बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो३ नेति नेति होवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते स उच्छ्वयत्याध्मायत्याध्मातो मृतः शेते ॥ ११ ॥
परेण मृत्युना मृत्यौ भक्षिते परमात्मदर्शनेन योऽसौ मुक्तः विद्वान् , सोऽयं पुरुषः यत्र यस्मिन्काले म्रियते, उत् ऊर्ध्वम् , अस्मात् ब्रह्मविदो म्रियमाणात् , प्राणाः - वागादयो ग्रहाः नामादयश्चातिग्रहा वासनारूपा अन्तस्थाः प्रयोजकाः — क्रामन्त्यूर्ध्वम् उत्क्रामन्ति, आहोस्विन्नेति । नेति होवाच याज्ञवल्क्यः — नोत्क्रामन्ति ; अत्रैव अस्मिन्नेव परेणात्मना अविभागं गच्छन्ति विदुषि कार्याणि करणानि च स्वयोनौ परब्रह्मसतत्त्वे समवनीयन्ते, एकीभावेन समवसृज्यन्ते, प्रलीयन्त इत्यर्थः — ऊर्मय इव समुद्रे । तथा च श्रुत्यन्तरं कलाशब्दवाच्यानां प्राणानां परस्मिन्नात्मनि प्रलयं दर्शयति — ‘एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति’ (प्र . उ. ६ । ५) इति — परेणात्मना अविभागं गच्छन्तीति दर्शितम् । न तर्हि मृतः — न हि ; मृतश्च अयम् — यस्मात् स उच्छ्वयति उच्छूनतां प्रतिपद्यते, आध्मायति बाह्येन वायुना पूर्यते, दृतिवत् , आध्मातः मृतः शेते निश्चेष्टः ; बन्धननाशे मुक्तस्य न क्वचिद्गमनमिति वाक्यार्थः ॥

सम्यग्ज्ञानस्याप पुनर्मृत्युं जयतीत्युक्त्यं फलं विशदीकर्तुं प्रश्नान्तरमुत्थापयति —

परेणेति ।

परेण मृत्युना परमात्मदर्शनेनेति संबन्धः । ग्रहातिग्रहलक्षणो बन्धः सप्तम्यर्थः । ग्रहशब्देन प्रयोज्यराशिर्गृहीतः ।

नामादीनां स्थूलानां बहिष्ठत्वेन स्वरसतस्त्यक्तत्वात्कथं तदुत्क्रान्तिः पृच्छ्यते तत्राऽऽह —

वासनारूपा इति ।

तेषामनुत्क्रान्तौ मुक्त्यसंभवं सूचयति —

प्रयोजका इति ।

उत्क्रान्तिपक्षे ध्रुवं जन्म मृतस्य चेति न्यायात्पुनरुत्पत्तिः स्यादनुत्क्रान्तिपक्षे मरणप्रसिद्धिर्विरुध्येतेति भावः ।

द्वितीयं पक्षं परिहरति —

नेति होवाचेत्यादिना ।

कार्याणि करणानि च सर्वाणि परेणाऽऽत्मना सहाविभागं गच्छन्ति सन्त्यस्मिन्नेव विदुषि समवनीयन्त इति संबन्धः ।

तेषां विदुषि विलये हेतुमाह —

स्वयोनाविति ।

विद्वानेव हि पूर्वमविद्यया तेषां योनिरासीत्तस्मिन्विद्यादशायां तद्बलादविद्यायामपनीतायां परिपूर्णे तत्त्वे तेषां पर्यवसानं संभवतीत्यर्थः ।

कारणे कार्याणां प्रविलये दृष्टान्तमाह —

ऊर्मय इति ।

प्राणादीनां कारणसंसर्गाख्यो लयश्चेत्पुनरुत्पत्तिः स्यादित्याशङ्क्य ज्ञाने सत्यज्ञानध्वंसान्नैवमित्यभिप्रेत्याऽऽह —

तथा चेति ।

सविषयाण्येकादशेन्द्रियाणि वायवश्च पञ्चेति षोडश कलास्तासां स्वातन्त्र्यमाश्रयान्तरं च वारयति —

पुरुषायणा इति ।

तासां निवृत्तिश्च पुरुषव्यतिरेकेण नास्तीति सूचयति —

पुरुषं प्राप्येति ।

प्राणाश्चेन्नोत्क्रामन्ति तर्हि मृतो न भवतीति प्रतीतिविरोधं शङ्कित्वा परिहरति —

न तर्हीत्यादिना ।

दृतिशब्दो भस्त्राविषयः ।

प्रकृतं वाक्यं प्रत्यक्षसिद्धदेहमरणानुवदकमित्यभिप्रेत्याऽऽह —

बन्धनेति ॥११॥