बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
याज्ञवल्क्येति होवाच कत्ययमद्योद्गातास्मिन्यज्ञे स्तोत्रियाः स्तोष्यतीति तिस्र इति कतमास्तास्तिस्र इति पुरोनुवाक्या च याज्या च शस्यैव तृतीया कतमास्ता या अध्यात्ममिति प्राण एव पुरोनुवाक्यापानो याज्या व्यानः शस्या किं ताभिर्जयतीति पृथिवीलोकमेव पुरोनुवाक्यया जयत्यन्तरिक्षलोकं याज्यया द्युलोकं शस्यया ततो ह होताश्वल उपरराम ॥ १० ॥
याज्ञवल्क्येति होवाचेति पूर्ववत् । कति स्तोत्रियाः स्तोष्यतीति अयमुद्गाता । स्तोत्रिया नाम ऋक् सामसमुदायः कतिपयानामृचाम् । स्तोत्रिया वा शस्या वा याः काश्चन ऋचः, ताः सर्वास्तिस्र एवेत्याह ; ताश्च व्याख्याताः — पुरोनुवाक्या च याज्या च शस्यैव तृतीयेति । तत्र पूर्वमुक्तम् — यत्किञ्चेदं प्राणभृत्सर्वं यजतीति तत् केन सामान्येनेति ; उच्यते — कतमास्तास्तिस्र ऋचः या अध्यात्मं भवन्तीति ; प्राण एव पुरोनुवाक्या, प - शब्दसामान्यात् ; अपानो याज्या, आनन्तर्यात् — अपानेन हि प्रत्तं हविः देवता ग्रसन्ति, यागश्च प्रदानम् ; व्यानः शस्या — ‘अप्राणन्ननपानन्नृचमभिव्याहरति’ (छा. उ. १ । ३ । ४) इति श्रुत्यन्तरात् । किं ताभिर्जयतीति व्याख्यातम् । तत्र विशेषसम्बन्धसामान्यमनुक्तमिहोच्यते, सर्वमन्यद्व्याख्यातम् ; लोकसम्बन्धसामान्येन पृथिवीलोकमेव पुरोनुवाक्यया जयति ; अन्तरिक्षलोकं याज्यया, मध्यमत्वसामान्यात् ; द्युलोकं शस्यया ऊर्ध्वत्वसामान्यात् । ततो ह तस्मात् आत्मनः प्रश्ननिर्णयात् असौ होता अश्वल उपरराम — नायम् अस्मद्गोचर इति ॥

पूर्ववदित्यभिमुखीकरणायेत्यर्थः । प्रतिवचनमुपादत्ते —

स्तोत्रिया वेति ।

प्रगीतमृग्जातं स्तोत्रमप्रगीतं शस्त्रम् ।

कतमास्तास्तिस्र इत्यादेस्तात्पर्यमाह —

ताश्चेति ।

प्रश्नान्तरं वृत्तमनूद्योपादत्ते —

तत्रेति ।

यज्ञाधिकारः सप्तम्यर्थः ।

पुरोनुवाक्यादिना लोकत्रयजयलक्षणं फलं केन सामान्येनेत्यपेक्षायां संख्याविशेषेणेत्युक्तं स्मारयति —

तदिति ।

अधियज्ञे त्रयमुक्तं स्मारयित्वाऽध्यात्मविशेषं दर्शयितुमुत्तरो ग्रन्थ इत्याह —

उच्यत इति ।

प्राणादौ पुरोनुवाक्यादौ च पृथिव्यादिलोकदृष्टिरिति प्रश्नपूर्वकमाह —

कतमा इति ।

अपाने याज्यादृष्टौ हेत्वन्तरमाह —

अपानेन हीति ।

हस्ताद्यादानव्यापारेणेति यावत् ।

प्राणापानव्यापारव्यतिरेकेण शस्त्रप्रयोगस्य श्रुत्यन्तरे सिद्धत्वाद्व्याने शस्यादृष्टिरित्याह —

अप्राणन्निति ।

तत्र पुरोनुवाक्यादिषु चेति यावत् । इहेत्यनन्तरवाक्योक्तिः । सर्वमन्यदिति संख्यासामान्योक्तिः ।

किं तद्विशेषसंबन्धसामान्यं तदाह —

लोकेति ।

पृथिवीलक्षणेन लोकेन सह प्रथमत्वेन संबन्धसामान्यं पुरोनुवाक्यायामस्ति तेन तया पृथिवीलोकमेव प्राप्नोतीत्यर्थः । अश्वलस्य तूष्णीभावं भजतोऽभिप्रायमाह । नायमिति ॥१०॥