बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
केचित्तु सर्वमेव निवृत्तिकारणं मन्यन्ते ; अतः कारणात् — पूर्वस्मात्पूर्वस्मात् मृत्योर्मुच्यते उत्तरमुत्तरं प्रतिपद्यमानः — व्यावृत्त्यर्थमेव प्रतिपद्यते, न तु तादर्थ्यम् — इत्यतः आद्वैतक्षयात् सर्वं मृत्युः, द्वैतक्षये तु परमार्थतो मृत्योराप्तिमतिमुच्यते ; अतश्च आपेक्षिकी गौणी मुक्तिरन्तराले । सर्वमेतत् एवम् अबार्हदारण्यकम् । ननु सर्वैकत्वं मोक्षः, ‘तस्मात्तत्सर्वमभवत्’ (बृ. उ. १ । ४ । १०) इति श्रुतेः — बाढं भवत्येतदपि ; न तु ‘ग्रामकामो यजेत’ (तै. आ. १२ । १० । ४) ‘पशुकामो यजेत’ (तै. आ. १६ । १२ । ८) इत्यादिश्रुतीनां तादर्थ्यम् ; यदि हि अद्वैतार्थत्वमेव आसाम् , ग्रामपशुस्वर्गाद्यर्थत्वं नास्तीति ग्रामपशुस्वर्गादयो न गृह्येरन् ; गृह्यन्ते तु कर्मफलवैचित्र्यविशेषाः ; यदि च वैदिकानां कर्मणां तादर्थ्यमेव, संसार एव नाभविष्यत् । अथ तादर्थ्येऽपि अनुनिष्पादितपदार्थस्वभावः संसार इति चेत् , यथा च रूपदर्शनार्थ आलोके सर्वोऽपि तत्रस्थः प्रकाश्यत एव — न, प्रमाणानुपपत्तेः ; अद्वैतार्थत्वे वैदिकानां कर्मणां विद्यासहितानाम् , अन्यस्यानुनिष्पादितत्वे प्रमाणानुपपत्तिः — न प्रत्यक्षम् , नानुमानम् , अत एव च न आगमः । उभयम् एकेन वाक्येन प्रदर्श्यत इति चेत् , कुल्याप्रणयनालोकादिवत् — तन्नैवम् , वाक्यधर्मानुपपत्तेः ; न च एकवाक्यगतस्यार्थस्य प्रवृत्तिनिवृत्तिसाधनत्वमवगन्तुं शक्यते ; कुल्याप्रणयनालोकादौ अर्थस्य प्रत्यक्षत्वाददोषः । यदप्युच्यते — मन्त्रा अस्मिन्नर्थे दृष्टा इति — अयमेव तु तावदर्थः प्रमाणागम्यः ; मन्त्राः पुनः किमस्मिन्नर्थे आहोस्विदन्यस्मिन्नर्थे इति मृग्यमेतत् । तस्माद्ग्रहातिग्रहलक्षणो मृत्युः बन्धः, तस्मात् मोक्षो वक्तव्य इत्यत इदमारभ्यते । न च जानीमो विषयसम्बन्धाविव अन्तरालेऽवस्थानम् अर्धजरतीयं कौशलम् । यत्तु मृत्योरतिमुच्यते इत्युक्त्वा ग्रहातिग्रहावुच्येते, तत्तु अर्थसम्बन्धात् ; सर्वोऽयं साध्यसाधनलक्षणो बन्धः, ग्रहातिग्रहाविनिर्मोकात् ; निगडे हि निर्ज्ञाते निगडितस्य मोक्षाय यत्नः कर्तव्यो भवति । तस्मात् तादर्थ्येन आरम्भः ॥

स्वमतमुक्त्वा मतान्तरमाह —

केचित्त्विति ।

सर्वमेव कर्मेति शेषः । स्वर्गकामवाक्ये देहात्मत्वनिवृत्तिर्गोदोहनवाक्ये स्वतन्त्राधिकारनिवृत्तिर्नित्यनैमित्तिकविधिष्वर्थान्तरोपदेशेन स्वाभाविकप्रवृत्तिनिरोधो निषेधेषु साक्षादेव नैसर्गिकप्रवृत्तयो निरुध्यन्ते तदेवं सर्वमेव कर्मकाण्डं निवृत्तिद्वारेण मोक्षपरमित्यर्थः ।

