बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यत्तु कैश्चिदुच्यते — विद्यासहितं कर्म निरभिसन्धिविषदध्यादिवत् कार्यान्तरमारभत इति — तन्न, अनारभ्यत्वान्मोक्षस्य ; बन्धननाश एव हि मोक्षः, न कार्यभूतः ; बन्धनं च अविद्येत्यवोचाम ; अविद्यायाश्च न कर्मणा नाश उपपद्यते, दृष्टविषयत्वाच्च कर्मसामर्थ्यस्य ; उत्पत्त्याप्तिविकारसंस्कारा हि कर्मसामर्थ्यस्य विषयाः ; उत्पादयितुं प्रापयितुं विकर्तुं संस्कर्तुं च सामर्थ्यं कर्मणः, न अतो व्यतिरिक्तविषयोऽस्ति कर्मसामर्थ्यस्य, लोके अप्रसिद्धत्वात् ; न च मोक्ष एषां पदार्थानामन्यतमः ; अविद्यामात्रव्यवहित इत्यवोचाम । बाढम् ; भवतु केवलस्यैव कर्मण एवं स्वभावता ; विद्यासंयुक्तस्य तु निरभिसन्धेः भवति अन्यथा स्वभावः ; दृष्टं हि अन्यशक्तित्वेन निर्ज्ञातानामपि पदार्थानां विषदध्यादीनां विद्यामन्त्रशर्करादिसंयुक्तानाम् अन्यविषये सामर्थ्यम् ; तथा कर्मणोऽप्यस्त्विति चेत् — न । प्रमाणाभावात् । तत्र हि कर्मण उक्तविषयव्यतिरेकेण विषयान्तरे सामर्थ्यास्तित्वे प्रमाणं न प्रत्यक्षं नानुमानं नोपमानं नार्थापत्तिः न शब्दोऽस्ति । ननु फलान्तराभावे चोदनान्यथानुपपत्तिः प्रमाणमिति ; न हि नित्यानां कर्मणां विश्वजिन्न्यायेन फलं कल्प्यते ; नापि श्रुतं फलमस्ति ; चोद्यन्ते च तानि ; पारिशेष्यात् मोक्षः तेषां फलमिति गम्यते ; अन्यथा हि पुरुषा न प्रवर्तेरन् । ननु विश्वजिन्न्याय एव आयातः, मोक्षस्य फलस्य कल्पितत्वात् — मोक्षे वा अन्यस्मिन्वा फले अकल्पिते पुरुषा न प्रवर्तेरन्निति मोक्षः फलं कल्प्यते श्रुतार्थापत्त्या, यथा विश्वजिति ; ननु एवं सति कथमुच्यते, विश्वजिन्न्यायो न भवतीति ; फलं च कल्प्यते विश्वजिन्न्यायश्च न भवतीति विप्रतिषिद्धमभिधीयते । मोक्षः फलमेव न भवतीति चेत् , न, प्रतिज्ञाहानात् ; कर्म कार्यान्तरं विषदध्यादिवत् आरभत इति हि प्रतिज्ञातम् ; स चेन्मोक्षः कर्मणः कार्यं फलमेव न भवति, सा प्रतिज्ञा हीयेत । कर्मकार्यत्वे च मोक्षस्य स्वर्गादिफलेभ्यो विशेषो वक्तव्यः । अथ कर्मकार्यं न भवति, नित्यानां कर्मणां फलं मोक्ष इत्यस्या वचनव्यक्तेः कोऽर्थ इति वक्तव्यम् । न च कार्यफलशब्दभेदमात्रेण विशेषः शक्यः कल्पयितुम् । अफलं च मोक्षः, नित्यैश्च कर्मभिः क्रियते — नित्यानां कर्मणां फलं न, कार्यम् — इति च एषोऽर्थः विप्रतिषिद्धोऽभिधीयते — यथा अग्निः शीत इति । ज्ञानवदिति चेत् — यथा ज्ञानस्य कार्यं मोक्षः ज्ञानेनाक्रियमाणोऽप्युच्यते, तद्वत् कर्मकार्यत्वमिति चेत् — न, अज्ञाननिवर्तकत्वात् ज्ञानस्य ; अज्ञानव्यवधाननिवर्तकत्वात् ज्ञानस्य मोक्षो ज्ञानकार्यमित्युपचर्यते । न तु कर्मणा निवर्तयितव्यमज्ञानम् ; न च अज्ञानव्यतिरेकेण मोक्षस्य व्यवधानान्तरं कल्पयितुं शक्यम् — नित्यत्वान्मोक्षस्य साधकस्वरूपाव्यतिरेकाच्च — यत्कर्मणा निवर्त्येत । अज्ञानमेव निवर्तयतीति चेत् , न, विलक्षणत्वात् — अनभिव्यक्तिः अज्ञानम् अभिव्यक्तिलक्षणेन ज्ञानेन विरुध्यते ; कर्म तु नाज्ञानेन विरुध्यते ; तेन ज्ञानविलक्षणं कर्म । यदि ज्ञानाभावः, यदि संशयज्ञानम् , यदि विपरीतज्ञानं वा उच्यते अज्ञानमिति, सर्वं हि तत् ज्ञानेनैव निवर्त्यते ; न तु कर्मणा अन्यतमेनापि विरोधाभावात् । अथ अदृष्टं कर्मणाम् अज्ञाननिवर्तकत्वं कल्प्यमिति चेत् , न, ज्ञानेन अज्ञाननिवृत्तौ गम्यमानायाम् अदृष्टनिवृत्तिकल्पनानुपपत्तेः ; यथा अवघातेन व्रीहीणां तुषनिवृत्तौ गम्यमानायाम् अग्निहोत्रादिनित्यकर्मकार्या अदृष्टा न कल्प्यते तुषनिवृत्तिः, तद्वत् अज्ञाननिवृत्तिरपि नित्यकर्मकार्या अदृष्टा न कल्प्यते । ज्ञानेन विरुद्धत्वं च असकृत् कर्मणामवोचाम । यत् अविरुद्धं ज्ञानं कर्मभिः, तत् देवलोकप्राप्तिनिमित्तमित्युक्तम् — ‘विद्यया देवलोकः’ (बृ. उ. १ । ५ । १६) इति श्रुतेः । किञ्चान्यत् कल्प्ये च फले नित्यानां कर्मणां श्रुतानाम् , यत् कर्मभिर्विरुध्यते — द्रव्यगुणकर्मणां कार्यमेव न भवति — किं तत् कल्प्यताम् , यस्मिन् कर्मणः सामर्थ्यमेव न दृष्टम् ? किं वा यस्मिन् दृष्टं सामर्थ्यम् , यच्च कर्मणां फलमविरुद्धम् , तत्कल्प्यतामिति । पुरुषप्रवृत्तिजननाय अवश्यं चेत् कर्मफलं कल्पयितव्यम् — कर्माविरुद्धविषय एव श्रुतार्थापत्तेः क्षीणत्वात् नित्यो मोक्षः फलं कल्पयितुं न शक्यः, तद्व्यवधानाज्ञाननिवृत्तिर्वा, अविरुद्धत्वात् दृष्टसामर्थ्यविषयत्वाच्चेति पारिशेष्यन्यायात् मोक्ष एव कल्पयितव्य इति चेत् — सर्वेषां हि कर्मणां सर्वं फलम् ; न च अन्यत् इतरकर्मफलव्यतिरेकेण फलं कल्पनायोग्यमस्ति ; परिशिष्टश्च मोक्षः ; स च इष्टः वेदविदां फलम् ; तस्मात् स एव कल्पयितव्यः इति चेत् — न, कर्मफलव्यक्तीनाम् आनन्त्यात् पारिशेष्यन्यायानुपपत्तेः ; न हि पुरुषेच्छाविषयाणां कर्मफलानाम् एतावत्त्वं नाम केनचित् असर्वज्ञेनावधृतम् , तत्साधनानां वा, पुरुषेच्छानां वा अनियतदेशकालनिमित्तत्वात् पुरुषेच्छाविषयसाधनानां च पुरुषेष्टफलप्रयुक्तत्वात् ; प्रतिप्राणि च इच्छावैचित्र्यात् फलानां तत्साधनानां च आनन्त्यसिद्धिः ; तदानन्त्याच्च अशक्यम् एतावत्त्वं पुरुषैर्ज्ञातुम् ; अज्ञाते च साधनफलैतावत्त्वे कथं मोक्षस्य परिशेषसिद्धिरिति । कर्मफलजातिपारिशेष्यमिति चेत् — सत्यपि इच्छाविषयाणां तत्साधनानां च आनन्त्ये, कर्मफलजातित्वं नाम सर्वेषां तुल्यम् ; मोक्षस्तु अकर्मफलत्वात् परिशिष्टः स्यात् ; तस्मात् परिशेषात् स एव युक्तः कल्पयितुमिति चेत् — न ; तस्यापि नित्यकर्मफलत्वाभ्युपगमे कर्मफलसमानजातीयत्वोपपत्तेः परिशेषानुपपत्तिः । तस्मात् अन्यथाप्युपपत्तेः क्षीणा श्रुतार्थापत्तिः ; उत्पत्त्याप्तिविकारसंस्काराणामन्यतममपि नित्यानां कर्मणां फलमुपपद्यत इति क्षीणा श्रुतार्थापत्तिः चतुर्णामन्यतम एव मोक्ष इति चेत् — न तावत् उत्पाद्यः, नित्यत्वात् ; अत एव अविकार्यः ; असंस्कार्यश्च अत एव — असाधनद्रव्यात्मकत्वाच्च — साधनात्मकं हि द्रव्यं संस्क्रियते, यथा पात्राज्यादि प्रोक्षणादिना ; न च संस्क्रियमाणः, संस्कारनिर्वर्त्यो वा — यूपादिवत् ; पारिशेष्यात् आप्यः स्यात् ; न आप्योऽपि, आत्मस्वभावत्वात् एकत्वाच्च । इतरैः कर्मभिर्वैलक्षण्यात् नित्यानां कर्मणाम् , तत्फलेनापि विलक्षणेन भवितव्यमिति चेत् , न — कर्मत्वसालक्षण्यात् सलक्षणं कस्मात् फलं न भवति इतरकर्मफलैः ? निमित्तवैलक्षण्यादिति चेत् , न, क्षामवत्यादिभिः समानत्वात् ; यथा हि — गृहदाहादौ निमित्ते क्षामवत्यादीष्टिः, यथा — ‘भिन्ने जुहोति, स्कन्ने जुहोति’ इति — एवमादौ नैमित्तिकेषु कर्मसु न मोक्षः फलं कल्प्यते — तैश्चाविशेषान्नैमित्तिकत्वेन, जीवनादिनिमित्ते च श्रवणात् , तथा नित्यानामपि न मोक्षः फलम् । आलोकस्य सर्वेषां रूपदर्शनसाधनत्वे, उलूकादयः आलोकेन रूपं न पश्यन्तीति उलूकादिचक्षुषो वैलक्षण्यादितरलोकचक्षुर्भिः, न रसादिविषयत्वं परिकल्प्यते, रसादिविषये सामर्थ्यस्यादृष्टत्वात् । सुदूरमपि गत्वा यद्विषयं दृष्टं सामर्थ्यं तत्रैव कश्चिद्विशेषः कल्पयितव्यः । यत्पुनरुक्तम् , विद्यामन्त्रशर्करादिसंयुक्तविषदध्यादिवत् नित्यानि कार्यान्तरमारभन्त इति — आरभ्यतां विशिष्टं कार्यम् , तत् इष्टत्वादविरोधः ; निरभिसन्धेः कर्मणो विद्यासंयुक्तस्य विशिष्टकार्यान्तरारम्भे न कश्चिद्विरोधः, देवयाज्यात्मयाजिनोः आत्मयाजिनो विशेषश्रवणात् — ‘देवयाजिनः श्रेयानात्मयाजी’ (शत. ब्रा. ११ । २ । ६ । १३) इत्यादौ ‘यदेव विद्यया करोति’ (छा. उ. १ । १ । १०) इत्यादौ च । यस्तु परमात्मदर्शनविषये मनुनोक्तः आत्मयाजिशब्दः ‘सम्पश्यन्नात्मयाजी’ (मनु. १२ । ९१) इत्यत्र — समं पश्यन् आत्मयाजी भवतीत्यर्थः । अथवा भूतपूर्वगत्या — आत्मयाजी आत्मसंस्कारार्थं नित्यानि कर्माणि करोति — ‘इदं मेऽनेनाङ्गं संस्क्रियते’ (शत. ब्रा. ११ । २ । ६ । १३) इति श्रुतेः ; तथा ‘गार्भैर्होमैः’ (मनु. २ । २७) इत्यादिप्रकरणे कार्यकरणसंस्कारार्थत्वं नित्यानां कर्मणां दर्शयति ; संस्कृतश्च य आत्मयाजी तैः कर्मभिः समं द्रष्टुं समर्थो भवति, तस्य इह जन्मान्तरे वा समम् आत्मदर्शनमुत्पद्यते ; समं पश्यन् स्वाराज्यमधिगच्छतीत्येषोऽर्थः ; आत्मयाजिशब्दस्तु भूतपूर्वगत्या प्रयुज्यते ज्ञानयुक्तानां नित्यानां कर्मणां ज्ञानोत्पत्तिसाधनत्वप्रदर्शनार्थम् । किञ्चान्यत् — ‘ब्रह्माविश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः’ (मनु. १२ । ५०) इति च देवसार्ष्टिव्यतिरेकेण भूताप्ययं दर्शयति — ‘भूतान्यप्येति पञ्च वै’ (मनु. १२ । ९०) ‘भूतान्यत्येति’ इति पाठं ये कुर्वन्ति, तेषां वेदविषये परिच्छिन्नबुद्धित्वाददोषः ; न च अर्थवादत्वम् — अध्यायस्य ब्रह्मान्तकर्मविपाकार्थस्य तद्व्यतिरिक्तात्मज्ञानार्थस्य च कर्मकाण्डोपनिषद्भ्यां तुल्यार्थत्वदर्शनात् , विहिताकरणप्रतिषिद्धकर्मणां च स्थावरश्वसूकरादिफलदर्शनात् , वान्ताश्यादिप्रेतदर्शनाच्च । न च श्रुतिस्मृतिविहितप्रतिषिद्धव्यतिरेकेण विहितानि वा प्रतिषिद्धानि वा कर्माणि केनचिदवगन्तुं शक्यन्ते, येषाम् अकरणादनुष्ठानाच्च प्रेतश्वसूकरस्थावरादीनि कर्मफलानि प्रत्यक्षानुमानाभ्यामुपलभ्यन्ते ; न च एषाम् कर्मफलत्वं केनचिदभ्युपगम्यते । तस्मात् विहिताकरणप्रतिषिद्धसेवानां यथा एते कर्मविपाकाः प्रेततिर्यक्स्थावरादयः, तथा उत्कृष्टेष्वपि ब्रह्मान्तेषु कर्मविपाकत्वं वेदितव्यम् ; तस्मात् ‘स आत्मनो वपामुदखिदत्’ (तै. सं. २ । १ । १ । ४) ‘सोऽरोदीत्’ (तै. सं. १ । ५ । १ । १) इत्यादिवत् न अभूतार्थवादत्वम् । तत्रापि अभूतार्थवादत्वं मा भूदिति चेत् — भवत्वेवम् ; न च एतावता अस्य न्यायस्य बाधो भवति ; न च अस्मत्पक्षो वा दुष्यति । न च ‘ब्रह्मा विश्वसृजः’ इत्यादीनां काम्यकर्मफलत्वं शक्यं वक्तुम् , तेषां देवसार्ष्टितायाः फलस्योक्तत्वात् । तस्मात् साभिसन्धीनां नित्यानां कर्मणां सर्वमेधाश्वमेधादीनां च ब्रह्मत्वादीनि फलानि ; येषां पुनः नित्यानि निरभिसन्धीनि आत्मसंस्कारार्थानि, तेषां ज्ञानोत्पत्त्यर्थानि तानि, ‘ब्राह्मीयं क्रियते तनुः’ (मनु. २ । २८) इति स्मरणात् ; तेषाम् आरादुपकारत्वात् मोक्षसाधनान्यपि कर्माणि भवन्तीति न विरुध्यते ; यथा चायमर्थः, षष्ठे जनकाख्यायिकासमाप्तौ वक्ष्यामः । यत्तु विषदध्यादिवदित्युक्तम् , तत्र प्रत्यक्षानुमानविषयत्वादविरोधः ; यस्तु अत्यन्तशब्दगम्योऽर्थः, तत्र वाक्यस्याभावे तदर्थप्रतिपादकस्य न शक्यं कल्पयितुं विषदध्यादिसाधर्म्यम् । न च प्रमाणान्तरविरुद्धार्थविषये श्रुतेः प्रामाण्यं कल्प्यते, यथा — शीतोऽग्निः क्लेदयतीति ; श्रुते तु तादर्थ्ये वाक्यस्य, प्रमाणान्तरस्य आभासत्वम् — यथा ‘खद्योतोऽग्निः’ इति ‘तलमलिनमन्तरिक्षम्’ इति बालानां यत्प्रत्यक्षमपि, तद्विषयप्रमाणान्तरस्य यथार्थत्वे निश्चिते, निश्चितार्थमपि बालप्रत्यक्षम् आभासी भवति ; तस्मात् वेदप्रामाण्यस्याव्यभिचारात् तादर्थ्ये सति वाक्यस्य तथात्वं स्यात् , न तु पुरुषमतिकौशलम् ; न हि पुरुषमतिकौशलात् सविता रूपं न प्रकाशयति ; तथा वेदवाक्यान्यपि न अन्यार्थानि भवन्ति । तस्मात् न मोक्षार्थानि कर्माणीति सिद्धम् । अतः कर्मफलानां संसारत्वप्रदर्शनायैव ब्राह्मणमारभ्यते ॥

