कर्तव्ये श्रुतिव्याख्याने यत्रेत्याद्याकाङ्क्षापूर्वकमवतारयति —
तत्रेति ।
तत्र पुरुषशब्देन विद्वानुक्तोऽनन्तरवाक्ये तत्संनिधेरित्याशङ्क्य वक्ष्यमाणकर्माश्रयत्वलिङ्गेन बाध्यः संनिधिरित्यभिप्रेत्याऽऽह —
असम्यग्दर्शिन इति ।
संनिधिबाधे लिङ्गान्तरमाह —
निधीयत इति ।
तस्य हि पुनरादानयोग्यद्रव्यनिधाने प्रयोगदर्शनादिहापि पुनरादानं लोहितादेराभात्यतः प्रसिद्धः संसारिगोचर एवायं प्रश्न इत्यर्थः ।
अविदुषो वागादिलयाभावाद्वाङ्मनसि दर्शनादिति न्यायात्तस्य चात्र श्रुतेर्विद्वानेव पुरुषस्तदीयकलाविलयस्य श्रुतिप्रसिद्धत्वादित्याशङ्क्याऽऽह —
सर्वत्र हीति ।
अग्न्याद्यंशानां वागादिशब्दितानामपक्रमणेऽपि करणानां तदभावे तदधिष्ठानस्य देहस्यापि भावेन भोगसंभवान्न प्रश्नावकाशोऽस्तीत्याशङ्क्याऽऽह —
तत्रेति ।
देवतांशेषूपसंहृतेष्विति यावत् ।
तेषां ताभिरनधिष्ठितत्वे सत्यर्थक्रियाक्षमत्वं फलतीत्याह —
न्यस्तेति ।
करणानामधिष्ठातृहीनानां भोगहेतुत्वाभावेऽपि कथमाश्रयप्रश्नो भोक्तुः स्यादित्याशङ्क्याऽऽह —
विदेहश्चेति ।
प्रश्नं विवृणोति —
यमाश्रयमिति ।
आहरेत्यादिपरिहारमवतारयति —
अत्रेति ।
मीमांसका लोकायता ज्योतिर्विदो वैदिका देवताकाण्डीया विज्ञानवादिनो माध्यमिकाश्चेत्यनेके विप्रतिपत्तारः । जल्पन्यायेन परस्परप्रचलितमात्रपर्यन्तेन विचारेणेति यावत् । अत्रेति प्रश्नोक्तिः ।
ननु प्रष्टाऽऽर्तभागो याज्ञवल्क्यश्च प्रतिवक्तेति द्वाविहोपलभ्येते । तथा च तौ हेत्यादिवचनमयुक्तं तृतीयस्यात्राभावादत आह —
तौ हेत्यादीति ।
तत्रेत्येकान्ते स्थित्वा विचारावस्थायामिति यावत् ।
न केवलं कर्म कारणमूचतुः किन्तु तदेव कालादिषु हेतुष्वभ्युपगतेषु सत्सु प्रशशंसतुः । अतः प्रशंसावचनात्कर्मणः प्राधान्यं गम्यते न तु कालादीनामहेतुत्वं तेषां कर्मस्वरूपनिष्पत्तौ कारकतया गुणभावदर्शनात्फलकालेऽपि तत्प्राधान्येनैव तद्धेतुत्वसंभवादित्याह —
न केवलमिति ।
पुण्यो वै पुण्येनेत्यादि व्याचष्टे —
यस्मादत्यादिना ॥१३॥