इदं सत्यमित्यस्मिन्पर्याये सत्यशब्दार्थमाह —
तथा दृष्टेनेति ।
सोऽपीत्यपिशब्दो धर्मोदाहरणार्थः ।
द्वयोरपि प्रकारयोर्विनियोगं विभजते —
सामान्यरूप इति ।
उभयत्र समवेतशब्दस्तत्र तत्र कारणत्वेनानुगत्यर्थः ।
यश्चायमस्मिन्नित्यादिवाक्यस्य विषयमाह —
तत्रेति ।
सत्ये यश्चेत्यादि वाक्यमिति शेषः ।
यश्चायमध्यात्ममित्यादिवाक्यस्य विषयमाह —
तथाऽध्यात्ममिति ।
सत्यस्य पृथिव्यादौ कार्यकारणसंघाते च कारणत्वे प्रमाणमाह —
सत्येनेति ॥१२॥