यत्त्विति ; तन्नेति ; बन्धनेति ; बन्धनं चेति ; अविद्यायाश्चेति ; दृष्टविषयत्वच्चेति ; उत्पत्तीति ; उत्पादयितुमिति ; न चेति ; अविद्येति ; बाढमिति ; भवत्विति ; विद्यासंयुक्तस्येति ; दृष्टं हीति ; तथेति ; नेत्यादिना ; नन्विति ; न हीति ; नापीति ; चोद्यन्ते चेति ; पारिशेष्यादिति ; अन्यथेति ; नन्विति ; मोक्षे वेति ; नन्वेवमिति ; फलं चेति ; मोक्ष इति ; नेति ; कर्मेत्यादिना ; कर्मकार्यत्वे चेति ; अथेति ; नित्यानामिति ; न चेति ; अफलं चेति ; नित्यानामिति ; ज्ञानवदिति चेदिति ; यथेति ; नेति ; अज्ञानेति ; न त्विति ; नित्यत्वादिति ; अज्ञानमेवेति ; न विलक्षणत्वादिति ; अनभिव्यक्तिरिति ; यदीति ; अथेति ; न ज्ञानेनेति ; यथेत्यादिना ; ज्ञानेनेति ; यदविरुद्धमिति ; किञ्चेति ; कल्प्ये चेति ; द्रव्येति ; यस्मिन्निति ; किंवेति ; यच्चेति ; पुरुषेति ; पारिशेष्येति ; सर्वेषामिति ; न चेति ; परिशिष्टश्चेति ; स चेति ; तस्मादिति ; नेति ; न हीति ; तत्साधनानामिति ; अनियतेति ; पुरुषेति ; प्रतिप्राणि चेति ; तदानन्त्याच्चेति ; अज्ञाते चेति ; कर्मेति ; सत्यपीति ; मोक्षस्त्विति ; तस्मादिति ; नेत्यादिना ; तस्मादिति ; उत्पत्तीति ; चतुर्णामिति ; न तावदिति ; असाधनेति ; साधनात्मकं हीति ; न चेति ; पारिशेष्यादित्यादिना ; इतरैरिति ; न कर्मत्वेति ; निमित्तेति ; न क्षामवत्यादिभिरिति ; यथा हीति ; तैश्चेति ; जीवनादीति ; तथेति ; आलोकस्येति ; रसादीति ; सुदूरमपीति ; यत्पुनरित्यादिना ; निरभिसन्धेरिति ; देवयाजीति ; यदेवेति ; यस्त्विति ; अथ वेति ; आत्मेति ; इदमिति ; तथेति ; संस्कृतश्चेति ; तस्येति ; सममिति ; आत्मेति ; ज्ञानयुक्तानामिति ; किञ्चेति ; ब्रह्मेति ; देवसार्ष्टीति ; भूतानीति ; न चेति ; विहितेति ; वान्तेति ; न चेति ; न चैषामिति ; तस्मादिति ; तस्मादिति ; तत्रापीति ; भवत्विति ; न चेति ; न चेति ; न चेति ; तस्मादिति ; ब्राह्मीति ; तेषामिति ; यथा चेति ; यत्त्विति ; तत्रेति ; यस्त्विति ; न चेति ; श्रुते त्विति ; यथेत्यादिना ; तस्मादित्यादिना ; न हीति ; तस्मादिति ; अत इति ;

