बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
आख्यायिकासम्बन्धः प्रसिद्ध एव । मृत्योरतिमुक्तिर्व्याख्याता काललक्षणात् कर्मलक्षणाच्च ; कः पुनरसौ मृत्युः, यस्मात् अतिमुक्तिर्व्याख्याता ? स च स्वाभाविकाज्ञानसङ्गास्पदः अध्यात्माधिभूतविषयपरिच्छिन्नः ग्रहातिग्रहलक्षणो मृत्युः । तस्मात्परिच्छिन्नरूपान्मृत्योरतिमुक्तस्य रूपाणि अग्न्यादित्यादीनि उद्गीथप्रकरणे व्याख्यातानि ; अश्वलप्रश्ने च तद्गतो विशेषः कश्चित् ; तच्च एतत् कर्मणां ज्ञानसहितानां फलम् । एतस्मात्साध्यसाधनरूपात्संसारान्मोक्षः कर्तव्य इत्यतः बन्धनरूपस्य मृत्योः स्वरूपमुच्यते ; बद्धस्य हि मोक्षः कर्तव्यः । यदपि अतिमुक्तस्य स्वरूपमुक्तम् , तत्रापि ग्रहातिग्रहाभ्यामविनिर्मुक्त एव मृत्युरूपाभ्याम् ; तथा चोक्तम् — ‘अशनाया हि मृत्युः’ (बृ. उ. १ । २ । १) ; ‘एष एव मृत्युः’ (श. ब्रा. १० । ५ । २ । ३) इति आदित्यस्थं पुरुषमङ्गीकृत्य आह, ‘एको मृत्युर्बहवा’ (श. ब्रा. १० । ५ । २ । १६) इति च ; तदात्मभावापन्नो हि मृत्योराप्तिमतिमुच्यत इत्युच्यते ; न च तत्र ग्रहातिग्रहौ मृत्युरूपौ न स्तः ; ‘अथैतस्य मनसो द्यौः शरीरं ज्योतीरूपमसावादित्यः’ (बृ. उ. १ । ५ । १२) ‘मनश्च ग्रहः स कामेनातिग्राहेण गृहीतः’ (बृ. उ. ३ । २ । ७) इति वक्ष्यति — ‘प्राणो वै ग्रहः सोऽपानेनातिग्राहेण’ (बृ. उ. ३ । २ । २) इति, ‘वाग्वै ग्रहः स नाम्नातिग्राहेण’ (बृ. उ. ३ । २ । ३) इति च । तथा त्र्यन्नविभागे व्याख्यातमस्माभिः । सुविचारितं चैतत् — यदेव प्रवृत्तिकारणम् , तदेव निवृत्तिकारणं न भवतीति ॥

ब्राह्मणान्तरमवतारयन्नाख्यायिका किमर्थेति शङ्कमानं प्रत्याह —

आख्यायिकेति ।

याज्ञवल्क्यो हि विद्याप्रकर्षवशादत्र पूजाभागी लक्ष्यते नाऽऽर्तभागस्तथा विद्यामान्द्यादतो विद्यास्तुत्यर्थेयमाख्यायिकेत्यर्थः ।

इदानीं ब्राह्मणार्थं वक्तुं वृत्तं कीर्तयति —

मृत्योरिति ।

मृत्युस्वरूपं पृच्छति —

कः पुनरसाविति ।

तत्स्वरूपनिरूपणार्थं ब्राह्मणमुत्थापयति —

स चेति ।

मृत्युरिति संबन्धः । स्वाभाविकं नैसर्गिकमनादिसिद्धमज्ञानं तस्मादासंगः स आस्पदमिवाऽऽस्पदं यस्य स तथेति विग्रहः ।

तस्य विषयमुक्त्वा व्यप्तिमाह —

अध्यात्मेति ।

तस्य स्वरूपमाह —

ग्रहेति ।

यथोक्तमृत्युव्याप्तिमग्न्यादीनां कथयति —

तस्मादिति ।

तान्यपि ग्रहातिग्रहगृहीतान्येवार्थोन्द्रियसंसर्गित्वादित्यर्थः । तद्गतो विशेषोऽग्न्यादिगतो दृष्टिभेद इति यावत् । कश्चिद्व्याख्यात इति संबन्धः ।

सूत्रस्यापि मृत्युग्रस्तत्वमभिप्रेत्याऽऽह —

तच्चेति ।

अग्न्यादित्याद्यात्मकं सौत्रं पदमिति यावत् । फलं यथोक्तमृत्युग्रस्तमिति शेषः ।

किमिति मृत्योर्बन्धनरूपस्य स्वरूपमुच्यते तत्राऽऽह —

एतस्मादिति ।

ननु मोक्षे कर्तव्ये बन्धरूपोपवर्णनमनुपयुक्तमित्याशङ्क्याऽऽह —

बद्धस्य हीति ।

अग्न्यादीनां यथोक्तमृत्युव्याप्तिमुक्तां व्यक्तीकरोति —

यदपीति ।

अविनिर्मुक्त एवातिमुक्तोऽपीति शेषः ।

तथाऽपि कथं सूत्रस्य यथोक्तमृत्युव्याप्तिस्तत्राऽऽह —

तथा चेति ।

तथाऽपि कथमग्न्यादीनां मृत्युव्याप्तिर्न हि तत्र प्रमाणमस्ति तत्राऽऽह —

एक इति ।

बहवा इति च्छान्दसम् ।

तथाऽपि विदुषो मृत्योरतिमुक्तस्य न तदाप्तिरित्याशङ्क्याऽऽह —

तदात्मेति ।

सौत्रे पदे मृत्युव्याप्तिं प्रकारान्तरेण प्रकटयति —

न चेति ।

मनसि कार्यकरणरूपेण दिवश्चाऽऽदित्यस्य चैक्यमस्तु तथाऽपि कथं ग्रहातिग्रहगृहीतत्वं सूत्रस्येत्याशङ्क्याऽऽह —

मनश्चेति ।

वागादेर्वक्तव्यादेश्च ग्रहत्वेऽतिग्रहत्वे च हिरण्यगर्भे किमायातमित्याशङ्क्याऽऽह —

तथेति ।

कर्मफलस्य संसारत्वाच्च तत्फलं सौत्रं पदं मृत्युग्रस्तमेवेत्याह —

सुविचारितं चेति ।

यदेव कर्मबन्धप्रवृत्तिप्रयोजकं तदेव बन्धनिवृत्तेर्न कारणमतः कर्मफलं हैरण्यगर्भं पदं बन्धनमेवेत्यर्थः ।