बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीर्होष्यतीति तिस्र इति कतमास्तास्तिस्र इति या हुता उज्ज्वलन्ति या हुता अतिनेदन्ते या हुता अधिशेरते किं ताभिर्जयतीति या हुता उज्ज्वलन्ति देवलोकमेव ताभिर्जयति दीप्यत इव हि देवलोको या हुता अतिनेदन्ते पितृलोकमेव ताभिर्जयत्यतीव हि पितृलोको या हुता अधिशेरते मनुष्यलोकमेव ताभिर्जयत्यध इव हि मनुष्यलोकः ॥ ८ ॥
याज्ञवल्क्येति होवाचेति पूर्ववत् । कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीर्होष्यतीति — कति आहुतिप्रकाराः ? तिस्र इति ; कतमास्तास्तिस्र इति पूर्ववत् । इतर आह — या हुता उज्ज्वलन्ति समिदाज्याहुतयः, या हुता अतिनेदन्ते अतीव शब्दं कुर्वन्ति मांसाद्याहुतयः, या हुता अधिशेरते अधि अधो गत्वा भूमेः अधिशेरते पयःसोमाहुतयः । किं ताभिर्जयतीति ; ताभिरेवं निर्वर्तिताभिराहुतिभिः किं जयतीति ; या आहुतयो हुता उज्ज्वलन्ति उज्ज्वलनयुक्ता आहुतयो निर्वर्तिताः — फलं च देवलोकाख्यं उज्ज्वलमेव ; तेन सामान्येन या मयैता उज्ज्वलन्त्य आहुतयो निर्वर्त्यमानाः, ता एताः — साक्षाद्देवलोकस्य कर्मफलस्य रूपं देवलोकाख्यं फलमेव मया निर्वर्त्यते — इत्येवं सम्पादयति । या हुता अतिनेदन्ते आहुतयः, पितृलोकमेव ताभिर्जयति, कुत्सितशब्दकर्तृत्वसामान्येन ; पितृलोकसम्बद्धायां हि संयमिन्यां पुर्यां वैवस्वतेन यात्यमानानां ‘हा हताः स्म, मुञ्च मुञ्च’ इति शब्दो भवति ; तथा अवदानाहुतयः ; तेन पितृलोकसामान्यात् , पितृलोक एव मया निर्वर्त्यते - इति सम्पादयति । या हुता अधिशेरते, मनुष्यलोकमेव ताभिर्जयति, भूम्युपरिसम्बन्धसामान्यात् ; अध इव हि अध एव हि मनुष्यलोक उपरितनान् साध्यान् लोकानपेक्ष्य, अथवा अधोगमनमपेक्ष्य ; अतः मनुष्यलोक एव मया निर्वर्त्यते — इति सम्पादयति पयःसोमाहुतिनिर्वर्तनकाले ॥

प्रथमः संख्याविषयो द्वितीयस्तु संख्येयविषयः प्रश्न इति विभागं लक्षयति —

पूर्ववदिति ।

तेन सामान्येनोज्ज्वलत्वेनेति यावत् ।

उक्तमर्थं संक्षिप्याऽऽह —

देवलोकाख्यमिति ।

कथं मांसाद्याहुतीनां पितृलोकेन सह यथोक्तं सामान्यमत आह —

पितृलोकेति ।

अधोगमनमपेक्ष्येति ।

अस्ति हि सोमाद्याहुतीनामधस्ताद्गमनमस्ति च मनुष्यलोकस्य पापप्रचुरस्य तादृग्गमनं तदपेक्ष्येत्यर्थः । अतः सामान्यादिति यावत् ॥८॥