तद्यथेत्यादिवाक्यार्थं विस्तरेणोक्त्वा वृत्तं कीर्तयति —
परिसमाप्तेति ।
ब्रह्मविद्या परिसमाप्ता चेत्किमुत्तरग्रन्थेनेत्याशङ्क्याऽऽह —
एतस्या इति ।
इयमिति प्रवर्ग्यप्रकरणस्थामाख्यायिकां परामृशति —
आनीतेदं वै तन्मध्वित्यादिना ब्राह्मणेनेति शेषः ।
तदेतदृषिरित्यादेस्तात्पर्यमाह —
तस्या इति ।
तद्वां नरेत्यादिरेको मन्त्रः । आथर्वणायेत्यादिपरः ।
मन्त्रब्राह्मणाभ्यां वक्ष्यमाणरीत्या ब्रह्मविद्यायाः स्तुतत्वे किं सिध्यतीत्याशङ्क्याऽऽह —
एवं हीति ।
तस्या मुक्तिसाधनत्वं दृष्टान्तेन स्फुटयति —
यथेति ।
केन प्रकारेण ब्रह्मविद्यायाः स्तुतत्वं तदाह —
अपि चेति ।
अपिशब्दः स्तावकब्राह्मणसंभावनार्थः । मन्त्रद्वयसमुच्चयार्थश्चशब्दः ।
एवं शब्दसूचितं स्तुतिप्रकारमेव प्रकटयति —
येन्द्रति ।
तस्या दुष्प्राप्यत्वे हेतुमाह —
यस्मादिति ।
महान्तमायासं स्फुटयति —
ब्राह्मणस्येति ।
कृतार्थेनापीन्द्रियेण रक्षितत्वे विद्याया दौर्लभ्ये च फलितमाह —
तस्मादिति ।
न केवलमुक्तेन प्रकारेण विद्या स्तूयते किन्तु प्रकारान्तरेणापीत्याह —
अपि चेति ।
तदेव प्रकारान्तरं प्रकटयति —
सर्वेति ।
केवलयेत्यस्य व्याख्यानं कर्मनिरपेक्षयेति । तत्र हेतुमाह —
यस्मादिति ।
किमिति कर्मप्रकरणे प्राप्ताऽपि प्रकरणान्तरे कथ्यते तत्राऽऽह —
कर्मणेति ।
प्रसिद्धं पुमर्थोपायं कर्म त्यक्त्वा विद्यायामेवाऽऽदरे तदधिकता समधिगतेति फलितमाह —
तस्मादिति ।
प्रकरान्तरेण ब्रह्मविद्यायाः स्तुतिं दर्शयति —
अपि चेति ।
अनात्मरतिं त्यक्त्वाऽऽत्मन्येव रतिहेतुत्वान्महतीयं विद्येत्यर्थः ।
विधान्तरेण तस्याः स्तुतिमाह —
अपि चैवमिति ।
कथं ब्रह्मविद्या भार्यायै प्रीत्यर्थमेवोक्तेति गम्यते तत्राऽऽह —
प्रियमिति ।
आख्यायिकायाः स्तुत्यर्थत्वं प्रतिपाद्य वृत्तमनूद्याऽऽकाङ्क्षापूर्वकं तामवतार्य व्याकरोति —
तत्रेत्यादिना ।
ब्रह्मविद्या सप्तम्यर्थः ।
पदार्थमुक्त्वा वाक्यार्थमाह —
यदिति ।
दध्यङ्ङित्यादि व्याकुर्वन्नाकाङ्क्षापूर्वकं प्रवर्ग्यप्रकरणस्थामाख्यायिकामनुकीर्तयति —
कथमित्यादिना ।
आभ्यामश्विभ्यामिति यावत् ।
केन कारणेनोवाचेत्यपेक्षायामाह —
तदेनयोरिति ।
एनयोरश्विनोस्तन्मधु प्रीत्यास्पदमासीत्तद्वशात्ताभ्यां प्रार्थितो ब्राह्मणस्तदुवाचेत्यर्थः ।
यदश्विभ्यां मधु प्रार्थितं तदेतेन वक्ष्यमाणेन प्रकारेण प्रयच्छन्नेवैनयोरश्विनोराचार्यत्वेन ब्राह्मणः समीपगमनं कृतवानित्याह —
तदेवेति ।
आचार्यत्वानन्तरं ब्राह्मणस्य वचनं दर्शयति —
स होवाचेति ।
