बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अयमात्मा सर्वेषां भूतानां मध्वस्यात्मनः सर्वाणि भूतानि मधु यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ १४ ॥
यस्तु कार्यकरणसङ्घातो मानुषादिजातिविशिष्टः, सोऽयमात्मा सर्वेषां भूतानां मधु । ननु अयं शारीरशब्देन निर्दिष्टः पृथिवीपर्याय एव — न, पार्थिवांशस्यैव तत्र ग्रहणात् ; इह तु सर्वात्मा प्रत्यस्तमिताध्यात्माधिभूताधिदैवादिसर्वविशेषः सर्वभूतदेवतागणविशिष्टः कार्यकरणसङ्घातः सः ‘अयमात्मा’ इत्युच्यते । तस्मिन् अस्मिन् आत्मनि तेजोमयोऽमृतमयः पुरुषः अमूर्तरसः सर्वात्मको निर्दिश्यते ; एकदेशेन तु पृथिव्यादिषु निर्दिष्टः, अत्र अध्यात्मविशेषाभावात् सः न निर्दिश्यते । यस्तु परिशिष्टो विज्ञानमयः — यदर्थोऽयं देहलिङ्गसङ्घात आत्मा — सः ‘यश्चायमात्मा’ इत्युच्यते ॥

अन्तिमपर्यायमवतारयति —

यस्त्विति ।

आत्मनः शारीरेण गतत्वात्पुनरुक्तिरनुपयुक्तेति शङ्कते —

नन्विति ।

अवयवावयविविषयत्वेन पर्यायद्वयमपुनरुक्तमिति परिहरति —

नेत्यादिना ।

परमात्मानं व्यावर्तयति —

सर्वभूतेति ।

चेतनं व्यवच्छिनत्ति —

कार्येति ।

यश्चायमस्मिन्नित्यादिवाक्यस्य विषयमाह —

तस्मिन्निति ।

यश्चायमध्यात्ममिति किमिति नोक्तमित्याशङ्क्याऽऽह —

एकदेशेनेति ।

अत्रेत्यन्तपर्यायोक्तिः ।

यश्चायमात्मेत्यस्यार्थमाह —

यस्त्विति ॥१४॥