स वा अयमात्मेत्यस्यार्थमाह —
यस्मिन्निति ।
परिशिष्टः पूर्वपर्यायेष्वनुपदिष्टोऽन्त्ये च पर्याये यश्चायमात्मेत्युक्तो निज्ञानमयो यस्मिन्नात्मनि खिल्यदृष्टान्तवचसा प्रवेशितस्तेन परेणाऽऽत्मना तादात्म्यं गतो विद्वानत्राऽऽत्मशब्दार्थः ।
उक्तमात्मशब्दार्थमनूद्य सर्वेषामित्यादि व्याचष्टे —
तस्मिन्निति ।
अविद्यया कृतः कार्यकरणसंघातः एवोपाधिस्तेन विशिष्टे जीवे तस्मिन्परमार्थात्मनि ब्रह्मणि ब्रह्मविद्यया प्रवेशिते स एवायमात्मा यथोक्तविशेषणः सर्वैरुपास्यः सर्वेषां भूतानामधिपतिरिति संबन्धः ।
व्याख्येयं पदमादाय तस्य वाच्यमर्थमाह —
सर्वेषामिति ।
तस्यैव विवक्षितोऽर्थः सर्वैरुपास्य इत्युक्तः ।
स्वातन्त्र्यं व्यतिरेकद्वारा स्फोरयति —
नेत्यादिना ।
सर्वेषां भूतानां राजेत्येतावतैव यथोक्तार्थसिद्धौ किमित्यधिपतिरिति विशेषणमित्याशङ्क्याऽऽह —
राजत्वेति ।
राजत्वजात्यनाक्रान्तोऽपि कश्चित्तदुचितपरिपालनादिव्यवहारवानित्युपलब्धिं न पुनस्तस्य स्वातन्त्र्यं राजपरतन्त्रत्वात्तस्मात्ततो व्यवच्छेदार्थमधिपतिरिति विशेषणमित्यर्थः ।
राजाऽधिपतिरित्युभयोरपि मिथो विशेषणविशेष्यत्वमभिप्रेत्य वाक्यार्थं निगमयति —
एवमिति ।
उक्तस्य विद्याफलस्य तृतीयेनैकवाक्यत्वमाह —
यदुक्तमिति ।
तदेव व्याख्यातं स्फोरयति —
एवमिति ।
मैत्रेयीब्राह्मणोक्तक्रमेणेति यावत् ।
एवमित्यस्यार्थं कथयति —
यथेति ।
मधुब्राह्मणे पूर्वब्राह्मणे चोक्तक्रमेणाऽऽत्मनि श्रवणादित्रयं संपाद्य विद्वान्ब्रह्माभवदिति संबन्धः ।
ननु मोक्षावस्थायामेव विदुषो ब्रह्मत्वापरिच्छिन्नत्वं न प्राच्यामविद्यादशायामित्याशङ्क्याऽऽह —
तस्मादिति ।
समानाधिकरणं पञ्चमीत्रयम् । एवंलक्षणादहं ब्रह्मास्मीति श्रवणादिकृतात्तत्त्वसाक्षात्कारादिति यावत् ।
अब्रह्मत्वादिधीध्वस्तिस्तर्हि कथमित्याशङ्क्याऽऽह —
तां त्विति ।
वृत्तमनूद्योत्तरग्रन्थमवतारयति —
परिसमाप्त इति ।
यस्य शास्त्रस्यार्थो विषयप्रयोजनाख्यो ब्रह्मकण्डिकायां चतुर्थादौ च प्रस्तुतस्तस्यार्थो यथोक्तन्यायेन निर्धारित इत्यनुवादार्थः । सर्वात्मभूतत्वं सर्पादिवत्कल्पितानां सर्वेषामात्मभावेन स्थितत्वम् । सर्वं ब्रह्म तद्रूपत्वं सर्वात्मकम् ।
सर्व एत आत्मान कुतो भेदोक्तिरात्मैक्यस्य शास्त्रीयत्वादित्याशङ्क्याऽऽह —
जलचन्द्रवदिति ।
दार्ष्टान्तिकभागस्य संपिण्डितमर्थमाह —
सर्वमिति ।
उक्तस्य सर्वात्मभावस्य तृतीयेनैकवाक्यत्वं निर्दिशति —
यदुक्तमिति ।
सर्वात्मभावे विदुषः सप्रपञ्चत्वं स्यादित्याशङ्क्याऽऽह —
स एष इति ।
सर्वेण कल्पितेन द्वैतेन सहितमधिष्ठानभूतं ब्रह्म प्रत्यग्भावेन पश्यन्विद्वान्सर्वोपाधिस्तत्तद्रूपेण स्थितः सर्वो भवति ।
तदेवं कल्पितं सप्रपञ्चत्वमविद्वद्दृष्ट्या विदुषोऽभीष्टमित्यर्थः विद्वद्दृष्ट्या तस्य निष्प्रपञ्चत्वं दर्शयति —
निरुपाधिरिति ।
निरुपाख्यत्वं शब्दप्रत्ययगोचरत्वं ब्रह्मणः सप्रपञ्चत्वमविद्याकृतं निष्प्रपञ्चत्वं तात्त्विकमित्यागमार्थाविरोध उक्तः ।
कथं तर्हि तार्किका मीमांसकाश्च शास्त्रार्थं विरुद्धं पश्यन्तो ब्रह्मास्ति नास्तीत्यादि विकल्पयन्तो मोमुह्यन्ते तत्राऽऽह —
तमेतमिति ।
वादिव्यामोहस्याज्ञानं मूलमुक्त्वा प्रकृते ब्रह्मणो द्वैरूप्ये प्रमाणमाह —
तमित्यादिना ।
तैत्तिरीयश्रुतावादिशब्देनाहमन्नमन्नमदन्तमद्मीत्यादि गृह्यते । छान्दोग्यश्रुतावादिशब्देन सत्यकामः सत्यकङ्कल्पो विजरो विमृत्युरित्यादि गृहीतम् ।
श्रुतिसिद्धे द्वैरूप्ये स्मृतिमपि संवादयति —
तथेति ।
पूर्वोक्तप्रकारेणाऽऽगमार्थविरोधसमाधाने विद्यमानेऽपि तदज्ञानाद्वादिविभ्रान्तिरित्युपसंहरति —
इत्येवमादीति ।
विकल्पमेव स्फुटयति —
अस्तीति ।
सर्वत्र श्रुतिस्मृतिष्वात्मनीति यावत् ।
के तर्हि पारमविद्यायाः समधिगच्छन्ति तत्राऽऽह —
तस्मादिति ।
ब्रह्मज्ञानफलमाह —
स एवेति ॥१५॥