बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति ब्रह्मणर्त्विजा मनसा चन्द्रेण मनो वै यज्ञस्य ब्रह्मा तद्यदिदं मनः सोऽसौ चन्द्रः स ब्रह्मा स मुक्तिः सातिमुक्तिरित्यतिमोक्षा अथ सम्पदः ॥ ६ ॥
मृत्योः कालात् अतिमुक्तिर्व्याख्याता यजमानस्य । सोऽतिमुच्यमानः केनावष्टम्भेन परिच्छेदविषयं मृत्युमतीत्य फलं प्राप्नोति — अतिमुच्यते — इत्युच्यते — यदिदं प्रसिद्धम् अन्तरिक्षम् आकाशः अनारम्बणम् अनालम्बनम् इव - शब्दात् अस्त्येव तत्रालम्बनम् , तत्तु न ज्ञायते इत्यभिप्रायः । यत्तु तत् अज्ञायमानमालम्बनम् , तत् सर्वनाम्ना केनेति पृच्छ्यते, अन्यथा फलप्राप्तेरसम्भवात् ; येनावष्टम्भेन आक्रमेण यजमानः कर्मफलं प्रतिपद्यमानः अतिमुच्यते, किं तदिति प्रश्नविषयः ; केन आक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति — स्वर्गं लोकं फलं प्राप्नोति अतिमुच्यत इत्यर्थः । ब्रह्मणा ऋत्विजा मनसा चन्द्रेणेत्यक्षरन्यासः पूर्ववत् । तत्राध्यात्मं यज्ञस्य यजमानस्य यदिदं प्रसिद्धं मनः, सोऽसौ चन्द्रः अधिदैवम् ; मनोऽध्यात्मं चन्द्रमा अधिदैवतमिति हि प्रसिद्धम् ; स एव चन्द्रमा ब्रह्मा ऋत्विक् तेन — अधिभूतं ब्रह्मणः परिच्छिन्नं रूपम् अध्यात्मं च मनसः एतत् द्वयम् अपरिच्छिन्नेन चन्द्रमसो रूपेण पश्यति ; तेन चन्द्रमसा मनसा अवलम्बनेन कर्मफलं स्वर्गं लोकं प्राप्नोति अतिमुच्यते इत्यभिप्रायः । इतीत्युपसंहारार्थं वचनम् ; इत्येवं प्रकारा मृत्योरतिमोक्षाः ; सर्वाणि हि दर्शनप्रकाराणि यज्ञाङ्गविषयाण्यस्मिन्नवसरे उक्तानीति कृत्वा उपसंहारः — इत्यतिमोक्षाः — एवं प्रकारा अतिमोक्षा इत्यर्थः । अथ सम्पदः अथ अधुना सम्पद उच्यन्ते । सम्पन्नाम केनचित्सामान्येन अग्निहोत्रादीनां कर्मणां फलवतां तत्फलाय सम्पादनम् , सम्पत्फलस्यैव वा ; सर्वोत्साहेन फलसाधनानुष्ठाने प्रयतमानानां केनचिद्वैगुण्येनासम्भवः ; तत् इदानीमाहिताग्निः सन् यत्किञ्चित्कर्म अग्निहोत्रादीनां यथासम्भवमादाय आलम्बनीकृत्य कर्मफलविद्वत्तायां सत्यां यत्कर्मफलकामो भवति, तदेव सम्पादयति ; अन्यथा राजसूयाश्वमेधपुरुषमेधसर्वमेधलक्षणानामधिकृतानां त्रैवर्णिकानामपि असम्भवः — तेषां तत्पाठः स्वाध्यायार्थ एव केवलः स्यात् , यदि तत्फलप्राप्त्युपायः कश्चन न स्यात् ; तस्मात् तेषां सम्पदैव तत्फलप्राप्तिः, तस्मात्सम्पदामपि फलवत्त्वम् , अतः सम्पदं आरभ्यन्ते ॥

यदिदमन्तरिक्षमित्यादि प्रश्नान्तरं वृत्तानुवादपूर्वकमुपादत्ते —

मृत्योरिति ।

व्याख्यानव्याख्येयभावेन क्रियापदे नेतव्ये । इत्येतत्प्रश्नरूपमुच्यते समनन्तरवाक्येनेति यावत् ।

