बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ । ग्रहातिग्रहलक्षणं बन्धनमुक्तम् ; यस्मात् सप्रयोजकात् मुक्तः मुच्यते, येन वा बद्धः संसरति, स मृत्युः ; तस्माच्च मोक्ष उपपद्यते, यस्मात् मृत्योर्मृत्युरस्ति ; मुक्तस्य च न गतिः क्वचित् — सर्वोत्सादः नाममात्रावशेषः प्रदीपनिर्वाणवदिति चावधृतम् । तत्र संसरतां मुच्यमानानां च कार्यकरणानां स्वकारणसंसर्गे समाने, मुक्तानामत्यन्तमेव पुनरनुपादानम् — संसरतां तु पुनः पुनरुपादानम् — येन प्रयुक्तानां भवति, तत् कर्म — इत्यवधारितं विचारणापूर्वकम् ; तत्क्षये च नामावशेषेण सर्वोत्सादो मोक्षः । तच्च पुण्यपापाख्यं कर्म, ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’ (बृ. उ. ३ । २ । १३) इत्यवधारितत्वात् ; एतत्कृतः संसारः । तत्र अपुण्येन स्थावरजङ्गमेषु स्वभावदुःखबहुलेषु नरकतिर्यक्प्रेतादिषु च दुःखम् अनुभवति पुनः पुनर्जायमानः म्रियमाणश्च इत्येतत् राजवर्त्मवत् सर्वलोकप्रसिद्धम् । यस्तु शास्त्रीयः पुण्यो वै पुण्येन कर्मणा भवति, तत्रैव आदरः क्रियत इह श्रुत्या । पुण्यमेव च कर्म सर्वपुरुषार्थसाधनमिति सर्वे श्रुतिस्मृतिवादाः । मोक्षस्यापि पुरुषार्थत्वात् तत्साध्यता प्राप्ता ; यावत् यावत् पुण्योत्कर्षः तावत् तावत् फलोत्कर्षप्राप्तिः ; तस्मात् उत्तमेन पुण्योत्कर्षेण मोक्षो भविष्यतीत्यशङ्का स्यात् ; सा निवर्तयितव्या । ज्ञानसहितस्य च प्रकृष्टस्य कर्मण एतावती गतिः, व्याकृतनामरूपास्पदत्वात् कर्मणः तत्फलस्य च ; न तु अकार्ये नित्ये अव्याकृतधर्मिणि अनामरूपात्मके क्रियाकारकफलस्वभाववर्जिते कर्मणो व्यापारोऽस्ति ; यत्र च व्यापारः स संसार एव इत्यस्यार्थस्य प्रदर्शनाय ब्राह्मणमारभ्यते ॥

ब्राह्मणान्तरमवतार्य वृत्तं कीर्तयति —

अथेत्यादिना ।

उक्तमेव तस्य मृत्युत्वं व्यक्तीकरोति —

यस्मादिति ।

अग्निर्वै मृत्युरित्यादावुक्तं स्मारयति —

तस्मादिति ।

यत्रायमित्यादावुक्तमनुद्रवति —

मुक्तस्य चेति ।

यत्रास्येत्यादौ निर्णीतमनुभाषते —

तत्रेति ।

पूर्वब्राह्मणस्थो ग्रन्थः सप्तम्यर्थः । तस्य चावधारितमित्यनेन संबन्धः । संसरतां मुच्यमानानां च यानि कार्यकरणानि तेषामिति वैयधिकरण्यम् । अनुपादानमुपादानमित्युभयत्र कार्यकरणानामिति संबन्धः ।

कर्मणो भावाभावाभ्यां बन्धमोक्षावुक्तौ तत्राभावद्वारा कर्मणो मोक्षहेतुत्वं स्फुटयति —

तत्क्षये चेति ।

तस्य भावद्वारा बन्धहेतुत्वं प्रकटयति —

तच्चेति ।

पुण्यपापयोरुभयोरपि संसारफलत्वाविशेषात्पुण्यफलवत्पापफलमप्यत्र वक्तव्यमन्यथा ततो विरागायोगादित्याशङ्क्य वर्तिष्यमाणस्य तात्पर्यं वक्तुं भूमिकां करोति —

तत्रेति ।

पुण्येष्वपुण्येषु च निर्धारणार्था सप्तमी । स्वभावदुःखबहुलेष्वित्युभयतः संबध्यते । तर्हि पुण्यफलमपि सर्वलोकप्रसिद्धत्वान्नात्र वक्तव्यमित्याशङ्क्याऽऽह —

यस्त्विति ।

शास्त्रीयं सुखानुभवमिति शेषः ।

इहेति ब्राह्मणोक्तिः शास्त्रीयं कर्म सर्वमपि संसारफलमेवेति वक्तुं ब्राह्मणमित्युक्त्वा शङ्कोत्तरत्वेनापि तदवतारयति —

पुण्यमेवेत्यादिना ।

मोक्षस्य पुण्यसाध्यत्वं विधान्तरेण साधयति —

यावद्यावदिति ।

कथं तस्या निवर्तनमित्याशङ्क्याऽऽह —

ज्ञानसहितस्येति ।

समुच्चितमपि कर्म संसारफलमेवेत्यत्र हेतुमाह —

व्याकृतेति ।

मोक्षेऽपि स्वर्गादाविव पुरुषार्थत्वाविशेषात्कर्मणो व्यापारः स्यादित्याशङ्क्याऽऽह —

न त्विति ।

अकार्यत्वमुत्पत्तिहीनत्वम् । नित्यत्वं नाशशून्यत्वम् । अव्याकृतधर्मित्वं व्याकृतनामरूपराहित्यम् ।

’अशब्दमस्पर्शम्’ इत्यादि श्रुतिमाश्रित्याऽऽह —

अनामेति ।

’निष्कलं निष्क्रियम्’ इत्यादिश्रुतिमाश्रित्याऽऽह —

क्रियेति ।

चतुर्विधक्रियाफलविलक्षणे मोक्षे कर्मणो व्यापारो न संभवतीति भावः ।

नन्वा स्थाणोरा च प्रजापतेः सर्वत्र कर्मव्यापारात्कथं मोक्षे प्रजापतिभावलक्षणे तद्व्यापारो नास्ति तत्राऽऽह —

यत्र चेति ।

कर्मफलस्य सर्वस्य संसारत्वमेवेति कुतः सिध्यति तत्राऽऽह —

इत्यस्येति ।