वाचो ग्रहत्वमुपपादयति —
वाचा हीति ।
आसंगस्य विषयः शब्दादिरेवाऽऽस्पदं यस्या वाचस्तयेति विग्रहः । तत्सिद्ध्यर्थमध्यात्मपरिच्छिन्नयेति विशेषणम् । असत्यं परपीडाकरं मिथ्यावचनं तदेव स्वदृष्टमात्रविरोध्यनृतं विपरीतं वा । आदिपदेनेष्टानिष्टोक्तिग्रहः ।
वाचि प्रकृतायां स नाम्नेति कथमुच्यते तत्राऽऽह —
स वागाख्य इति ।
वक्तव्येन वाचो वशीकृतत्वं साधयति —
वक्तव्यार्थेति ।
तादर्थ्येन वचनकरणत्वेनेति यावत् ।
वचनार्थे वाचो वक्तव्येन वशीकृतत्वे फलितमाह —
तेनेति ।
तत्कार्यं वचनं मोक्षश्चासाधारणे देवतात्मनि पर्यवासनम् ।
वक्तव्यार्थोक्तिं विना वाचोऽपर्यवसाने सिद्धमर्थमाह —
अत इति ।
वाचोऽतिग्रहगृहीतत्वमनुभवेन साधयति —
वक्तव्येति ।
वाचा हीत्यादेरपानेन हीत्यादिना तुल्यार्थत्वादव्याख्येयत्वमाह —
समानमिति ।
घ्राणं वाग्जिह्वा चक्षुः श्रोत्रं मनो हस्तौ त्वगित्युक्तान्ग्रहान्निगमयति —
इत्येत इति ।
गन्धो नाम रसो रूपं शब्दः कामः कर्म स्पर्श इत्यतिग्रहानपि निगमयति —
स्पर्शपर्यन्ताश्चेति ॥ ३॥ ४॥ ५॥ ६॥ ७॥ ८ ॥ ९ ॥