विद्यासहितमपि कर्म संसारफलं विद्यैव मोक्षार्थेतिस्वपक्षशुद्ध्यर्थं विचारन्पूर्वपक्षयति —

यत्त्विति ।

यथा केवलं विषदध्यादि मरणज्वरादिकरमपि मन्त्रशर्करादियुक्तं जीवनपुष्ट्याद्यारभते तथा स्वतो बन्धफलमपि कर्म फलाभिलाषमन्तरेणानुष्ठितं विद्यासमुच्चितं मोक्षाय क्षममित्यर्थः ।

मुक्तेः साध्यत्वाङ्गीकारे समुच्चितकर्मसाध्यत्वं स्यान्न तु तस्याः साध्यत्वं धीमात्रायत्तत्वादित्युत्तरमाह —

तन्नेति ।

हेतुमेव साधयति —

बन्धनेति ।

किं तद्बन्धनं तदाह —

बन्धनं चेति ।

अविद्यानाशोऽपि कर्मारभ्यो भविष्यतीति चेन्नेत्याह —

अविद्यायाश्चेति ।

मोक्षो न कर्मसाध्योऽविद्यास्तमयत्वाद्राज्ज्वविद्यास्तमयवदित्यर्थः ।

तत्रैव हेत्वन्तरमाह —

दृष्टविषयत्वच्चेति ।

न कर्मसाध्या मुक्तिरिति शेषः ।

तदेव स्पष्टयति —

उत्पत्तीति ।

उक्तमेव कर्मसामर्थ्यविषयमन्वयव्यतिरेकाभ्यां साधयति —

उत्पादयितुमिति ।

अपसिद्ध्वत्वादिति च्छेदः ।

उत्पत्त्यादीनामन्यतमत्वान्मोक्षस्यापि कर्मसामर्थ्यविषयता स्यादिति चेन्नेत्याह —

न चेति ।

नित्यत्वादात्मत्वात्कूटस्थत्वान्नित्यशुद्धत्वान्निर्गुणत्वाच्चेत्यर्थः ।

आत्मभूतो यथोक्तो मोक्षस्तर्हि किमिति सर्वेषां न प्रथत इत्याशङ्क्याऽऽह —

अविद्येति ।

उक्तं कर्मसामर्थ्यं पूर्ववाद्यङ्गीकरोति —

बाढमिति ।

अङ्गीकारमेव स्फोरयति —

भवत्विति ।

एवंस्वभावतोत्पादनादौ समर्थता ।

का तर्हि विप्रतिपत्तिस्तत्राऽऽह —

विद्यासंयुक्तस्येति ।

अन्यथा स्वभावश्चतुर्विधक्रियाफलविलक्षणेऽपि मोक्षो समर्थतेति यावत् ।

उत्पत्त्यादौ समर्थस्य कर्मणो विद्यासंयुक्तस्य तद्विलक्षणेऽपि मोक्षे सामर्थ्यमस्तीत्यत्र दृष्टान्तमाह —

दृष्टं हीति ।

उक्तदृष्टान्तवशात्कर्मणोऽपि केवलस्य संसारफलस्य विद्यासंयोगान्मुक्तिफलत्वमपि स्यादित्याह —

तथेति ।

समाधत्ते —

नेत्यादिना ।

अतीन्द्रियत्वात्कर्मणो मुक्तिसाधनत्वे प्रत्यक्षाद्यसंभवेऽप्यर्थापत्तिरस्तीति शङ्कते —

नन्विति ।

नित्येषु कर्मसु मोक्षातिरिक्तस्य फलस्य श्रुतस्याभावे सति तदुपलभ्यमानचोदनाया मोक्षफलत्वं विनाऽनुपपत्तिस्तेषां तत्साधनत्वे मानमित्यर्थः ।

ननु ‘विश्वजिता यजेते' त्यत्र यागकर्तव्यतारूपो नियोगोऽवगम्यते तस्य नियोज्यसापेक्षत्वात् ‘स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वादि’ ति न्यायेन स्वर्गकामो नियोज्योऽङ्गीकृतस्तथा नित्येष्वपि कर्मसु भविष्यति स्वर्गो नियोज्यविशेषणमत आह —

न हीति ।

जीवञ्जुहुयादिति जीवनविशिष्टस्य नियोज्यस्य लाभान्न नित्येषु स्वर्गो नियोज्यविशषणमित्यर्थः ।

ननु जीवनविशिष्टोऽपि फलाभावे न नियोज्यः स्यात्तथा च कर्मणा पितृलोक इति श्रुतं फलं तेषु कल्पयिष्यते नेत्याह —

नापीति ।

नित्यविधिप्रकरणे पितृलोकवाक्यस्याश्रवणादित्यर्थः ।

तर्हि फलाभावाच्चोदनैव मा भूदिति चेन्नेत्याह —

चोद्यन्ते चेति ।

तथाऽपि फलान्तरं कल्प्यतामित्याशङ्क्य कल्पकाभावान्मैवमित्यभिप्रेत्याऽऽह —

पारिशेष्यादिति ।

मुक्तेर्यत्कल्पकं तदेव फलान्तरस्यापि किं न स्यादित्याशङ्क्य तस्य निरतिशयफलविषयत्वान्मुक्तिकल्पकत्वमेवेत्यभिप्रेत्याऽऽह —

अन्यथेति ।

अनुपपत्त्या चेन्नियोज्यलाभाय नित्येषु फलं कल्प्यते कथं तर्हि विश्वजिन्न्यायो न प्राप्नोतीति सिद्धान्ती प्रत्याह —

नन्विति ।

उक्तमेव विवृणोति —

मोक्षे वेति ।

अकल्पिते सतीति च्छेदः । श्रुतार्थापत्त्या विधेः श्रुतस्य प्रवर्तकत्वानुपपत्त्येति यावत् ।

विश्वजितीव नित्येषु मोक्षे फले कल्प्यमाने सति फलितमाह —

नन्वेवमिति ।

कथमित्युक्तामनुपपत्तिमेव स्फुटयति —

फलं चेति ।

फलकल्पनायां विश्वजिन्न्यायोऽवतरति मोक्षस्तु स्वरूपस्थितित्वेनानुत्पाद्यत्वात्फलमेव न भवतीति शङ्कते —