ननु शास्त्रीयात्कर्मणो हेतोरुत्तरमुत्तरं कार्यकरणसंघातमतिशयवन्तमाऽग्रजात्प्रतिपद्यमानः संघातात्पूर्वस्मान्मुच्यते तत्कुतो निवृत्तिपरत्वं कर्मकाण्डस्येत्याशङ्क्याऽऽह —

अतः कारणादिति ।

यद्धीदमुत्तरमुत्तरं सातिशयं फलं प्राजापत्यं पदं तदपि प्रासादारोहणक्रमेण व्यावृत्तिद्वारा मोक्षमवतारयितुं न तु तत्रैव प्राजापत्ये पदे श्रुतेस्तात्पर्यं तस्यापि निरतिशयफलत्वाभावादित्यर्थः ।

फलितमाह —

इत्यत इति ।

यस्मात्पूर्वं पूर्वं परित्यज्योत्तरमुत्तरं प्रतिपद्यमानस्तत्तन्निवृत्तिद्वारा मुक्त्यर्थमेव तत्तत्प्रतिपद्यते न तु तत्तत्पदप्राप्त्यर्थमेव वाक्यं पर्यवसितं तस्यान्तवत्त्वेनाफलत्वात् । तस्माद्द्वैतक्षयपर्यन्तं सर्वोऽपि फलविशेषो मृत्युग्रस्तत्वात्प्रासादारोहणन्यायेन मोक्षार्थोऽवतिष्ठते हिरण्यगर्भपदप्राप्त्या द्वैतक्षये तु वस्तुतो मृत्योराप्तिमतीत्य परमात्मरूपेण स्थितो मुक्तो भवति । तथा च मनुष्यभावादूर्ध्वमर्वाक्च परमात्मभावान्मध्ये या तत्तत्पदप्राप्तिः सा खल्वापेक्षिकी सती गौणी मुक्तिर्मुख्या तु पूर्वोक्तैवेत्यर्थः ।

सर्वमेतदुत्प्रेक्षामत्रेणाऽऽरचितं न तु बृहदारण्यकस्य श्रुत्यन्तरस्य वाऽर्थ इति दूषयति —

सर्वमेतदिति ।

सर्वैकत्वलक्षणो मोक्षो बृहदारण्यकार्थ एवास्माभिरुच्यते तत्कथमस्मदुक्तमबार्हदारण्यकमिति शङ्कते —

नन्विति ।

अङ्गीकरोति —

बाढमिति ।

अङ्गीकृतमंशं विशदयति —

भवतीति ।

एतत्सर्वैकत्वमारण्यकार्थो भवत्यपीति योजना ।

कथं तर्हि सर्वमेतदबार्हदारण्यकमित्युक्तं तत्राऽऽह ।

न त्विति ।

त्वदुक्तया रीत्या कर्मश्रुतीनां यथोक्तमोक्षार्थत्वं न घटते तेन सर्वमेतदौत्प्रेक्षिकं न श्रौतमित्युक्तमित्यर्थः ।

कर्मश्रुतीनां मोक्षार्थत्वाभावं समर्थयते —

यदि हीति ।

तस्मात्तासां न मोक्षार्थतेति शेषः ।

किञ्च संसारस्तावद्धर्माधर्महेतुकस्तौ च विधिनिषेधाधीनौ तयोश्चेत्त्वदुक्तरीत्या मोक्षार्थत्वं तदा हेत्वभावात्संसार एव न स्यादित्याह ।

यदि चेति ।

विधिनिषेधयोर्निवृत्तिद्वारा मुक्त्यर्थत्वेऽपि विध्यादिज्ञानादनुनिष्पादितो यः कर्मपदार्थस्तस्यायं स्वभावो यदुत कर्तारमनर्थेन संयुनक्तीति चोदयति —

अथेति ।

मोक्षार्थमपि कर्मकाण्डं संसारार्थं भवतीति सदृष्टान्तमाह —

यथेति ।

प्रमाणाभावेन परिहरति —

नेति ।

तदेव व्यनक्ति —

अद्वैतार्थत्व इति ।

अन्यस्य बन्धस्येति यावत् ।

अनुपपत्तिं स्फोरयति —

न प्रत्यक्षमिति ।

कर्मश्रुतिवाक्यस्यावान्तरतात्पर्यं यथाश्रुतेऽर्थे गृह्यते निवृत्तिद्वारा मुक्तौ तु महातात्पर्यमित्यङ्गीकृत्य शङ्कते —

