बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्नमित्यग्निर्वै मृत्युः सोऽपामन्नमप पुनर्मृत्युं जयति ॥ १० ॥
उपसंहृतेषु ग्रहातिग्रहेष्वाह पुनः — याज्ञवल्क्येति होवाच । यदिदं सर्वं मृत्योरन्नम् — यदिदं व्याकृतं सर्वं मृत्योरन्नम् , सर्वं जायते विपद्येत च ग्रहातिग्रहलक्षणेन मृत्युना ग्रस्तम् — का स्वित् का नु स्यात् सा देवता, यस्या देवताया मृत्युरप्यन्नं भवेत् — ‘मृत्युर्यस्योपसेचनम्’ (क. उ. १ । २ । २५) इति श्रुत्यन्तरात् । अयमभिप्रायः प्रष्टुः — यदि मृत्योर्मृत्युं वक्ष्यति, अनवस्था स्यात् ; अथ न वक्ष्यति, अस्माद्ग्रहातिग्रहलक्षणान्मृत्योः मोक्षः नोपपद्यते ; ग्रहातिग्रहमृत्युविनाशे हि मोक्षः स्यात् ; स यदि मृत्योरपि मृत्युः स्यात् भवेत् ग्रहातिग्रहलक्षणस्य मृत्योर्विनाशः — अतः दुर्वचनं प्रश्नं मन्वानः पृच्छति ‘का स्वित्सा देवता’ इति । अस्ति तावन्मृत्योर्मृत्युः ; ननु अनवस्था स्यात् — तस्याप्यन्यो मृत्युरिति — नानवस्था, सर्वमृत्योः मृत्य्वन्तरानुपपत्तेः ; कथं पुनरवगम्यते — अस्ति मृत्योर्मृत्युरिति ? दृष्टत्वात् ; अग्निस्तावत् सर्वस्य दृष्टो मृत्युः, विनाशकत्वात् , सोऽद्भिर्भक्ष्यते, सोऽग्निः अपामन्नम् , गृहाण तर्हि अस्ति मृत्योर्मृत्युरिति ; तेन सर्वं ग्रहातिग्रहजातं भक्ष्यते मृत्योर्मृत्युना ; तस्मिन्बन्धने नाशिते मृत्युना भक्षिते संसारान्मोक्ष उपपन्नो भवति ; बन्धनं हि ग्रहातिग्रहलक्षणमुक्तम् ; तस्माच्च मोक्ष उपपद्यत इत्येतत्प्रसाधितम् । अतः बन्धमोक्षाय पुरुषप्रयासः सफलो भवति ; अतोऽपजयति पुनर्मृत्युम् ॥

प्रतीकमादाय व्याचष्टे —

यदिदमिति ।

यदिदं व्याकृतं जगत्सर्वं मृत्योरन्नमिति योजना ।

तस्य तदन्नत्वं साधयति —

सर्वमिति ।

मृत्योरन्नत्वसंभावनायां श्रुत्यन्तरं संवादयति —

सर्वमिति ।

मृत्योर्मृत्युमधिकृत्य प्रश्नस्य करटदन्तनिरूपणवदप्रयोजनत्वमाशङ्क्याऽऽह —

अयमिति ।

सत्येव ग्रहातिग्रहलक्षणे मृत्यौ मोक्षो भविऽष्यतीति चेन्नेत्याह —

ग्रहेति ।

अस्तु तर्हि ग्रहातिग्रहनाशे मुक्तिरित्यत आह —

स यदीति ।

न च मृत्योर्मृत्युरस्त्यनवस्थानादित्युक्तमिति भावः । पक्षेऽनवस्थानात्पक्षे चामुक्तेरित्यतः शब्दार्थः ।

अस्तिपक्षं परिगृह्णाति —

अस्ति तावदिति ।

मृत्योर्मृत्युर्ब्रह्मात्मसाक्षात्कारो विवक्षितस्तस्याप्यन्यो मृत्युरस्ति चेदनवस्था नास्ति चेत्तद्धेत्वज्ञानस्यापि स्थितेरमुक्तिरिति शङ्कते —

नन्विति ।

तत्रास्तिपक्षं परिगृह्य परिहरति —

नानवस्थेति ।

यथोक्तस्य मृत्योः स्वपरविरोधित्वान्न किञ्चिदवद्यमित्यर्थः ।

उक्तं पक्षं प्रश्नद्वारा प्रमाणारूढं करोति —

कथमिति ।

दृष्टत्वं स्पष्टयति —

अग्निस्तावदिति ।

दृष्टत्वफलमाचष्टे —

गृहाणेति ।

तस्य कार्यं कथयति —

तेनेति ।

अप पुनर्मृत्युं जयतीत्यस्य पातनिकां करोति —

तस्मिन्निति ।

उक्तमेव व्यक्तीकरोति —

बन्धनं हीति ।

प्रसाधितं मृत्योरपि मृत्युरस्तीति प्रदर्शनेनेति शेषः ।

मोक्षोपपत्तौ फलितमाह —

अत इति ।

पुरुषप्रयासः शमादिपूर्वकश्रवणादिः ।

तत्फलस्य ज्ञानस्य फलं दर्शयन्वाक्यं योजयति —

अत इति ।

ज्ञानं पञ्चम्यर्थः ॥१० ॥