इदं मानुषमित्यत्र मानुषग्रहणं सर्वजात्युपलक्षणमित्यभिप्रेत्याऽऽह —
धर्मसत्याभ्यामिति ।
कथं पुनरेषा जातिः सर्वेषां भूतानां मधु भवति तत्राऽऽह —
तत्रेति ।
भोगभूमिः सप्तम्यर्थः ।
यश्चायमस्मिन्नित्यादिवाक्यद्वयस्य विषयभेदं दर्शयति —
तत्रेति ।
व्यवहारभूमाविति यावत् । धर्मादिवदित्यपेरर्थः । निर्देष्टुः स्वशरीरनिष्ठा जातिराध्यात्मिकी शरीरान्तराश्रिता तु बाह्येति भेदः । वस्तुतस्तु तत्र नोभयथात्वमित्यभिप्रेत्य निर्देशभागित्युक्तम् ॥१३॥