बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्युनाप्तं सर्वं मृत्युनाभिपन्नं केन यजमानो मृत्योराप्तिमतिमुच्यत इति होत्रर्त्विजाग्निना वाचा वाग्वै यज्ञस्य होता तद्येयं वाक्सोऽयमग्निः स होता स मुक्तिः सातिमुक्तिः ॥ ३ ॥
याज्ञवल्क्येति होवाच । तत्र मधुकाण्डे पाङ्क्तेन कर्मणा दर्शनसमुच्चितेन यजमानस्य मृत्योरत्ययो व्याख्यातः उद्गीथप्रकरणे सङ्क्षेपतः ; तस्यैव परीक्षाविषयोऽयमिति तद्गतदर्शनविशेषार्थोऽयं विस्तर आरभ्यते । यदिदं साधनजातम् अस्य कर्मणः ऋत्विगग्न्यादि मृत्युना कर्मलक्षणेन स्वाभाविकासङ्गसहितेन आप्तं व्याप्तम् , न केवलं व्याप्तम् अभिपन्नं च मृत्युना वशीकृतं च — केन दर्शनलक्षणेन साधनेन यजमानः मृत्योराप्तिमति मृत्युगोचरत्वमतिक्रम्य मुच्यते स्वतन्त्रः मृत्योरवशो भवतीत्यर्थः । ननु उद्गीथ एवाभिहितम् येनातिमुच्यते मुख्यप्राणात्मदर्शनेनेति — बाढमुक्तम् ; योऽनुक्तो विशेषस्तत्र, तदर्थोऽयमारम्भ इत्यदोषः । होत्रा ऋत्विजा अग्निना वाचा इत्याह याज्ञवल्क्यः । एतस्यार्थं व्याचष्टे — कः पुनर्होता येन मृत्युमतिक्रामतीति उच्यते — वाग्वै यज्ञस्य यजमानस्य, ‘यज्ञो वै यजमानः’ (शत. ब्राह्म. १४ । २ । २ । २४) इति श्रुतेः, यज्ञस्य यजमानस्य या वाक् सैव होता अधियज्ञे ; कथम् ? तत् तत्र येयं वाक् यज्ञस्य यजमानस्य, सोऽयं प्रसिद्धोऽग्निः अधिदैवतम् ; तदेतत्त्र्यन्नप्रकरणे व्याख्यातम् ; स चाग्निः होता, ‘अग्निर्वै होता’ (शत. ब्रा. ४ । २ । ६) इति श्रुतेः । यदेतत् यज्ञस्य साधनद्वयम् — होता च ऋत्विक् अधियज्ञम् , अध्यात्मं च वाक् , एतदुभयं साधनद्वयं परिच्छिन्नं मृत्युना आप्तं स्वाभाविकाज्ञानासङ्गप्रयुक्तेन कर्मणा मृत्युना प्रतिक्षणमन्यथात्वमापद्यमानं वशीकृतम् ; तत् अनेनाधिदैवतरूपेणाग्निना दृश्यमानं यजमानस्य यज्ञस्य मृत्योरतिमुक्तये भवति ; तदेतदाह — स मुक्तिः स होता अग्निः मुक्तिः अग्निस्वरूपदर्शनमेव मुक्तिः ; यदैव साधनद्वयमग्निरूपेण पश्यति, तदानीमेव हि स्वाभाविकादासङ्गान्मृत्योर्विमुच्यते आध्यात्मिकात्परिच्छिन्नरूपात् आधिभौतिकाच्च ; तस्मात् स होता अग्निरूपेण दृष्टः मुक्तिः मुक्तिसाधनं यजमानस्य । सा अतिमुक्तिः — यैव च मुक्तिः सा अतिमुक्तिः अतिमुक्तिसाधनमित्यर्थः । साधनद्वयस्य परिच्छिन्नस्य या अधिदैवतरूपेण अपरिच्छिन्नेन अग्निरूपेण दृष्टिः, सा मुक्तिः ; या असौ मुक्तिः अधिदैवतदृष्टिः सैव — अध्यात्माधिभूतपरिच्छेदविषयाङ्गास्पदं मृत्युमतिक्रम्य अधिदेवतात्वस्य अग्निभावस्य प्राप्तिर्या फलभूता सा अतिमुक्तिरित्युच्यते ; तस्या अतिमुक्तेर्मुक्तिरेव साधनमिति कृत्वा सा अतिमुक्तिरित्याह । यजमानस्य हि अतिमुक्तिः वागादीनामग्न्यादिभावः इत्युद्गीथप्रकरणे व्याख्यातम् ; तत्र सामान्येन मुख्यप्राणदर्शनमात्रं मुक्तिसाधनमुक्तम् , न तद्विशेषः ; वागादीनामग्न्यादिदर्शनमिह विशेषो वर्ण्यते ; मृत्युप्राप्त्यतिमुक्तिस्तु सैव फलभूता, या उद्गीथब्राह्मणेन व्याख्याता ‘मृत्युमतिक्रान्तो दीप्यते’ (बृ. उ. १ । ३ । १२), (बृ. उ. १ । ३ । १३), (बृ. उ. १ । ३ । १४), (बृ. उ. १ । ३ । १५), (बृ. उ. १ । ३ । १६), इत्याद्या ॥

