बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् । रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेति । अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम् ॥ १९ ॥
इदं वै तन्मध्वित्यादि पूर्ववत् । रूपं रूपं प्रतिरूपो बभूव — रूपं रूपं प्रति प्रतिरूपः रूपान्तरं बभूवेत्यर्थः ; प्रतिरूपोऽनुरूपो वा यादृक्संस्थानौ मातापितरौ तत्संस्थानः तदनुरूप एव पुत्रो जायते ; न हि चतुष्पदो द्विपाज्जायते, द्विपदो वा चतुष्पात् ; स एव हि परमेश्वरो नामरूपे व्याकुर्वाणः रूपं रूपं प्रतिरूपो बभूव । किमर्थं पुनः प्रतिरूपमागमनं तस्येत्युच्यते — तत् अस्य आत्मनः रूपं प्रतिचक्षणाय प्रतिख्यापनाय ; यदि हि नामरूपे न व्याक्रियेते, तदा अस्य आत्मनो निरुपाधिकं रूपं प्रज्ञानघनाख्यं न प्रतिख्यायेत ; यदा पुनः कार्यकरणात्मना नामरूपे व्याकृते भवतः, तदा अस्य रूपं प्रतिख्यायेत । इन्द्रः परमेश्वरः मायाभिः प्रज्ञाभिः नामरूपभूतकृतमिथ्याभिमानैर्वा न तु परमार्थतः, पुरुरूपः बहुरूपः, ईयते गम्यते — एकरूप एव प्रज्ञानघनः सन् अविद्याप्रज्ञाभिः । कस्मात्पुनः कारणात् ? युक्ताः रथ इव वाजिनः, स्वविषयप्रकाशनाय, हि यस्मात् , अस्य हरयः हरणात् इन्द्रियाणि, शता शतानि, दश च, प्राणिभेदबाहुल्यात् शतानि दश च भवन्ति ; तस्मात् इन्द्रियविषयबाहुल्यात् तत्प्रकाशनायैव च युक्तानि तानि न आत्मप्रकाशनाय ; ‘पराञ्चि खानि व्यतृणत्स्वयम्भूः’ (क. उ. २ । १ । १) इति हि काठके । तस्मात् तैरेव विषयस्वरूपैरीयते, न प्रज्ञानघनैकरसेन स्वरूपेण । एवं तर्हि अन्यः परमेश्वरः अन्ये हरय इत्येवं प्राप्ते उच्यते — अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च ; प्राणिभेदस्य आनन्त्यात् । किं बहुना ? तदेतद्ब्रह्म य आत्मा, अपूर्वम् नास्य कारणं पूर्वं विद्यत इत्यपूर्वम् , नास्यापरं कार्यं विद्यत इत्यनपरम् , नास्य जात्यन्तरमन्तराले विद्यत इत्यनन्तरम् , तथा बहिरस्य न विद्यत इत्यबाह्यम् ; किं पुनस्तत् निरन्तरं ब्रह्म ? अयमात्मा ; कोऽसौ ? यः प्रत्यगात्मा द्रष्टा, श्रोता मन्ता बोद्धा, विज्ञाता सर्वानुभूः — सर्वात्मना सर्वमनुभवतीति सर्वानुभूः — इत्येतदनुशासनम् सर्ववेदान्तोपदेशः ; एष सर्ववेदान्तानामुपसंहृतोऽर्थः ; एतदमृतमभयम् ; परिसमाप्तश्च शास्त्रार्थः ॥

प्राचीनमेव ब्राह्मणमनूद्य मन्त्रान्तरमवतारयति —

इदमिति ।

प्रतिशब्दस्तन्त्रेणोच्चारितः । रूपं रूपमुपाधिभेदं प्रति प्रतिरूपो रूपान्तरं प्रतिबिम्बं बभूवेत्येतत्प्रतिरूपो बभूवेत्यत्र विवक्षितमिति योजना ।