उभयमिति ।

कृत्रिमाः क्षुद्राः सरितः कुल्यास्तासां प्रणयनं शाल्यर्थं पानीयार्थमाचमनीयाद्यर्थं च प्रदीपश्च प्रासादशोभार्थं कृतो गमनादिहेतुरपि भवति वृक्षमूले च सेचनमनेकार्थं तथा कर्मकाण्डमनेकार्थमित्युपपादयति —

कुल्येति ।

एकस्य वाक्यस्य यथाश्रुतेनार्थेनार्थवत्वे संभवति नान्यत्र तात्पर्यं कल्प्यं कल्पकाभावान्न च त्वदुक्तया रीत्याऽनेकार्थत्वलक्षणो धर्मो वाक्यस्यैकस्योपपद्यतेऽर्थैकत्वादेकं वाक्यमिति न्यायादिति परिहरति —

तन्नैवमिति ।

वाक्यस्यानेकार्थत्वाभावेऽपि तदर्थस्य कर्मणो बन्धमोक्षाख्यानेकार्थत्वं स्यादित्याशङ्क्याऽऽह —

न चेति ।

परोक्तं दृष्टान्तं विघटयति —

कुल्येति ।

विद्यां चाविद्यां चेत्यादयो मन्त्राः समुच्चयपरा दृष्टाः समुच्चयश्च कर्मकाण्डस्य निवृत्तिद्वारा मोक्षार्थत्वमित्यस्मिन्नर्थे सिद्ध्यतीति शङ्कते —

यदपीति ।

कर्मकाण्डस्योक्तरीत्या मोक्षार्थत्वे नास्ति प्रमाणमिति परिहरति —

अयमेवेति ।

मन्त्राणां समुच्चयपरत्वात्तस्य च यथोक्तार्थाक्षेपकत्वात्कुतोऽस्यार्थस्य प्रमाणागम्यतेत्याशङ्क्याऽऽह —

मन्त्राः पुनरिति ।

तेषां न समुच्चयपरतेत्यग्रे व्यक्तीभविष्यतीत्यर्थः ।

परमतासंभवे स्वमतमुपसंहरति —

तस्मादिति ।

बन्धननिरूपणमनुपयोगीत्याशङ्क्याऽऽह —

तस्मान्मोक्ष इति ।

यत्तु कर्मकाण्डं बन्धाय मुक्तये वा न भवति किन्त्वन्तरावस्थानकारणमिति तद्दूषयति —

न चेति ।

यथा न जागर्ति न स्वपितीति विषयग्रहणच्छिद्रेऽन्तरालेऽवस्थानं दुर्घटं यथा चार्धं कुकुट्याः पाकार्थमर्धञ्च प्रसवायेति कौशलं नोपलभ्यते तथा कर्मकाण्डं न बन्धाय नापि साक्षान्मोक्षायेति व्याख्यानं कर्तुं न जानीम इत्यर्थः ।

यत्तु श्रुतिरेवोत्तरोत्तरपदप्राप्त्यभिधानव्याजेन मोक्षो पुरुषमवतारयतीति तत्राऽऽह —

यत्त्विति ।

मृत्योराप्तिमतीत्य मुच्यत इत्युक्त्वा यदेतद्ग्रहातिग्रहवचनं तदयं सर्वः साध्यसाधनलक्षणो बन्ध इत्यनेनाभिप्रायेणोच्यते तस्यार्थेन मृर्त्युपदार्थेनान्वयदर्शनादत योजना ।

अर्थसंबन्धादित्युक्तं स्फुटयति —

ग्रहातिग्रहाविनिर्मोकादिति ।

एषा हि श्रुतिर्बन्धमेव प्रतिपादयति न तु मोक्षे पुरुषमवतारयतीति भावः ।

ननु पुरुषस्यापेक्षितो मोक्षः प्रतिपाद्यतां किमित्यनर्थात्मा बन्धः प्रतिपाद्यते तत्राऽऽह —

निगडे हीति ।

बन्धज्ञानं विना ततो विश्लेषायोगान्मुमुक्षोः सप्रयोजकबन्धज्ञानार्थत्वेनान्तरब्राह्मणप्रवृत्तिरित्युपसंहरति —

तस्मादिति ।