बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःषष्ठं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
घृतकौशिकाद्घृतकौशिकः पाराशर्यायणात्पाराशर्यायणः पाराशर्यात्पाराशर्यो जातूकर्ण्याज्जातूकर्ण्य आसुरायणाच्च यास्काच्चासुरायणस्त्रैवणेस्त्रैवणिरौपजन्धनेरौपजन्धनिरासुरेरासुरिर्भारद्वाजाद्भारद्वाज आत्रेयादात्रेयो माण्टेर्माण्टिर्गौतमाद्गौतमो गौतमाद्गौतमो वात्स्याद्वात्स्यः शाण्डिल्याच्छाण्डिल्यः कैशोर्यात्काप्यात्कैशोर्यः काप्यः कुमारहारितात्कुमारहारितो गालवाद्गालवो विदर्भीकौण्डिन्याद्विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद्वत्सनपाद्बाभ्रवः पथः सौभरात्पन्थाः सौभरोऽयास्यादाङ्गिरसादयास्य आङ्गिरस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामश्विनौ दधीच आथर्वणाद्दध्यङ्ङाथर्वणोऽथर्वणो दैवादथर्वा दैवो मृत्योः प्राध्वंसनान्मृत्युः प्राध्वंसनः प्रध्वंसनात्प्रध्वंसन एकर्षेरेकर्षिर्विप्रचित्तेर्विप्रचित्तिर्व्यष्टेर्व्यष्टिः सनारोः सनारुः सनातनात्सनातनः सनगात्सनगः परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः ॥ ३ ॥
अथेदानीं ब्रह्मविद्यार्थस्य मधुकाण्डस्य वंशः स्तुत्यर्थो ब्रह्मविद्यायाः । मन्त्रश्चायं स्वाध्यायार्थो जपार्थश्च । तत्र वंश इव वंशः — यथा वेणुः वंशः पर्वणः पर्वणो हि भिद्यते तद्वत् अग्रात्प्रभृति आ मूलप्राप्तेः अयं वंशः ; अध्यायचतुष्टयस्य आचार्यपरम्पराक्रमो वंश इत्युच्यते ; तत्र प्रथमान्तः शिष्यः पञ्चम्यन्त आचार्यः ; परमेष्ठी विराट् ; ब्रह्मणो हिरण्यगर्भात् ; ततः परम् आचार्यपरम्परा नास्ति । यत्पुनर्ब्रह्म, तन्नित्यं स्वयम्भु, तस्मै ब्रह्मणे स्वयम्भुवे नमः ॥

ब्रह्मविद्यां संक्षेपविस्तराभ्यां प्रतिपाद्य वंशब्राह्मणतात्पर्यमाह —

अथेति ।

महाजनपरिगृहीता हि ब्रह्मविद्या तेन सा महाभागधेयेति स्तुतिः ।

ब्राह्मणस्यार्थान्तरमाह —

मन्त्रश्चेति ।

स्वाध्यायः स्वाधीनोच्चारणक्षमत्वे सत्यध्यापनं जपस्तु प्रत्यहमावृत्तिरिति भेदः ।

यथोक्तनीत्या ब्राह्मणारम्भे स्थिते वंशशब्दार्थमाह —

तत्रेति ।

तदेव स्फुटयति —

यथेति ।

शिष्यावसानोपलक्षिणीभूतात्पौतिमाष्यादारभ्य तदादिर्वेदाख्यब्रह्ममूलपर्यन्तोऽयं वंशः पर्वणः पर्वणो भिद्यत इति संबन्धः ।

वंशशब्देन निष्पन्नमर्थमाह —

अध्यायचतुष्टयस्येति ।

अथात्र शिष्याचार्यवाचकशब्दाभावे कुतो व्यवस्थेति तत्राऽऽह —

तत्रेति ।

परमेष्ठिब्रह्मशब्दयोरेकार्थत्वमाशङ्क्याऽऽह —

परमेष्ठीति ।

कुतस्तर्हि ब्रह्मणो विद्याप्राप्तिस्तत्राऽऽह —

तत इति ।

स्वयम्प्रतिभातवेदो हिरण्यगर्भो नाऽऽचार्यान्तरमपेक्षते । ईस्वरानुगृहीतस्य तस्य, बुद्धावाविर्भूताद्वेदादेव विद्यालाभसंभवादित्यर्थः ।

कुतस्तर्हि वेदो जायते तत्राऽऽह —

यत्पुनरिति ।

परस्यैव ब्रह्मणो वेदरूपेणावस्थानात्तस्य नित्यत्वान्न हेत्वपेक्षेत्यर्थः ।

आदावन्ते च कृतमङ्गला ग्रन्थाः प्रचारिणो भवन्तीति द्योतयितुमन्ते ब्रह्मणे नम इत्युक्तम् । तद्व्याचष्टे —

तस्मा इति ॥१–२–३॥