अथ हैनं जारत्कारव आर्तभागः पप्रच्छ याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इति । अष्टौ ग्रहा अष्टावतिग्रहा इति ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति ॥ १ ॥
अथ हैनम् — ह - शब्द ऐतिह्यार्थः ; अथ अनन्तरम् अश्वले उपरते प्रकृतं याज्ञवल्क्यं जरत्कारुगोत्रो जारत्कारवः ऋतभागस्यापत्यम् आर्तभागः पप्रच्छ ; याज्ञवल्क्येति होवाचेति अभिमुखीकरणाय ; पूर्ववत्प्रश्नः — कति ग्रहाः कत्यतिग्रहा इति । इति - शब्दो वाक्यपरिसमाप्त्यर्थः । तत्र निर्ज्ञातेषु वा ग्रहातिग्रहेषु प्रश्नः स्यात् , अनिर्ज्ञातेषु वा ; यदि तावत् ग्रहा अतिग्रहाश्च निर्ज्ञाताः, तदा तद्गतस्यापि गुणस्य सङ्ख्याया निर्ज्ञातत्वात् कति ग्रहाः कत्यतिग्रहा इति सङ्ख्याविषयः प्रश्नो नोपपद्यते ; अथ अनिर्ज्ञाताः तदा सङ्ख्येयविषयप्रश्न इति के ग्रहाः केऽतिग्रहा इति प्रष्टव्यम् , न तु कति ग्रहाः कत्यतिग्रहा इति प्रश्नः ; अपि च निर्ज्ञातसामान्यकेषु विशेषविज्ञानाय प्रश्नो भवति — यथा कतमेऽत्र कठाः कतमेऽत्र कालापा इति ; न चात्र ग्रहातिग्रहा नाम पदार्थाः केचन लोके प्रसिद्धाः, येन विशेषार्थः प्रश्नः स्यात् ; ननु च ‘अतिमुच्यते’ (बृ. उ. ३ । १ । ३), (बृ. उ. ३ । १ । ४), (बृ. उ. ३ । १ । ५) इत्युक्तम् , ग्रहगृहीतस्य हि मोक्षः, ‘स मुक्तिः सातिमुक्तिः’ (बृ. उ. ३ । १ । ३), (बृ. उ. ३ । १ । ४), (बृ. उ. ३ । १ । ५), (बृ. उ. ३ । १ । ६) इति हि द्विरुक्तम् , तस्मात्प्राप्ता ग्रहा अतिग्रहाश्च — ननु तत्रापि चत्वारो ग्रहा अतिग्रहाश्च निर्ज्ञाताः वाक्चक्षुःप्राणमनांसि, तत्र कतीति प्रश्नो नोपपद्यते निर्ज्ञातत्वात् — न, अनवधारणार्थत्वात् ; न हि चतुष्ट्वं तत्र विवक्षितम् ; इह तु ग्रहातिग्रहदर्शने अष्टत्वगुणविवक्षया कतीति प्रश्न उपपद्यत एव ; तस्मात् ‘स मुक्तिः सातिमुक्तिः’ (बृ. उ. ३ । १ । ३), (बृ. उ. ३ । १ । ४), (बृ. उ. ३ । १ । ५), (बृ. उ. ३ । १ । ६) इति मुक्त्यतिमुक्ती द्विरुक्ते ; ग्रहातिग्रहा अपि सिद्धाः । अतः कतिसङ्ख्याका ग्रहाः, कति वा अतिग्रहाः इति पृच्छति । इतर आह — अष्टौ ग्रहा अष्टावतिग्रहा इति । ये ते अष्टौ ग्रहा अभिहिताः, कतमे ते नियमेन ग्रहीतव्या इति ॥