एतच्छब्दो मध्वनुभवविषयः । यद्यर्थो यच्छब्दः । तच्छब्दस्तर्हीत्यर्थः । वां युवामुपनेष्ये शिष्यत्वेन स्वीकरिष्यामीति यावत् । तौ देवभिषजावश्विनौ शिरश्छेदनिमित्तं मरणं पञ्चम्यर्थः । नावावामुपनेष्ये शिष्यत्वेन स्वीकरिष्यसि यदेति यावत् । अथशब्दस्तदेत्यर्थः । ब्राह्मणस्यानुज्ञानन्तर्यमथेत्युक्तम् । मधुप्रवचनान्तर्यं तृतीयस्याथशब्दस्यार्थः । यदश्वस्य शिरो ब्राह्मणे निबद्धं तस्य च्छेदनानन्तर्यं चतुर्थस्याथशब्दस्यार्थः ।
तर्हि समस्तमपि मधु प्रवर्ग्यप्रकरणे प्रदर्शितमेवेति कृतमनेन ब्राह्मणेनेत्याशङ्क्याऽऽह —
यावत्त्विति ।
प्रवर्ग्यप्रकरणे स्थिताऽऽख्यायिका किमर्थमत्राऽऽनीतेत्याशङ्क्य तस्या ब्रह्मविद्यायाः स्तुत्यर्थेयमाख्यायिकेत्यत्रोक्तमुपसंहरति —
तत्रेति ।
ब्राह्मणभागव्याख्यां निगमयति —
इदमिति ।
तद्वामित्यादिमन्त्रमुत्थाप्य व्याचष्टे —
तदेतदिति ।
कथं लाभायापि क्रूरकर्मानुष्ठानमत आह —
लाभेति ।
ननु प्रतिषेधे मुख्यो नकारः कथमिवार्थे व्याख्यायते तत्राऽऽह —
नकारस्त्विति ।
वेदे पदादुपरिष्टाद्यो नकारः श्रुतः स खलूपचारः सन्नुपमार्थोऽपि संभवति न निषेधार्थ एवेत्यर्थः ।
तत्रोदाहरणमाह —
यथेति ।
“अश्वं न गूढमश्विने”त्यत्र नकारो यथोपमार्थीयस्तथा प्रकृतेऽपीत्यर्थः ।
तदेव स्पष्टयति —
अश्वमिवेति ।
यद्वदिति ।
उपमार्थीये नकारे सति वाक्यस्वरूपमनूद्य तदर्थं कथयति —
तन्यतुरित्यादिना ।
विद्यास्तुतिद्वारा तद्वन्तावश्विनावत्र न स्तूयते किन्तु क्रूरकर्मकारित्वेन निन्द्येते तदा चाऽऽख्यायिका विद्यास्तुत्यर्थेत्ययुक्तमिति शङ्कते —
नन्विति ।
आख्यायिकाया विद्यास्तुत्यर्थत्वमविरुद्धमिति परिहरति —
नैष इति ।
लोममात्रमपि न मीयत इति यस्मात्तस्माद्विद्यास्तुत्या तद्वतोः स्तुतिरेवात्र विवक्षितमिति योजना ।
यद्यपि क्रूरकर्मकारिणोरश्विनोर्न दृष्टहानिस्तथाऽप्यदृष्टहानिः स्यादेवेत्याशङ्क्य कैमुतिकन्यायेनाऽऽह —
न चेति ।
कथं पुनर्निन्दायां दृश्यमानायां स्तुतिरिष्यते तत्राऽऽह —
निन्दामिति ।
न हि निन्दा निन्द्यं निन्दितुमपि तु विधेयं स्तोतुमिति न्यायादित्यर्थः ।
यथा निन्दा न निन्द्यं निन्दितुमेव तथा स्तुतिरपि स्तुत्यं स्तोतुमेव न भवति किन्तु निन्दितुमपि । तथा च नानयोर्व्यवस्थितत्वमित्याह —
तथेति ।
तद्वामित्यादिमन्त्रस्य पूर्वार्धं व्याख्यायाऽऽख्यायिकायाः स्तुत्यर्थत्वविरोधं चोद्धृत्योत्तरार्धं व्यचष्टे —
दध्यङ्नामेति ।
यत्कक्ष्यं ज्ञानाख्यं मधु तदाथर्वणो युवाभ्यामश्वस्य शिरसा प्रोवाच । यच्चासौ मधु युवाभ्यामुक्तवांस्तदहमाविष्कृणोमीति संबन्धः ॥१६॥