अनुरूपो वेत्युक्तं विवृणोति —

यादृगित्यादिना ।

उक्तमर्थमनुभवारूढं करोति —

नहीति ।

रूपान्तरभवने कर्त्रन्तरं वारयति —

स एव हीति ।

प्रतिख्यापनाय शास्त्राचार्यादिभेदेन तत्त्वप्रकाशनायेत्यर्थः ।

तदेव व्यतिरेकेणान्वयेन च स्फुटयति —

यदि हीत्यादिना ।

मायाभिः प्रज्ञाभिरिति परपक्षमुक्त्वा स्वपक्षमाह —

मायाभिरिति ।

मिथ्याधीहेतुभूतानाद्यनिर्वाच्यदण्डायमान ज्ञानवशादेष बहुरूपो भाति ।

प्रकारभेदात्तु बहूक्तिरिति वाक्यार्थमाह —

एकरूप एवेति ।

अविद्याप्रज्ञाभिर्बहुरूपो गम्यत इति पूर्वेण संबन्धः ।

परस्य बहुरूपत्वे निमित्तं प्रश्नपूर्वकं निवेदयति —

कस्मादित्यादिना ।

यथा रथे युक्ता वाजिनो रथिनं स्वगोचरं देशं प्रापयितुं प्रवर्तन्ते तथाऽस्य प्रतीचो रथस्थानीयो शरीरे युक्ता हरयः स्वविषयप्रकाशनाय यस्मात्प्रवर्तन्ते तस्मादिन्द्रियाणां तद्विषयाणां च बहुलत्वात्तत्तद्द्रूपैरेष बहुरूपो भातीति योजना ।

हरिशब्दस्येन्द्रियेषु प्रवृत्तौ निमित्तमाह —

हरणादिति ।

प्रतीचो विषयान्प्रतीति शेषः ।

इन्द्रियबाहुल्ये हेतुमाह —

प्राणेति ।

इन्द्रियविषयबाहुल्यात् प्रत्यगात्मा बहुरूप इति शेषः ।

नन्वात्मानं प्रकाशयितुमिन्द्रियाणि प्रवृत्तानि न तु रूपादिकमेव तत्कथं तद्विषवशादात्मनोऽन्यथा प्रथेत्याशङ्क्याऽऽह —

तत्प्रकाशनायेति ।

तस्मादिन्द्रियविषयबाहुल्यादित्यत्रोक्तमुपसंहरति —

तस्मादिति ।

यद्वा यथोक्तश्रुतिवशेन लब्धमर्थमाह —

तस्मादिति ।

यस्मादिन्द्रियाणि पराग्विषये प्रवृत्तानि तस्मात्तैरिन्द्रियैर्विषयस्वरूपैरेवायं प्रत्यगात्मा गम्यते न तु स्वासाधारणेन रूपेणेत्यर्थः ।

युक्ता हीति संबन्धमाश्रित्य शङ्कते —

एवं तर्हीति ।

अयमित्यादिवाक्येन परिहरति —

अयमिति ।

तत्तदिन्द्रियादिरूपेणाऽऽत्मन एवाविद्यया भानात्संबन्धस्य च कल्पितत्वान्नाद्वैतहानिरित्यर्थः ।

इन्द्रियानन्त्ये हेतुमाह —

प्राणिभेदस्येति ।

वाक्यार्थव्याख्यानार्थमित्थं गतेन सन्दर्भेण भूमिकामारचय्य तत्परं वाक्यमवतार्य व्याकरोति —

किं बहुनेत्यादिना ।

न केवलमध्यायद्वयस्यैवार्थोऽत्र संक्षिप्योपसंहृतः किन्तु सर्ववेदान्तानामित्याह —

एष इति ।

तस्योभयविधपुरुषार्थरूपत्वमाह —

एतदिति ।

वक्तव्यान्तरपरिशेषशङ्कां परिहरति —

परिसमाप्तश्चेति ॥१९॥