पूर्ववदित्यभिमुखीकरणायेत्यर्थः । प्रतिवचनमुपादत्ते —
स्तोत्रिया वेति ।
प्रगीतमृग्जातं स्तोत्रमप्रगीतं शस्त्रम् ।
कतमास्तास्तिस्र इत्यादेस्तात्पर्यमाह —
ताश्चेति ।
प्रश्नान्तरं वृत्तमनूद्योपादत्ते —
तत्रेति ।
यज्ञाधिकारः सप्तम्यर्थः ।
पुरोनुवाक्यादिना लोकत्रयजयलक्षणं फलं केन सामान्येनेत्यपेक्षायां संख्याविशेषेणेत्युक्तं स्मारयति —
तदिति ।
अधियज्ञे त्रयमुक्तं स्मारयित्वाऽध्यात्मविशेषं दर्शयितुमुत्तरो ग्रन्थ इत्याह —
उच्यत इति ।
प्राणादौ पुरोनुवाक्यादौ च पृथिव्यादिलोकदृष्टिरिति प्रश्नपूर्वकमाह —
कतमा इति ।
अपाने याज्यादृष्टौ हेत्वन्तरमाह —
अपानेन हीति ।
हस्ताद्यादानव्यापारेणेति यावत् ।
प्राणापानव्यापारव्यतिरेकेण शस्त्रप्रयोगस्य श्रुत्यन्तरे सिद्धत्वाद्व्याने शस्यादृष्टिरित्याह —
अप्राणन्निति ।
तत्र पुरोनुवाक्यादिषु चेति यावत् । इहेत्यनन्तरवाक्योक्तिः । सर्वमन्यदिति संख्यासामान्योक्तिः ।
किं तद्विशेषसंबन्धसामान्यं तदाह —
लोकेति ।
पृथिवीलक्षणेन लोकेन सह प्रथमत्वेन संबन्धसामान्यं पुरोनुवाक्यायामस्ति तेन तया पृथिवीलोकमेव प्राप्नोतीत्यर्थः । अश्वलस्य तूष्णीभावं भजतोऽभिप्रायमाह । नायमिति ॥१०॥