मोक्ष इति ।

निग्रहमुद्भावयन्नुत्तरमाह —

नेति ।

प्रतिज्ञाहानिं प्रकटयति —

कर्मेत्यादिना ।

कर्मकार्यत्वं मुक्तेरुपेत्योक्तं तदेवायुक्तमित्याह —

कर्मकार्यत्वे चेति ।

फलत्वेऽपि कर्मकार्यत्वं न मुक्तेरस्तीत्युक्तं दोषं परिहर्तुं चोदयति —

अथेति ।

प्रतिज्ञाविरोधेन प्रतिविधत्ते —

नित्यानामिति ।

फलत्वमङ्गीकृत्य कार्यत्वेऽनङ्गीकृते कथं व्याघात इत्याशङ्क्याऽऽह —

न चेति ।

विशेषोऽर्थगत इति शेषः ।

फलत्वमङ्गीकृत्य कार्यत्वानङ्गीकारे व्याघातमुक्त्वा वैपरीत्येऽपि तं व्युत्पादयति —

अफलं चेति ।

आद्यं व्याघातं दृष्टान्तेन स्पष्टयति —

नित्यानामिति ।

दृष्टान्तेन व्याघातं परिहरन्नाशङ्कते —

ज्ञानवदिति चेदिति ।

तदेव स्फुटयति —

यथेति ।

दृष्टान्तं विघटयति —

नेति ।

ज्ञानस्य मोक्षव्यवधिभूताज्ञाननिवर्तकत्वान्मोक्षस्तेनाक्रियमाणोऽपि तत्कार्यमिति व्यपदेशभाग्भवतीत्यर्थः ।

तदेव स्फुटयति —

अज्ञानेति ।

दार्ष्टान्तिकं निराचष्टे —

न त्विति ।

यत्कर्मणा निवर्त्येत तन्मोक्षस्य व्यवधानान्तरं कल्पयितुं न तु शक्यमिति संबन्धः ।

व्यवधानध्वंसे कर्मणोऽप्रवेशेऽपि मुक्तावेव तत्प्रवेशः स्यादिति चेन्नेत्याह —

नित्यत्वादिति ।

नित्यकर्मनिवर्त्यं व्यवधानान्तरं मा भूदज्ञानमेव तन्निवर्त्यं भविष्यति तथा च मोक्षस्य कर्मकार्यत्वं शक्यमुपचरितुमिति शङ्कते —

अज्ञानमेवेति ।

कर्मणो ज्ञानाद्विलक्षणत्वान्नाज्ञाननिवर्तकत्वमित्युत्तरमाह —

न विलक्षणत्वादिति ।

वैलक्षण्यमेव प्रकटयति —

अनभिव्यक्तिरिति ।

इतश्च ज्ञाननिवर्त्यमेवाज्ञानमित्याह —

यदीति ।

अन्यतमेन नित्यादिना व्यस्तेन वा श्रौतेन स्मार्तेन वेत्यर्थः । कर्माज्ञानयोरविरोधो हेत्वर्थः ।

अज्ञाननिवर्तकत्वं कर्मणो नान्वयव्यतिरेकसिद्धं किन्त्वदृष्टमेव कल्प्यमिति शङ्कते —

अथेति ।

दृष्टे सत्यदृष्टकल्पना न न्याय्येति परिहरति —

न ज्ञानेनेति ।

उक्तमर्थं दृष्टान्तेन बुद्धावारोपयति —

यथेत्यादिना ।

अदृष्टेति च्छेदः ।

अस्तु ज्ञानादज्ञानध्वस्तिः किन्तु कर्मसमुच्चितादित्याशङ्क्याऽऽह —

ज्ञानेनेति ।

ननु कर्मभिरविरुद्धमपि हिरण्यगर्भादिविज्ञानमस्ति तथा च समुच्चितं ज्ञानमज्ञानध्वंसि भविष्यति नेत्याह —

यदविरुद्धमिति ।

नित्यानां कर्मणां समुच्चितानामसमुच्चितानां च स्वरूपस्थितौ मोक्षे तत्प्रतिबन्धकाज्ञानध्वस्तौ वा नादृष्टं सामर्थ्यं कल्प्यमित्युक्तमिदानीं तत्कल्पनामङ्गीकृत्यापि दूषयति —

किञ्चेति ।

कर्मणां नास्ति मोक्षे सामर्थ्यमित्येतदुक्तादेव कारणान्न भवति । किन्त्वन्यच्च कारणं तत्रास्तीत्यर्थः ।

तदेव दर्शयितुं विचारयति —

कल्प्ये चेति ।

विरोधमभिनयति —

द्रव्येति ।

कार्यत्वाभावं समर्थयते —

यस्मिन्निति ।

पक्षान्तरमाह —

किंवेति ।

सामर्थ्यविषयं विशदयति —

यच्चेति ।

कथमिह निर्णयस्तत्राऽऽह —

पुरुषेति ।

कल्पयितव्यं फलमिति संबन्धः । उत्पत्त्यादीनामन्यतमो हि कर्मभिरविरुद्धो विषयः । तत्रैव नित्यकर्मचोदनानुपपत्तेरुपशान्तत्वान्नित्यकर्मफलत्वेन मोक्षस्तद्व्यवधानाज्ञाननिवृत्तिर्वा न शक्यते कल्पयितुम् । कर्माज्ञानयोर्विरोधाभावादृष्टं सामर्थ्यं यस्मिन्नुत्पत्त्यादौ तद्विषयत्वाच्च कर्मणस्तद्विलक्षणे मोक्षे न व्यापारः । तथा च नित्यकर्मविधिवशात्पुरुषप्रवृत्तिसंपादनाय फलं चेत्कल्पयितव्यं तर्हि तदुत्पत्त्यादीनामन्यतममेव तदविरुद्धं कल्प्यमित्यर्थः । इतिशब्दः श्रुतार्थापत्तिपरिहारसमाप्त्यर्थः ।

मोक्ष एव नित्यानां कर्मणां फलत्वेन कल्पयितव्यः पारिशष्यन्यायादिति शङ्कते —

पारिशेष्येति ।

पारिशेष्यन्यायमेव विशदयति —

सर्वेषामिति ।

सर्वं स्वर्गपशुपुत्रादीति यावत् ।

तथाऽपि मोक्षादन्यदेव नित्यकर्मफलं किं न स्यात्तत्राऽऽह —

न चेति ।

मोक्षस्यापीतरकर्मफलनिवेशमाशङ्क्याऽऽह —

परिशिष्टश्चेति ।

तस्य फलत्वमेव कथं सिद्धं तत्राऽऽह —

स चेति ।

परिशषायातमर्थं निगमयति —

तस्मादिति ।

पारिशेष्यासिद्ध्या दूषयति —

नेति ।

कर्मफलव्यक्त्यानन्त्यमुक्तं व्यनक्ति —

न हीति ।

फलवत्फलसाधनानां फलविषयेच्छानां चाऽऽनन्त्यं कथयति —

तत्साधनानामिति ।

तदानन्त्ये हेतुमाह —

अनियतेति ।

इच्छाद्यानन्त्ये हेत्वन्तरमाह —

पुरुषेति ।

एतावत्वं नाम नास्तीत्युभयत्र संबन्धः । पुरुषस्येष्टं फलं शोभनाध्यासविषयभूतं तत्र विषयिणां शोभनाध्यासेन प्रयुक्तत्वादिति हेत्वर्थः ।

