बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
याज्ञवल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायतीत्येकयेति कतमा सैकेति मम एवेत्यनन्तं वै मनोऽनन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥ ९ ॥
याज्ञवल्क्येति होवाचेति पूर्ववत् । अयम् ऋत्विक् ब्रह्मा दक्षिणतो ब्रह्मा आसने स्थित्वा यज्ञं गोपायति । कतिभिर्देवताभिर्गोपायतीति प्रासङ्गिकमेतद्बहुवचनम् — एकया हि देवतया गोपायत्यसौ ; एवं ज्ञाते बहुवचनेन प्रश्नो नोपपद्यते स्वयं जानतः ; तस्मात् पूर्वयोः कण्डिकयोः प्रश्नप्रतिवचनेषु — कतिभिः कति तिसृभिः तिस्रः — इति प्रसङ्गं दृष्ट्वा इहापि बहुवचनेनैव प्रश्नोपक्रमः क्रियते ; अथवा प्रतिवादिव्यामोहार्थं बहुवचनम् । इतर आह — एकयेति ; एका सा देवता, यया दक्षिणतः स्थित्वा ब्रह्म आसने यज्ञं गोपायति । कतमा सैकेति — मन एवेति, मनः सा देवता ; मनसा हि ब्रह्मा व्याप्रियते ध्यानेनैव, ‘तस्य यज्ञस्य मनश्च वाक्च वर्तनी तयोरन्यतरां मनसा संस्करोति ब्रह्मा’ (छा. उ. ४ । १६ । १), (छा. उ. ४ । १६ । २) इति श्रुत्यन्तरात् ; तेन मन एव देवता, तया मनसा हि गोपायति ब्रह्मा यज्ञम् । तच्च मनः वृत्तिभेदेनानन्तम् ; वै - शब्दः प्रसिद्धावद्योतनार्थः ; प्रसिद्धं मनस आनन्त्यम् ; तदानन्त्याभिमानिनो देवाः ; अनन्ता वै विश्वे देवाः — ‘सर्वे देवा यत्रैकं भवन्ति’ इत्यादिश्रुत्यन्तरात् ; तेन आनन्त्यसामान्यात् अनन्तमेव स तेन लोकं जयति ॥

दक्षिणत आहवनीयस्येति शेषः । प्रासंगिकं बहुवचनमित्युक्तं प्रकटयति —

एकयाहीति ।

जल्पकथा प्रस्तुतेति हृदि निधाय बहूक्तेर्गत्यन्तरमाह —

अथवेति ।

मनसो देवतात्वं साधयति —

मनसेति ।

वर्तनी वर्त्मनी तयोर्वाङ्मनसयोर्वर्त्मनोरन्यतरां वाचं मनसा मौनेन ब्रह्मा संस्करोति वाग्विसर्गे प्रायश्चित्तविधानादिति श्रुत्यन्तरस्यार्थः ।

तथाऽपि कथं संपदः सिद्धिस्तत्राऽऽह —

तच्चेति ।

देवाः सर्वे यस्मिन्मनस्येकं भवन्त्यभिन्नत्वं प्रतिपद्यन्ते तस्मिन्विश्वदेवदृष्ट्या भवत्यनन्तलोकप्राप्तिरिति श्रुत्यन्तरस्यार्थः ।

अनन्तमेवेत्यादि व्याचष्टे —

तेनेति ।

उक्तेन प्रकारेणेति यावत् । तेन मनसि विश्वदेवदृष्ट्यध्यासेनेत्यर्थः । स इत्युपासकोक्तिः ॥९॥