तत्र प्रथमं मुनेराभिमुख्यमापादयितुं संबोधयति —

याज्ञवल्क्येति ।

उक्तरीत्याऽऽश्वलप्रश्ने प्रस्तुते तस्योद्गीथाधिकारेण संगतिमाह —

तत्रेति ।

मधुकाण्डे पूर्वत्र व्याख्याते यदुद्गीथप्रकरणं तस्मिनासंगपाप्मनो मृत्योरपत्ययः समुच्चितेन कर्मणा संक्षेपतो व्याख्यात इति संबन्धः । तस्यैवोद्गीथदर्शनस्येति यावत् । परीक्षाविषयो विचारभूमिरियं प्रश्नप्रतिवचनरूपो ग्रन्थ इत्यर्थः । तच्छब्दः समनन्तरनिर्दिष्टग्रन्थविषयः । दर्शनमुद्गीथोपासनं तस्य विशेषो वागादेरग्न्याद्यात्मत्वविज्ञानं तत्सिद्ध्यर्थोऽयं प्रक्रमः ।

एवमवान्तरसंगतिमुक्त्वा प्रश्नाक्षराणि व्याचष्टे —

यदिदमिति ।

मृत्युनाऽऽप्तमित्यनेन मृत्युनाऽभिपन्नमित्यस्य गतार्थत्वमाशङ्क्याऽऽह —

न केवलमिति ।

कर्मणो मृत्युत्वात्तेन मृत्योरत्ययायोगात्तदत्ययसाधनं किञ्चिद्दर्शनमेव वाच्यमित्याशयेन पृच्छति —

केनेति ।

दर्शनविषयं प्रश्नमाक्षिपति —

नन्विति ।

येन मुख्यप्राणात्मदर्शनेनातिमुच्यते तदुद्गीथप्रक्रियायामेवोक्तं तथाच मृत्योरत्ययोपायस्य विज्ञानस्य निर्ज्ञातत्वात्केनेतिप्रश्नानुपपत्तिरिति योजना ।

तस्यैव परीक्षाविषयोऽयमित्यादावुक्तमादाय परिहरति —

बाढमिति ।

उद्गीथप्रकरणे वागादेरग्न्याद्यात्मत्वदर्शनरूपो यो विशेषो वक्तव्योऽपि नोक्तस्तदुक्त्यर्थोऽयं प्रश्नप्रतिवचनरूपो ग्रन्थ इति कृत्वा केनेत्यादिप्रशोपपत्तिरित्यर्थः ।

कीदृक्पुनर्दर्शनं मृत्युजयसाधनं होत्रेत्यादावुक्तमित्याशङ्क्याऽऽह —

एतस्येति ।

व्याचष्टे वाग्वै यज्ञस्येतादिनेति शेषः ।

व्याख्यानमेव विशदयितुं पृच्छति —

कः पुनरिति ।

दर्शनविषयं दर्शयन्नुत्तरमाह —

उच्यत इति ।

यज्ञशब्दस्य यजमाने वृद्धप्रयोगो नास्तीत्याशङ्क्याऽऽह —

यज्ञ इति ।

यजमानस्य या वागध्यात्मं सैवाधियज्ञे होताऽस्तु तथाऽपि कथं तयोर्देवतात्मना दर्शनमित्याह —

कथमिति ।

तयोरग्न्यात्मना दर्शनमुत्तरवाक्यावष्टम्भेन व्याचष्टे —

तत्तत्रेति ।

कथं पुनर्वागग्न्योरेकत्वं तदाह —

तदेतदिति ।

तयोरेकत्वेऽपि कुतो हेतुस्तदैक्यमित्याशङ्क्याऽऽह —

स चेति ।

स मुक्तिरित्येतदवतारयितुं भूमिकां करोति —

यदेतदिति ।

न केवलमेतदुभयं मृत्युना संस्पृष्टमेव किन्तु तेन वशीकृतं चेत्याह —

स्वाभाविकेति ।

मृत्युनाऽऽप्तं मृत्युनाऽभिपन्नमित्यनयोरर्थमनूद्य होत्रेत्यादेरर्थमनुवदति —

तदनेनेति ।

साधनद्वयं तच्छब्दार्थः । यजमानग्रहणं होतुरुपलक्षणम् ।

उक्तेऽर्थे समनन्तरवाक्यमवतार्य व्याकरोति —

तदेतदाहेति ।

मुक्तिशब्दस्तत्साधनविषयः ।

पदार्थमुक्त्वा वाक्यार्थमाह —

अग्निस्वरूपेति ।

वाचो होतुश्चाग्निस्वरूपेण दर्शनमेव मुक्तिहेतुरिति यावत् ।

उक्तमर्थं प्रपञ्चयति —

यदैवेति ।

स मुक्तिरित्यस्यार्थमुपसंहरति —

तस्मादिति ।

वाक्यान्तरं समुत्थाप्य व्याचष्टे —

साऽतिमुक्तिरिति ।

मुक्त्यतिमुक्त्योरसंकीर्णत्वं दर्शयति —

साधनद्वयस्येति ।

प्राप्तिरतिमुक्तिरिति संबन्धः ।

तामेव संगृह्णाति —

या फलभूतेति ।

फलभूतायामग्न्यादिदेवताप्राप्तौ कथमतिमुक्तिशब्दोपपत्तिरित्याशङ्क्याऽऽह —

तस्या इति ।

ननु वागादीनामग्न्यादिभावोऽत्र श्रूयते यजमानस्य तु न किञ्चिदुच्यते तत्राऽऽह —

यजमानस्येति ।

तर्हि तेनैव गतार्थत्वादनर्थकमिदं ब्राह्मणमित्याशङ्क्य बाढमित्यादिनोक्तं स्मारयति —

तत्रेति ।

दर्शनवत्फलेऽपि विशेषः स्यादित्याशङ्क्याऽऽह —

मृत्युप्राप्तीति ॥३॥