बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
याज्ञवल्क्येति होवाच यदिदं सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तं सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नं केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इत्युद्गात्रर्त्विजा वायुना प्राणेन प्राणो वै यज्ञस्योद्गाता तद्योऽयं प्राणः स वायुः स उद्गाता स मुक्तिः सातिमुक्तिः ॥ ५ ॥
इदानीं तिथ्यादिलक्षणादतिमुक्तिरुच्यते — यदिदं सर्वम् — अहोरात्रयोरविशिष्टयोरादित्यः कर्ता, न प्रतिपदादीनां तिथीनाम् ; तासां तु वृद्धिक्षयोपगमनेन प्रतिपत्प्रभृतीनां चन्द्रमाः कर्ता ; अतः तदापत्त्या पूर्वपक्षापरपक्षात्ययः, आदित्यापत्त्या अहोरात्रात्ययवत् । तत्र यजमानस्य प्राणो वायुः, स एवोद्गाता — इत्युद्गीथब्राह्मणेऽवगतम् , ‘वाचा च ह्येव स प्राणेन चोदगायत्’ (बृ. उ. १ । ३ । २४) इति च निर्धारितम् ; अथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ चन्द्रः’ इति च ; प्राणवायुचन्द्रमसामेकत्वात् चन्द्रमसा वायुना चोपसंहारे न कश्चिद्विशेषः — एवंमन्यमाना श्रुतिः वायुना अधिदैवतरूपेणोपसंहरति । अपि च वायुनिमित्तौ हि वृद्धिक्षयौ चन्द्रमसः ; तेन तिथ्यादिलक्षणस्य कालस्य कर्तुरपि कारयिता वायुः । अतो वायुरूपापन्नः तिथ्यादिकालादतीतो भवतीत्युपपन्नतरं भवति । तेन श्रुत्यन्तरे चन्द्ररूपेण दृष्टिः मुक्तिरतिमुक्तिश्च ; इह तु काण्वानां साधनद्वयस्य तत्कारणरूपेण वाय्वात्मना दृष्टिः मुक्तिरतिमुक्तिश्चेति — न श्रुत्योर्विरोधः ॥

कण्डिकान्तरस्य तात्पर्यमाह —

इदानीमिति ।

नन्वहोरात्रादिलक्षणे काले तिथ्यादिलक्षणस्य कालस्यान्तर्भावात्ततोऽतिमुक्तावुक्तायां तिथ्यादिलक्षणादपि कालादसावुक्तैवेति कृतं पृथगारम्भेणेति तत्राऽऽह —

अहोरात्रयोरिति ।

अविशिष्टयोर्वृद्धिक्षयशून्ययोरिति यावत् ।

कथं तर्हि तिथ्यादिक्षणात्कालादतिमुक्तिरत आह —

अतस्तदापत्त्येति ।

चन्द्राप्राप्त्या तिथ्याद्यत्ययो माध्यन्दिनश्रुत्योच्यते काण्वश्रुत्या तु वायुभावापत्त्या तदत्यय उक्तः ।

तथा च श्रुत्येर्विरोधे कः समाधिरित्याशङ्क्याऽऽह —

तत्रेति ।

काण्वश्रुताविति यावत् ।

उद्गातुरपि प्राणात्मकवायुरूपत्वं श्रुतिद्वयानुसारेण दर्शयति —

स एवेति ।

न केवलमुद्गातुः प्राणत्वं प्रतिज्ञामात्रेण प्रतिपन्नं किन्तु विचार्य निर्धारितं चेत्याह —

वाचेति ।

प्राणचन्द्रमसोश्चैकत्वं सप्तान्नाधिकारे निर्धारितमित्याह —

अथेति ।

उक्तया रीत्या प्राणादीनामेकत्वे श्रुत्येरविरोधं फलितमाह —

प्राणेति ।

मनोब्रह्मणोश्चन्द्रमसा प्राणोद्गात्रोश्च वायुनोपास्यत्वेनोपसंग्रहे मृत्युतरणे विशेषो नास्तीति श्रुत्योर्विकल्पेनोपपत्तिरित्यर्थः । उपसंहरति प्राणमुद्गातारं च तद्रूपेणोपास्यतया संगृह्णाति काण्व श्रुतिरित्यर्थः ।

इतश्च काण्वश्रुतिरुपपन्नेत्याह —

अपि चेति ।

वायुः सूत्रात्मा तन्निमित्तौ स्वावयवस्य चन्द्रमसो वृद्धिह्रासौ । सूत्राधीना हि चन्द्रादेर्जगतश्चेष्टेत्यर्थः ।

वृद्ध्यादिहेतुत्वे फलितमाह —

तेनेति ।

कर्तुश्चन्द्रस्येत्यर्थः ।

वायोश्चन्द्रमसि कारयितृत्वेऽपि प्रकृते किमायातं तदाह —

अत इति ।

उदितानुदितहोमवद्विकल्पमुपेत्याविरोधमुपसंहरति —

तेनेति ।

श्रुत्यन्तरं माध्यन्दिनश्रुतिः । साधनद्वयस्येत्युभयत्र संबध्यते । तत्राऽऽदौ मनसो ब्रह्मणश्चेत्यर्थः । उत्तरत्र प्राणस्योद्गातुश्चेत्यर्थः । तच्छब्दश्चन्द्रविषयः ॥५॥