कति ग्रहा इत्यादिः प्रथमः संख्याविषयः प्रश्नः कतमे त इति द्वितीयः संख्येयविषय इत्याह —
पूर्ववादति ।
संप्रति प्रश्नमाक्षिपति —
तत्रेत्यादिना ।
आद्यं प्रश्नमाक्षिप्य द्वितीयमाक्षिपति —
अपि चेति ।
विशेषतश्चाज्ञातेष्वति चशब्दार्थः ।
मुक्त्यतिमुक्तिपदार्थद्वयप्रतियोगिनौ बन्धनाख्यौ ग्रहातिग्रहौ सामान्येन प्राप्तौ प्रश्नस्तु विशेषबुभुत्सायामिति प्रष्टा चोदयति —
ननु चेति ।
तथाऽपि प्रश्नद्वयमनुपपन्नमित्याक्षेप्ता ब्रूते —
ननु तत्रेति ।
वाग्वै यज्ञस्य होतेत्यादाविति यावत् । निर्ज्ञातत्वाद्विशेषस्येति शेषः ।
अतिमोक्षोपदेशेन त्वगादेरपि सूचितत्वात्तेषु चतुष्ट्वस्यानिर्धारणादविशेषेण प्रतिपन्नेषु वागादिषु विशेषबुभुत्सायां संख्यादिविषयत्वे प्रश्नस्योपपन्नार्थत्वान्नाऽऽक्षेपोपपत्तिरिति समाधत्ते —
नानवधारणार्थत्वादिति ।
तदेव स्पष्टयति —
न हीति ।
तत्र पूर्वब्राह्मणे वागादिष्विति यावत् ।
फलितां प्रथमप्रश्नोपपत्तिं कथति —
इह त्विति ।
ननु ग्रहाणामेव पूर्वत्रोपदेशातिदेशाभ्यां प्रतिपन्नत्वात्तेषु विशेषबुभुत्सायां कति ग्रहा इति प्रश्नेऽप्यतिग्रहाणामप्रतिपन्नत्वात्कथं कत्यतिग्रहा इति प्रश्नः स्यादत आह —
तस्मादिति ।
पूर्वस्माद्ब्राह्मणादिति यावत् ।
वागादयो वक्तव्यादयश्च चत्वारो ग्रहाश्चातिग्रहाश्च यद्यपि विशेषतो निर्ज्ञातास्तथाऽप्यतिदेशप्राप्ताश्चत्वारो विशेषतो न ज्ञायन्ते । तेन तेषु विशेषतो ज्ञानसिद्धये प्रश्न इत्यभिप्रेत्य विशिनष्टि —
नियमेनेति ॥१॥