इच्छाद्यानन्त्यं प्राणिभेदेषु दर्शयित्वा तदानन्त्यमेकैकस्मिन्नपि प्राणिनि दर्शयति —

प्रतिप्राणि चेति ।

इच्छाद्यानन्त्ये फलितमाह —

तदानन्त्याच्चेति ।

साधनादिष्वेतावत्त्वाज्ञानेऽपि किं स्यात्तदाह —

अज्ञाते चेति ।

इतिशब्दः पारिशेष्यानुपपत्तिसमाप्त्यर्थः ।

प्रकारान्तरेण पारिशेष्यं शङ्कते —

कर्मेति ।

तामेव शङ्कां विशदयति —

सत्यपीति ।

तथाऽपि कथं मोक्षस्य परिशिष्टत्वं तदाह —

मोक्षस्त्विति ।

परिशेषफलमाह —

तस्मादिति ।

शङ्कितं परिशेषं दूषयति —

नेत्यादिना ।

अर्थापत्तिपरिशेषौ पराकृत्यार्थापत्तिपराकरणं प्रपञ्चयितुं प्रस्तौति —

तस्मादिति ।

अन्यथाऽप्युपपत्तिं प्रकटयति —

उत्पत्तीति ।

नित्यानामुत्पत्त्यादिफलत्वेऽपि मोक्षस्य तत्फलत्वं सिध्यतीति शङ्कते —

चतुर्णामिति ।

तत्र मोक्षस्योत्पाद्यत्वं दूषयति —

न तावदिति ।

उभयत्रातःशब्दो नित्यत्वपरामर्शी ।

असंस्कार्यत्वे हेत्वन्तरमाह —

असाधनेति ।

तदेव व्यक्तिरेकमुखेन विवृणोति —

साधनात्मकं हीति ।

इतश्च मोक्षस्यासंस्क्रियमाणत्वमित्याह —

न चेति ।

यथा यूपस्तक्षणाष्टाश्रीकरणाभ्यञ्जनादिना संस्क्रियते यथा चाऽऽहवनीयः संस्कारेण निष्पाद्यते न तथा मोक्षो नित्यशुद्धत्वान्निर्गुणत्वाच्चेत्यर्थः ।

पक्षान्तरमनुभाष्य दषयति —

पारिशेष्यादित्यादिना ।

एकत्वं पूर्णत्वम् ।

साधनवैलक्षण्यं फलवैलक्षण्यं कल्पयतीति शङ्कते —

इतरैरिति ।

हेतुवैलक्षण्यासिद्धौ कल्पकाभावात्फलवैलक्षण्यासिद्धिरिति दूषयति —

न कर्मत्वेति ।

निमित्तकृतहेतुवैलक्षण्यवशात्फलवैलक्षण्यसिद्धिरिति शङ्कते —

निमित्तेति ।

निमित्तवैलक्षण्यं फलवैलक्षण्यस्यानिमित्तमिति परिहरति —

न क्षामवत्यादिभिरिति ।

तदेव प्रपञ्चयति —

यथा हीति ।

यस्याऽऽहिताग्नेरग्निर्गृहान्दहेदग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेदित्यत्र दहेदिति विधिविभक्त्या प्रसिद्धार्थयच्छब्दोपहितया गृहदाहाख्यनिमित्तपरामर्शेनाग्नये क्षामवते पुरोडाशमित्यादिना क्षामवती विधीयते । यस्योभयं हविरार्तिमार्च्छेत्स ऐन्द्रं पञ्चशरावमोदनं निर्वपेदित्यत्र चाऽऽर्च्छेदिति विधिविभक्त्या निर्वपेदिति विधास्यमाननिर्वापनिमित्तं हविरार्तिमनूद्य निर्वापो विधीयते । भिन्ने जुहोति स्कन्ने जुहोत्यथ यस्य पुरोडाशौ क्षीयतस्तं यज्ञं वरुणो गृह्णाति यदा तद्धविस्सन्तिष्ठेताथ तदेव हविर्निर्वपेद्यज्ञो हि यज्ञस्य प्रायश्चित्तमिति च भेदनादिनिमित्तं प्रायश्चित्तमुक्तं न च तन्मुक्तिफलं तथा निमित्तभेदेऽपि न नित्यं कर्म मुक्तिफलमित्यर्थः ।

क्षामवत्यादितुल्यत्वं नित्यकर्मणां कुतो लब्धमित्याशङ्क्याऽऽह —

तैश्चेति ।

क्षामवत्यादिभिरिति यावत् । अविशेषे हेतुर्नैमित्तिकत्वेनेति ।

तदेव कथमिति चेत्तत्राऽऽह —

जीवनादीति ।

दार्ष्टान्तिकं स्पष्टयति —

तथेति ।

नित्यं कर्म कर्मान्तराद्विलक्षणमपि न मोक्षफलमित्यत्र दृष्टान्तमाह —

आलोकस्येति ।

चक्षुरन्तरैरुलूकादिचक्षुषो वैलक्षण्येऽपि न रसादिविषयत्वमित्यत्र हेतुमाह —

रसादीति ।

वैलक्षण्यं तर्हि कुत्रोपयुज्यते तत्राऽऽह —

सुदूरमपीति ।

मनुष्यान्विहायोलूकादौ गत्वाऽपीति यावत् । यद्विषये रूपादावित्यर्थः । विशेषो दूरसूक्ष्मादिरतिशयः ।

दार्ष्टान्तिकं पूर्ववादानुवादपूर्वकमाचष्टे —

यत्पुनरित्यादिना ।

तत्तत्रेति यावत् । तदेव वृणोति —

निरभिसन्धेरिति ।

विद्यासंयुक्तं कर्म विशष्टकार्यकरमित्यत्र शतपथश्रुतिं प्रमाणयति —

देवयाजीति ।

तदाहुरित्युपक्रम्य देवयाजिनः श्रेयानित्यादौ काम्यकर्तुर्देवयाजिनः सकाशादात्मशुद्ध्यर्थं कर्म कुर्वन्नात्मयाजी श्रेयानित्यात्मयाजिनो विशेषश्रवणात्सर्वक्रतुयाजिनामात्मयाजी विशिष्यत इति स्मृतेश्च विशिष्टस्य कर्मणो विशिष्टकार्यारम्भकत्वमविरुद्धमित्यर्थः ।

छान्दोग्येऽपि विद्यासंयुक्तस्य कर्मणो विशिष्टकार्यारम्भकत्वं दृष्टमित्याह —

यदेवेति ।

नन्वात्मयाजिशब्दो नित्यकर्मानुष्ठायिविषयो न भवति ।
’सर्वभूतेषु चाऽऽत्मानं सर्वभूतानि चाऽऽत्मनि ।
संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति’
इत्यत्र परमात्मदर्शनविषये तस्य प्रयुक्तत्वादत आह —

