बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् । पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशदिति । स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम् ॥ १८ ॥
इदं वै तन्मध्विति पूर्ववत् । उक्तौ द्वौ मन्त्रौ प्रवर्ग्यसम्बन्ध्याख्यायिकोपसंहर्तारौ ; द्वयोः प्रवर्ग्यकर्मार्थयोरध्याययोरर्थ आख्यायिकाभूताभ्यां मन्त्राभ्यां प्रकाशितः । ब्रह्मविद्यार्थयोस्त्वध्याययोरर्थ उत्तराभ्यामृग्भ्यां प्रकाशयितव्य इत्यतः प्रवर्तते । यत् कक्ष्यं च मधु उक्तवानाथर्वणो युवाभ्यामित्युक्तम् — किं पुनस्तन्मध्वित्युच्यते — पुरश्चक्रे, पुरः पुराणि शरीराणि — यत इयमव्याकृतव्याकरणप्रक्रिया — स परमेश्वरो नामरूपे अव्याकृते व्याकुर्वाणः प्रथमं भूरादीन् लोकान्सृष्ट्वा, चक्रे कृतवान् , द्विपदः द्विपादुपलक्षितानि मनुष्यशरीराणि पक्षिशरीराणि ; तथा पुरः शरीराणि चक्रे चतुष्पदः चतुष्पादुपलक्षितानि पशुशरीराणि ; पुरः पुरस्तात् , स ईश्वरः पक्षी लिङ्गशरीरं भूत्वा पुरः शरीराणि — पुरुष आविशदित्यस्यार्थमाचष्टे श्रुतिः — स वा अयं पुरुषः सर्वासु पूर्षु सर्वशरीरेषु पुरिशयः, पुरि शेत इति पुरिशयः सन् पुरुष इत्युच्यते ; न एनेन अनेन किञ्चन किञ्चिदपि अनावृतम् अनाच्छादितम् ; तथा न एनेन किञ्चनासंवृतम् अन्तरननुप्रवेशितम् — बाह्यभूतेनान्तर्भूतेन च न अनावृतम् ; एवं स एव नामरूपात्मना अन्तर्बहिर्भावेन कार्यकरणरूपेण व्यवस्थितः ; पुरश्चक्रे इत्यादिमन्त्रः सङ्क्षेपत आत्मैकत्वमाचष्ट इत्यर्थः ॥

उक्तमन्त्राभ्यां वक्ष्यमाणमन्त्रयोरपुनरुक्तत्वादर्थवत्त्वं वक्तुं वृत्तं कीर्तयति —

उक्ताविति ।

आख्यायिकाविशेषणप्राप्तं संकोचं परिहरति —

द्वयोरिति ।

उत्तरमन्त्रद्वयप्रवृत्तिं प्रतिजानीते —

ब्रह्मेति ।

संप्रत्यवान्तरसंगतिमाह —

यत्कक्ष्यं चेति ।

हिरण्यगर्भकर्तृकं शरीरनिर्माणमत्र नोच्यते किन्तु प्रकरणबलादीश्वरकर्तृकमित्याह —

यत इति ।

शरीरसृष्ट्यपेक्षया लोकसृष्टिप्राथम्यं पुरस्ताद्देहसृष्ट्यनन्तरं प्रवेशात्पूर्वमिति यावत् ।

स हि सर्वेषु शरीरेषु वर्तमानः पुरि शेते इति व्युत्पत्त्या पुरिशयः सन्पुरुषो भवतीत्युक्त्वा प्रकारान्तरेण पुरुषत्वं व्युत्पादयति —

नेत्यादिना ।

वाक्यद्वयस्यैकार्थत्वमाशङ्क्य सर्वं जगदोतप्रोतत्वेनाऽऽत्मव्याप्तमित्यर्थविशेषमाश्रित्याऽऽह —

बाह्यभूतेनेति ।

पूर्णत्वे सत्यात्मनः ‘दिव्यो ह्यमूर्तः’ (मु. उ. २ । १ । २) इत्यादिश्रुतिमाश्रित्य फलितमाह —

एवमिति ।

मन्त्रब्राह्मणयोरर्थवैमत्यमाशङ्क्याऽऽह —

पुर इति ॥१८॥