तद्व्याचष्टे —

यदिदमिति ।

केनेतिप्रश्नस्य विषयामाह —

यत्त्विति ।

प्रश्नविषयं प्रपञ्चयति —

अन्यथेति ।

आलम्बनमन्तरेणेति यावत् ।

प्रश्नार्थं संक्षिप्योपसंहरति —

केनेति ।

अक्षरन्यासोऽक्षराणामर्थेषु वृत्तिरिति यावत् ।

मनो वै यज्ञस्येत्यादेरर्थमाह —

तत्रेति ।

व्यवहारभूमिः सप्तम्यर्थः ।

वाक्यार्थमाह —

तेनेति ।

तृतीया तृतीयाभ्यां संबध्यते ।

दर्शनफलमाह —

तेनेति ।

वागादीनामग्न्यादिभावेन दर्शनमुक्तं त्वगादीनां तु वाय्वादिभावेन दर्शनं वक्तव्यं तत्कथं वक्तव्यशेषे सत्युपसंहारोपपत्तिरित्याशङ्क्याऽऽह —

सर्वाणीति ।

वागादावुक्तन्यायस्य त्वगादावतिदेशोऽत्र विवक्षित इत्याह —

एवं प्रकारा इति ।

अथशब्दो दर्शनप्रभेदकथनानन्तर्यार्थः ।

केयं संपन्नामेति पृच्छति —

संपन्नामेति ।

उत्तरमाह —

केनचिदिति ।

महतां फलवतामश्वमेधादिकर्मणां कर्मत्वादिना सामान्येनाल्पीयस्सु कर्मसु विवक्षितफलसिद्ध्यर्थं संपत्तिस्संपदुच्यते । यथाशक्त्यग्निहोत्रादिनिर्वर्तनेनाश्वमेधादि मया निर्वर्त्यत इति ध्यानं संपदित्यर्थः ।

यद्वा फलस्यैव देवलोकादेरुज्ज्वलत्वादिसामान्येनाऽऽज्याद्याहुतिषु संपादनं संपदित्याह —

फलस्येति ।

संपदनुष्ठानावसरमादर्शयति —

सर्वोत्साहेनेति ।

असंभवोऽनुष्ठानस्य यदेति शेषः । कर्मिणामेव संपदनुष्ठानेऽविकार इति दर्शयितुमाहिताग्निः सन्नित्युक्तम् । अग्निहोत्रादीनामिति निर्धारणे षष्ठी । यथासंभवं वर्णाश्रमानुरूपमिति यावत् । आदायेत्यस्य व्याख्यानमालम्बनीकृत्येति ।

न केवलं कर्मित्वमेव संपदनुष्ठातुरपेक्ष्यते किन्तु तत्फलविद्यावत्त्वमपीत्याह —

कर्मेति ।

तदेव कर्मफलमेवेत्यर्थः ।

कर्माण्येव फलवन्ति न संपदस्तत्कथं तासां कार्यतेत्याशङ्क्याऽऽह —

अन्यथेति ।

विहिताध्ययनस्यार्थज्ञानानुष्ठानादिपरम्परया फलवत्त्वमिष्टम् । न चाश्वमेधादिषु सर्वेषामनुष्ठानसंभवः कर्मस्वधिकृतानामपि त्रैवर्णिकानां केषाञ्चिदनुष्ठानासंभवादतस्तेषां तदध्ययनार्थवत्त्वानुपपत्त्या संपदामपि फलवत्त्वमेष्टव्यमित्यर्थः ।

महतोऽश्वमेधादिफलस्य कथमल्पीयस्या संपदा प्राप्तिरित्याशङ्क्य शास्त्रप्रामाण्यादित्यभिप्रेत्याऽऽह —

यदीति ।

तदा तत्पाठः स्वाध्यायार्थ एवेति पूर्वेण संबन्धः ।

अध्ययनस्य फलवत्त्वे वक्तव्ये फलितमाह —

तस्मादिति ।

तेषां राजसूयादीनामिति यावत् ।

ब्राह्मणादीनां राजसूयाद्यध्ययनसामर्थ्यात्तेषां संपदैव तत्फलप्राप्तावपि किं सिध्यति तदाह —

तस्मात्संपदामिति ।

कर्मणामिवेति दृष्टान्तार्थोऽपिशब्दः ।

तासां फलवत्त्वे फलितमाह —

अत इति ॥६॥