बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन्केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीत्याहर सोम्य हस्तमार्तभागावामेवैतस्य वेदिष्यावो न नावेतत्सजन इति । तौ होत्क्रम्य मन्त्रयाञ्चक्राते तौ ह यदूचतुः कर्म हैव तदूचतुरथ यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति ततो ह जारत्कारव आर्तभाग उपरराम ॥ १३ ॥
अत्र केचिद्वर्णयन्ति — ग्रहातिग्रहस्य सप्रयोजकस्य विनाशेऽपि किल न मुच्यते ; नामावशिष्टः अविद्यया ऊषरस्थानीयया स्वात्मप्रभवया परमात्मनः परिच्छिन्नः भोज्याच्च जगतो व्यावृत्तः उच्छिन्नकामकर्मा अन्तराले व्यवतिष्ठते ; तस्य परमात्मैकत्वदर्शनेन द्वैतदर्शनमपनेतव्यमिति — अतः परं परमात्मदर्शनमारब्धव्यम् — इति ; एवम् अपवर्गाख्यामन्तरालावस्थां परिकल्प्य उत्तरग्रन्थसम्बन्धं कुर्वन्ति ॥

किमेनमित्यादिवाक्यस्य स्वव्याख्यामुक्त्वा यत्रेत्यादेस्तात्पर्यं चोक्तम् । इदानीं भर्तृप्रपञ्चप्रस्थानमुत्थापयति —

अत्रेति ।

किमेनमित्यादाविति यावत् ।

समुच्चयानुष्ठानाद्देहयोः सप्रयोजकयोर्नाशेऽपि पुंसो मुक्तिर्न चेत्तर्हि तस्य बद्धत्वायोगात्कामसौ दशामवलम्बतामित्याशङ्क्याऽऽह —

नामावशिष्ट इति ।

क्षितेरूषरवदवस्थितात्माविद्यया परस्मात्परिच्छिन्नश्चेदात्मा तर्हि बन्धपक्षस्यैव स्यान्नतु भोज्याज्जगतो व्यावृत्तिरित्याशङ्क्याऽऽह —

उच्छिन्नेति ।

सर्वस्य कर्मादिफलस्य सूत्रात्मनः समुच्चयासादितस्य भोगादप्राप्तार्थाभावात्कामासिद्ध्या कर्माभावात्प्रयोजकराशेरुच्छित्तिरित्यर्थः ।

किमेनमित्यादावन्तरालावस्थस्य विद्याधिकारिणो निर्धारणात्तदपेक्षितविद्याशेषत्वेनोषस्तप्रश्नादेरारम्भं संभावयति —

तस्येति ।

इतिशब्दो वर्णयन्तीत्यनेन संबध्यते ।

तर्हि यत्रोषस्तप्रश्नादौ ब्रह्मविद्योच्यते तस्यैवाऽऽरम्भो युक्तो यत्रास्येत्यादिस्तु वृथेत्याशङ्क्य फलवद्विद्याप्राप्तिशेषत्वेन निवर्त्यमृत्युप्रयोजकनिर्धारणार्थो यत्रेत्यादिरित्यभिप्रेत्याऽऽह —

एवमिति ।