बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
याज्ञवल्क्येति होवाच यदिदं सर्वमहोरात्राभ्यामाप्तं सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत इत्यध्वर्युणर्त्विजा चक्षुषादित्येन चक्षुर्वै यज्ञस्याध्वर्युस्तद्यदिदं चक्षुः सोऽसावादित्यः सोऽध्वर्युः स मुक्तिः सातिमुक्तिः ॥ ४ ॥
याज्ञवल्क्येति होवाच । स्वाभाविकात् अज्ञानासङ्गप्रयुक्तात् कर्मलक्षणान्मृत्योः अतिमुक्तिर्व्याख्याता ; तस्य कर्मणः सासङ्गस्य मृत्योराश्रयभूतानां दर्शपूर्णमासादिकर्मसाधनानां यो विपरिणामहेतुः कालः, तस्मात्कालात् पृथक् अतिमुक्तिर्वक्तव्येतीदमारभ्यते, क्रियानुष्ठानव्यतिरेकेणापि प्राक् ऊर्ध्वं च क्रियायाः साधनविपरिणामहेतुत्वेन व्यापारदर्शनात्कालस्य ; तस्मात् पृथक् कालादतिमुक्तिर्वक्तव्येत्यत आह — यदिदं सर्वमहोरात्राभ्यामाप्तम् , स च कालो द्विरूपः — अहोरात्रादिलक्षणः तिथ्यादिलक्षणश्च ; तत्र अहोरात्रादिलक्षणात्तावदतिमुक्तिमाह — अहोरात्राभ्यां हि सर्वं जायते वर्धते विनश्यति च, तथा यज्ञसाधनं च — यज्ञस्य यजमानस्य चक्षुः अध्वर्युश्च ; शिष्टान्यक्षराणि पूर्ववन्नेयानि ; यजमानस्य चक्षुरध्वर्युश्च साधनद्वयम् अध्यात्माधिभूतपरिच्छेदं हित्वा अधिदैवतात्मना दृष्टं यत् स मुक्तिः — सोऽध्वर्युः आदित्यभावेन दृष्टो मुक्तिः ; सैव मुक्तिरेव अतिमुक्तिरिति पूर्ववत् ; आदित्यात्मभावमापन्नस्य हि नाहोरात्रे सम्भवतः ॥

प्रश्नान्तरमवतार्य तात्पर्यमाह —

याज्ञवल्क्येति ।

आश्रयभूतानि कानि तानीत्याशङ्क्याऽऽह —

दर्शपूर्णमासादीति ।

प्रतिक्षणमन्यथात्वं विपरिणामः । अग्न्यादिसाधनान्याश्रित्य काम्यं कर्म मृत्युशब्दितमुत्पद्यते तेषां साधनानां विपरिणामहेतुत्वात्कालो मृत्युस्ततोऽतिमुक्तिर्वक्तव्येत्युत्तरग्रन्थारम्भ इत्यर्थः ।

कर्मणो मुक्तिरुक्ता चेत्कालादपि सोक्तैव तस्य कर्मान्तर्भावेन मृत्युत्वादित्याशङ्क्याऽऽह —

पृथगिति ।

कर्मनिरपेक्षतया कालस्य मृत्युत्वं व्युत्पादयति —

क्रियेति ।

कालस्य पृथङ्मृत्युत्वे सिद्धे फलितमाह —

तस्मादिति ।

उत्तरग्रन्थस्थप्रश्नयोर्विषयं भेत्तुं कालं भिनत्ति —

स चेति ।

आदित्यश्चन्द्रश्चेति कर्तृभेदाद्वैविध्यमुन्नेयम् ।

कालस्य दैरूप्ये सत्याद्यकण्डिकाविषयमाह —

तत्रेति ।

अहोरात्रयोर्मृत्युत्वे सिद्धे ताभ्यामतिमुक्तिर्वक्तव्या तदेव कथमित्याशङ्क्याऽऽह —

अहोरात्राभ्यामिति ।

यज्ञसाधनं च तथा ताभ्यां जायते वर्धते नश्यति चेति संबन्धः ।

प्रतिवचनव्याख्याने यज्ञशब्दार्थमाह —

यजमानस्येति ।

स मुक्तिरित्यस्य तत्पर्यार्थमाह —

यजमानस्येत्यादिना ।

तस्यैवाक्षरार्थं कथयति —

सोऽध्वर्युरिति ।

यथोक्तरीत्याऽऽदित्यात्मत्वेऽपि कथमहोरात्रलक्षणान्मृत्योरतिरिमुक्तिरत आह —

आदित्येति ।

’नोदेता नास्तमेता’ इत्यादिश्रुतेरादित्ये वस्तुतो नाहोरात्रे स्तः । तथा च तदात्मनि विदुष्यपि न ते संभवत इत्यर्थः ॥४॥