यस्त्विति ।

यदि समम्पश्यन्भवेत्तदा परेणाऽऽत्मनैकीभूतः स्वराड्भवतीत्यात्मज्ञानस्तुतिरत्र विवक्षिता । महती हीयं ब्रह्मविद्या यद्ब्रह्मविदेवाऽऽत्मयाजी भवति । नहि तस्य तदनुष्ठानं पृथगपेक्षते । ब्रह्मवित्पुण्यकृदिति च वक्ष्यतीत्यर्थः ।

परदर्शनवत्यात्मयाजिशब्दस्य गत्यन्तरमाह —

अथ वेति ।

भूता या पूर्वस्थितिस्तामपेक्ष्याऽऽत्मयाजिशब्दो विदुषीत्यर्थः ।

तदेव प्रपञ्चयति —

आत्मेति ।

तेषां तत्संस्कारार्थत्वे प्रमाणमाह —

इदमिति ।

तत्रैव स्मृतिं प्रमाणयति —

तथेति ।

गर्भसंबन्धिभिर्होमैर्मौञ्जीनिबन्धनादिभिश्च बैजिकमेवैनः शमयतीत्यस्मिन्प्रकरणे नित्यकर्मणां संस्कारार्थत्वं निश्चितमित्यर्थः ।

संस्कारोऽपि कुत्रोपयुज्यते तत्राऽऽह —

संस्कृतश्चेति ।

यो हि नित्यकर्मानुष्ठायी स तदनुष्ठानजनितापूर्ववशात्परिशुद्धबुद्धिः सम्यग्धीयोग्यो भवति । ‘महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः’(म.स्मृ. २। २८) इति स्मृतेरित्यर्थः ।

कदा पुनरेषा सम्यग्धीरुत्पद्यते तत्राऽऽह —

तस्येति ।

उत्पन्नस्य सम्यग्ज्ञानस्य फलमाह ।

सममिति ।

कथं पुनः सम्यग्ज्ञानवत्यात्मयाजिशब्द इत्याशङ्क्य पूर्वोक्तं स्मारयति —

आत्मेति ।

किमितीह भूतपूर्वगतिराश्रितेति तत्राऽऽह —

ज्ञानयुक्तानामिति ।

ऐहिकैरामुष्मिकैर्वा कर्मभिः शुद्धबुद्धेः श्रवणादिवशादैक्यज्ञानं मुक्तिफलमुदेति । कर्म तु विद्यासंयुक्तमपि संसारफलमेवेति भावः ।

तत्रैव हेत्वन्तरमाह —

किञ्चेति ।

विद्यायुक्तमपि कर्म बन्धायैवेत्यत्र न केवलमुक्तमेव कारणं किन्त्वन्यच्च तदुपपादकमस्तीत्यर्थः ।

तदेव दर्शयति —

ब्रह्मेति ।

सात्त्विकीं सत्त्वगुणप्रसूतज्ञानसमुच्चितकर्मफलभूतमिति यावत् । अत्र हि विद्यायुक्तमपि कर्म संसारफलमेवेति सूच्यते ।
‘एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य कर्मणः ।
त्रिविधस्त्रिविधः कर्मसंसारः सार्वभौतिकः’(म.स्मृ. १२। ५१)

इत्युपसंहारादिति चकारार्थः ।

किञ्च ।
‘प्रवृत्तं कर्म संसेव्य देवानामेति सार्ष्टिताम्’(म.स्मृ. १२। ९०)
इति कर्मफलभूतदेवतासदृशैश्वर्यप्राप्तिमुक्त्वा तदतिरेकेण
‘निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै’(म.स्मृ. १२। ९०)
इति भूतेष्वप्ययवचनान्न समुच्चयस्य मुक्तिफलतेत्याह —

देवसार्ष्टीति ।

‘निवृत्तं सेवमानस्तु भूतान्यप्येति पञ्च वै’ इति पाठान्मुक्तिरेव समुच्चयानुष्ठानाद्विवक्षितेति चेन्नेत्याह —

भूतानीति ।

ज्ञानमेव मुक्तिहेतुरिति प्रतिपादकोपनिषद्विरोधान्नायं पाठः साधीयानित्यर्थः ।

ननु विग्रहवती देवतैव नास्ति मन्त्रमयी हि सा देवताशब्दप्रत्ययालम्बनमतो ब्रह्मा विश्वसृज इत्यादेरर्थवादत्वान्न तद्बलेन नित्यकर्मणां मुक्तिसाधनत्वं निराकर्तुं शक्यमत आह —

न चेति ।

ज्ञानार्थस्य संपश्यन्नात्मयाजीत्यादेरिति शेषः ।

किञ्च “अकुर्वन्विहितं कर्म निन्दितं च समाचरन् ।
प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति ।(या.स्मृ.३-२१९)

शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ।
श्वसूकरखरोष्ट्राणां गोजाविमृगपक्षिणाम् ।
चण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति” इत्यादिवाक्यैः प्रतिपादितफलानां प्रत्यक्षेणापि दर्शनाद्यथा तत्र नाभूतार्थवादत्वं तथा यथोक्ताध्यायस्यापि नाभूतार्थवादतेत्याह —

विहितेति ।

किञ्च वङ्गादिदेशे छर्दिताश्यादिप्रेतानां प्रत्यक्षत्वादध्ययनरहितानामपि स्त्रीशूद्रादीनां वेदोच्चारणदर्शनेन ब्रह्मग्रहसद्भावावगमाच्च न ब्रह्मादिवाक्यस्यार्थवादतेत्याह —

वान्तेति ।

ननु स्थावरादीनां श्रौतस्मार्तकर्मफलत्वाभावान्न तद्दर्शनेन वचनानां भूतार्थत्वं शक्यं कल्पयितुमत आह —

न चेति ।

सेवादिदृष्टकारणसाम्येऽपि फलवैषम्योपलम्भादवश्यमतीन्द्रियं कारणं वाच्यम् । न च तत्र श्रुतिस्मृती विहायान्यन्मानमस्ति । तथा च श्रौतस्मार्तकर्मकृतान्येव स्थावरादीनि फलानीत्यर्थः ।

संनिहितासंनिहितेषु स्थावरादिषु प्रत्यक्षानुमानयोर्थयायोगं प्रवृत्तिरुन्नेया । स्थावराणां जीवशून्यत्वादकर्मफलत्वमिति केचित्तान्प्रत्याह —

न चैषामिति ।

अस्मदादिवदेव वृक्षादीनां वृद्ध्यादिदर्शनात्सजीवत्वप्रसिद्धेस्तस्मात्पश्यन्ति पादपा इत्यादिप्रयोगाच्च तेषां कर्मफलत्वसिद्धिरित्यर्थः ।

