बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते किमेनं न जहातीति नामेत्यनन्तं वै नामानन्ता विश्वे देवा अनन्तमेव सतेन लोकं जयति ॥ १२ ॥
मुक्तस्य किं प्राणा एव समवनीयन्ते ? आहोस्वित् तत्प्रयोजकमपि सर्वम् ? अथ प्राणा एव, न तत्प्रयोजकं सर्वम् , प्रयोजके विद्यमाने पुनः प्राणानां प्रसङ्गः ; अथ सर्वमेव कामकर्मादि, ततो मोक्ष उपपद्यते — इत्येवमर्थः उत्तरः प्रश्नः । याज्ञवल्क्येति होवाच — यत्रायं पुरुषो म्रियते किमेनं न जहातीति ; आह इतरः — नामेति ; सर्वं समवनीयते इत्यर्थः ; नाममात्रं तु न लीयते, आकृतिसम्बन्धात् ; नित्यं हि नाम ; अनन्तं वै नाम ; नित्यत्वमेव आनन्त्यं नाम्नः । तदानन्त्याधिकृताः अनन्ता वै विश्वे देवाः ; अनन्तमेव स तेन लोकं जयति — तन्नामानन्त्याधिकृतान् विश्वान्देवान् आत्मत्वेनोपेत्य तेन आनन्त्यदर्शनेन अनन्तमेव लोकं जयति ॥

प्राणा नोत्क्रामन्तीति विशेषणमाश्रित्य प्रश्नान्तरमादत्ते —

मुक्तस्येति ।

पक्षद्वयेऽपि प्रयोजनं कथयति —

अथेत्यादिना ।

यत्पुत्रक्षेत्राद्यभूत्तदधुना नाममात्रावशेषमित्युक्ते नावशिष्टं किञ्चिदिति यथाऽवगम्यते तथाऽत्रापि नाममात्रं म्रियमाणां विद्वांसं न जहातीत्युक्ते न किञ्चिदवशिष्टमिति दृष्टिः स्यादिति प्रत्युक्तितात्पर्यमाह —

सर्वमिति ।

यथाश्रुतमर्थमाश्रित्य प्रत्युक्तिं व्याचष्टे —

नाममात्रं त्विति ।

विदुषो नामनित्यत्वे हेत्वन्तरमुत्तरवाक्यावष्टम्भेन दर्शयति —

नित्यं हीति ।

अनन्तशब्दान्नाम्नो व्यक्तिप्राचुर्ये प्रतिभाति कुतो नित्यतेत्याशङ्क्याऽऽह —

नित्यत्वमेवेति ।

व्यक्तिभेदस्य प्रसिद्धत्वान्न तद्वक्तव्यं ब्रह्मविदः स्वदृष्ट्या नामापि न शिष्यते परदृष्ट्या तदवशेषोक्तिः शुको मुक्त इत्यादिव्यपदेशदर्शनादतो नामनित्यत्वं व्यावहारिकमिति भावः ।

ब्रह्मास्मीति दर्शनेन विश्वान्देवानात्मत्वेनोपगम्यानन्तं लोकं जयतीति सिद्धानुवादो ब्रह्मविद्यां स्तोतुमित्यभिप्रेत्यानन्तरवाक्यमादत्ते —

तदानन्त्येति ।

तद्व्याचष्टे —

तन्नामानन्त्येति ॥ १२ ॥