बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
याज्ञवल्क्येति होवाच कतिभिरयमद्यर्ग्भिर्होतास्मिन्यज्ञे करिष्यतीति तिसृभिरिति कतमास्तास्तिस्र इति पुरोनुवाक्या च याज्या च शस्यैव तृतीया किं ताभिर्जयतीति यत्किञ्चेदं प्राणभृदिति ॥ ७ ॥
याज्ञवल्क्येति होवाच अभिमुखीकरणाय । कतिभिरयमद्यर्ग्भिर्होतास्मिन्यज्ञे — कतिभिः कतिसङ्ख्याभिः ऋग्भिः ऋग्जातिभिः, अयं होता ऋत्विक् , अस्मिन्यज्ञे करिष्यति शस्त्रं शंसति ; आह इतरः — तिसृभिः ऋग्जातिभिः — इति — उक्तवन्तं प्रत्याह इतरः — कतमास्तास्तिस्र इति ; सङ्ख्येयविषयोऽयं प्रश्नः, पूर्वस्तु सङ्ख्याविषयः । पुरोनुवाक्या च — प्राग्यागकालात् याः प्रयुज्यन्ते ऋचः, सा ऋग्जातिः पुरोनुवाक्येत्युच्यते ; यागार्थं याः प्रयुज्यन्ते ऋचः सा ऋग्जातिः याज्या ; शस्त्रार्थं याः प्रयुज्यन्ते ऋचः सा ऋग्जातिः शस्या ; सर्वास्तु याः काश्चन ऋचः, ताः स्तोत्रिया वा अन्या वा सर्वा एतास्वेव तिसृषु ऋग्जातिष्वन्तर्भवन्ति । किं ताभिर्जयतीति यत्किञ्चेदं प्राणभृदिति — अतश्च सङ्ख्यासामान्यात् यत्किञ्चित्प्राणभृज्जातम् , तत्सर्वं जयति तत्सर्वं फलजातं सम्पादयति सङ्ख्यादिसामान्येन ॥

संपदामारम्भमुपपाद्य प्रश्नवाक्यमुत्थापयति —

याज्ञवल्क्येतीति ।

प्रतीकमादाय व्याचष्टे —

कतिभिरित्यादिना ।

कतिभिः कतमा इति प्रश्नयोर्विषयभेदं दर्शयति —

संख्येयेति ।

स्तोत्रिया नामान्याऽपि काचिदृग्जातिरस्तीत्याशङ्क्याऽऽह —

सर्वास्त्विति ।

अन्या वेति शस्त्रजातिग्रहः । विधेयभेदात्सर्वशब्दापुनरुक्तिः । अतश्च संपत्तिकरणादित्यर्थः । संख्यासामान्यात्त्रित्वाविशेषादिति यावत् । प्राणभृज्जातं लोकत्रयं विवक्षितम् ॥७॥