स्थावरादीनां कर्मफलत्वे सिद्धे फलितमाह —

तस्मादिति ।

ब्रह्मादीनां पुण्यकर्मफलत्वेऽपि प्रकृते किं स्यात्तदाह —

तस्मादिति ।

कर्मविपाकप्रकरणस्याभूतार्थवादत्वाभावे दृष्टान्तेऽपि तन्न स्यादिति शङ्कते —

तत्रापीति ।

अङ्गीकरोति —

भवत्विति ।

कथं तर्हि वैधर्म्यदृष्टान्तसिद्धिरत आह —

न चेति ।

वैधर्म्यदृष्टान्ताभावमात्रेण कर्मविपाकाध्यायस्य नाभूतार्थवादतेत्यस्य न्यायस्य नैव बाधः साधर्म्यदृष्टान्तादपि तत्सिद्धेरित्यर्थः ।

ननु ‘प्रजापतिरात्मनो वपामुदखिदत्’ इत्यादीनामभूतार्थवादत्वाभावे कथमर्थवादाधिकरणं घटिष्यते तत्राऽऽह —

न चेति ।

तदघटनायामपि नास्मात्पक्षक्षतिस्तवैव तदभूतार्थवादत्वं त्यजतस्तद्विरोधादित्यर्थः ।

ननु कर्मविपाकप्रकरणस्यार्थवादत्वाभावेऽपि ब्रह्मादीनां काम्यकर्मफलत्वान्न ज्ञानसंयुक्तनित्यकर्मफलत्वं ततो मोक्ष एव तत्फलमित्यत आह —

न चेति ।

तेषां काम्यानां कर्मणामिति यावत् । देवसार्ष्टिताया देवैरिन्द्रादिभिस्समानैश्वर्यप्राप्तेरित्यर्थः । उक्तत्वात् ‘प्रवृत्तं कर्म संसेव्य देवानामेति सार्ष्टिताम्’ इत्यत्रेति शेषः ।

ननु विद्यासंयुक्तानां नित्यानां कर्माणां फलं ब्रह्मादिभावश्चेत्कथं तानि ज्ञानोत्पत्त्यर्थान्यास्थीयन्ते तत्राऽऽह —

तस्मादिति ।

कर्मणां मुक्तिफलत्वाभावस्तच्छब्दार्थः । साभिसन्धीनां देवताभावे फलेऽनुरागवतामिति यावत् । नित्यानि कर्माणि श्रौतानि स्मार्तानि चाग्निहोत्रसन्ध्योपासनप्रभृतीनि निरभिसन्धीनि फलाभिलाषविकलानि परमेश्वरार्पणबुद्ध्या क्रियमाणानि । आत्मशब्दो मनोविषयः ।

कर्मणां चित्तशुद्धिद्वारा ज्ञानोत्पत्त्यर्थत्वे प्रमाणमाह —

ब्राह्मीति ।

कथं तर्हि कर्मणां मोक्षसाधनत्वं केचिदाचक्षते तत्राऽऽह —

तेषामिति ।

संस्कृतबुद्धीनामिति यावत् ।

कर्मणां परम्परया मोक्षसाधनत्वं कथं सिद्धवदुच्यते तत्राऽऽह —

यथा चेति ।

अयमर्थस्तथेति शेषः ।

निरस्तमप्यधिकविवक्षया पुनरनुवदति —

यत्त्विति ।

विषादेर्मन्त्रादिसहितस्य जीवनादिहेतुत्वं प्रत्यक्षादिसिद्धमतो दृष्टान्ते कार्यारम्भकत्वे विरोधो नास्तीत्याह —

तत्रेति ।

कर्मणो विद्यासंयुक्तस्य कार्यान्तरारम्भकत्वलक्षणोऽर्थः शब्देनैव गम्यते ।

न च तत्र मानान्तरमस्ति । न च समुच्चितस्य कर्मणो मोक्षारम्भकत्वप्रतिपादकं वाक्यमुपलभ्यते तदभावे कर्मणि विद्यायुक्तेऽपि विषदध्यादिसाधर्म्यं कल्पयितुं न शक्यमित्याह —

यस्त्विति ।

कर्मसाध्यत्वे च मोक्षस्यानित्यता स्यादिति भावः ।

‘अपाम सोमममृता अभूम’ इत्यादिश्रुतेर्मोक्षस्य कर्मसाध्यस्यापि नित्यत्वमिति चेन्नेत्याह —

न चेति ।

यत्कृतं तदनित्यमित्यनुमानानुगृहीतं तद्यथेहेत्यादिवाक्यं तद्विरोधेनार्थवादश्रुतेः स्वार्थेऽप्रामाण्यमित्यर्थः ।

प्रमाणान्तरविरुद्धेऽर्थे प्रामाण्यं श्रुतेर्नोच्यते चेदद्वैतश्रुतेरपि कथं प्रत्यक्षादिविरुद्धे स्वार्थे प्रामाण्यमित्याशङ्क्याऽऽह —

श्रुते त्विति ।

तत्त्वमस्यादिवाक्यस्य षड्विधतात्पर्यलिङ्गैस्सदद्वैतपरत्वे निर्धारिते सद्भेदविषयस्य प्रत्यक्षादेराभासत्वं भवतीत्यर्थः ।

तदेव दृष्टान्तेन साधयति —

यथेत्यादिना ।

यदविवेकिनां यथोक्तं प्रत्यक्षं तद्यद्यपि प्रथमभावित्वेन प्रबलं निश्चितार्थं च तथाऽपि तस्मिन्नेवाऽऽकाशादौ विषये प्रवृत्तस्याऽऽप्तवाक्यादेर्मानान्तरस्य यथार्थत्वे सति तद्विरुद्धं पूर्वोक्तमविवेकिप्रत्यक्षमप्याभासीभवति । तथेदं द्वैतविषयं प्रत्यक्षाद्यद्वैतागमविरोधे भवत्याभास इत्यर्थः ।

ननु तात्पर्यं नाम पुरुषस्य मनोधर्मस्तद्वशाच्चेदद्वैतश्रुतेर्यथार्थत्वं तर्हि प्रतिपुरुषमन्यथैव तात्पर्यदर्शनात्तद्वशादन्यथैव श्रुत्यर्थः स्यादित्याशङ्क्य दार्ष्टान्तिकं निगमयन्नुत्तरमाह —

तस्मादित्यादिना ।

तादर्थ्यमर्थपरत्वं तथात्वं याथार्थ्यं शब्दधर्मस्तात्पर्यं तच्च षड्विधलिङ्गगम्यं तथा च शब्दस्य पुरुषाभिप्रायवशान्नान्यथार्थत्वमित्यर्थः ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति —

न हीति ।

विचारार्थमुपसंहरति —

तस्मादिति ।

विद्यासंयुक्तस्यापि कर्मणो मोक्षारम्भकत्वासंभवस्तच्छब्दार्थः ।

मा भूत्कर्मणां मोक्षार्थत्वं किं तावतेत्याशङ्क्य ब्राह्मणारम्भं निगमयति —

अत इति ।