धर्मो यस्य प्रत्यक्षत्वेन व्यपदेशस्तत्राऽऽह —
धर्मश्चेति ।
व्याख्यातस्तच्छ्रेयोरूपमत्यसृजत धर्ममित्यादाविति शेषः ।
तर्हि तस्य प्रत्यक्षत्वान्न चोदनालक्षणत्वमित्याशङ्क्य गौणत्वमुख्यत्वाभ्यामविरोधमभिप्रेत्याऽऽह —
श्रुतीति ।
तस्मिन्नेव कार्यलिङ्गकमनुमानं सूचयति —
क्षत्त्रादीनामिति ।
तत्रैवानुमानान्तरं विवक्षित्वोक्तम् —
जगत इति ।
जगद्वैचित्र्यकारित्वे हेतुमाह —
पृथिव्यादीनामिति ।
धर्मस्य प्रत्यक्षेण व्यपदेशे हेत्वन्तरमाह —
प्राणिभिरिति ।
तेनानुष्ठीयमानाचारेण प्रत्यक्षेण धर्मस्य लक्ष्यमाणत्वेनेति यावत् ।
ननु तृतीयेऽध्याये ‘यो वै स धर्मः सत्यं वै तदि’(बृ.उ.१-४-१४)ति सत्यधर्मयोरभेदवचनात्तयोर्भेदेनात्र पर्यायद्वयोपादानमनुपपन्नमत आह —
सत्येति ।
कथमेकत्वे सति भेदेनोक्तिरित्याशङ्क्याऽऽह —
दृष्टेति ।
अदृष्टेन रूपेण कार्यारम्भकत्वं प्रकटयति —
यस्त्विति ।
सामान्यात्मनाऽऽरम्भकत्वमुदाहरति —
सामान्यरूपेणेति ।
विशेषात्मना कार्यारम्भकत्वं व्यनक्ति —
विशेषेति ।
धर्मस्य द्वौ भेदावुक्तौ तयोर्मध्ये प्रथममधिकृत्य यश्चेत्यादि वाक्यमित्याह —
तत्रेति ।
द्वितीयं विषयीकृत्य यश्चायमध्यात्ममित्यादि प्रवृत्तमित्याह —
तथेति ॥११॥