बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ याज्ञवल्क्येति होवाच । मद्रेषु चरकाः पर्यव्रजाम ते पतञ्जलस्य काप्यस्य गृहानैम तस्यासीद्दुहिता गन्धर्वगृहीता तमपृच्छाम कोऽसीति सोऽब्रवीत्सुधन्वाङ्गिरस इति तं यदा लोकानामन्तानपृच्छामाथैनमब्रूम क्व पारिक्षिता अभवन्निति क्व पारिक्षिता अभवन्स त्वा पृच्छामि याज्ञवल्क्य क्व पारिक्षिता अभवन्निति ॥ १ ॥
अथ अनन्तरम् उपरते जारत्कारवे, भुज्युरिति नामतः, लह्यस्यापत्यं लाह्यः तदपत्यं लाह्यायनिः, प्रपच्छ ; याज्ञवल्क्येति होवाच । आदावुक्तम् अश्वमेधदर्शनम् ; समष्टिव्यष्टिफलश्चाश्वमेधक्रतुः, ज्ञानसमुच्चितो वा केवलज्ञानसम्पादितो वा, सर्वकर्मणां परा काष्ठा ; भ्रूणहत्याश्वमेधाभ्यां न परं पुण्यपापयोरिति हि स्मरन्ति ; तेन हि समष्टिं व्यष्टीश्च प्राप्नोति ; तत्र व्यष्टयो निर्ज्ञाता अन्तरण्डविषया अश्वमेधयागफलभूताः ; ‘मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति’ (बृ. उ. १ । २ । ७) इत्युक्तम् ; मृत्युश्च अशनायालक्षणो बुद्ध्यात्मा समष्टिः प्रथमजः वायुः सूत्रं सत्यं हिरण्यगर्भः ; तस्य व्याकृतो विषयः — यदात्मकं सर्वं द्वैतकत्वम् , यः सर्वभूतान्तरात्मा लिङ्गम् अमूर्तरसः यदाश्रितानि सर्वभूतकर्माणि, यः कर्मणां कर्मसम्बद्धानां च विज्ञानानां परा गतिः परं फलम् । तस्य कियान् गोचरः कियती व्याप्तिः सर्वतः परिमण्डलीभूता, सा वक्तव्या ; तस्याम् उक्तायाम् , सर्वः संसारो बन्धगोचर उक्तो भवति ; तस्य च समष्टिव्यष्ट्यात्मदर्शनस्य अलौकिकत्वप्रदर्शनार्थम् आख्यायिकामात्मनो वृत्तां प्रकुरुते ; तेन च प्रतिवादिबुद्धिं व्यामोहयिष्यामीति मन्यते ॥

ब्रह्मणारम्भमेवं प्रतिपाद्य तदक्षराणि व्याकरोति —

अथेति ।

याज्ञवल्क्यमभिमुखीकृत्य भुज्युः स्वस्य पूर्वनिर्वृत्तां कथां कथयंस्तामवतारयितुमश्वेमधस्वरूपं तत्फलं च विभज्य दर्शयति —

आदाविति ।

ऋतुरुक्त इति पूर्वेण संबन्धः ।

क्रतोर्द्वैविध्यमाह —

ज्ञानेति ।

अश्वमेधस्य द्विधा विभक्तस्य सर्वकर्मोत्कर्षमुद्गिरति —

सर्वकर्मणामिति ।

तस्य पुण्यश्रेष्ठत्वे मानमाह —

भ्रूणहत्येति ।

समष्टिव्यष्टिफलश्चेत्युक्तं स्पष्टयति —

तेनेति ।

अश्वमेधेन सहकरिकामनाभेदेन समष्टिं समनुगतरूपां व्यष्टीश्च व्यावृत्तरूपा देवताः प्राप्नोतीत्यर्थः ।

काः पुनर्व्यष्टयो विवक्ष्यन्ते तत्राऽऽह —

तत्रेति ।

अग्निरादित्यो वायुरित्याद्या व्यष्टयो देवताः सोऽग्निरभवदित्यादावण्डान्तर्वर्तिन्योऽश्वमेधफलभूता दर्शिता इत्यर्थः ।

का तर्हि समष्टिर्देवतेत्युक्ते तत्रैवोक्तं स्मारयति —

मृत्युरिति ।

तामेव समष्टिरूपां देवतां प्रपञ्चयितुमिदं ब्राह्मणमिति वक्तुं पातनिकां करोति —

मृत्युश्चेति ।

प्राणात्मकबुद्धिधर्मोऽशनाया कथं मृत्योर्लक्षणं तत्राऽऽह —

बुद्ध्यात्मेति ।

तर्हि बुद्धेर्व्यष्टित्वान्मृत्युरपि तथा स्यादित्याशङ्क्याऽऽह —

समष्टिरिति ।

प्रागेव व्यष्ट्युत्पत्तेरुत्पन्नत्वेन समष्टित्वं साधयति —

प्रथमज इति ।

सर्वाश्रयत्वं दर्शयति —

सूत्रमिति ।

तत्र वायुर्वै गौतमेत्यादि वाक्यं प्रमाणमिति सूचयति —

वायुरिति ।

तथाऽपि कथं प्रथमजत्वं भूतानां प्रथममुत्पत्तेरित्याशङ्क्याऽऽह —

सत्यमिति ।

हिरण्यगर्भस्योक्तलक्षणत्वेऽपि किमायातां मृत्योरित्याशङ्ग्याऽऽह —

हिरण्यगर्भ इति ।

जगदेव समष्टिव्यष्टिरूपं न सूत्रमित्याशङ्क्याऽऽह —

यदात्मकमिति ।

द्वैतं व्यष्टिरूपमेकत्वं समष्टिरूपं तत्सर्वं यदात्मकं तस्येति संबन्धः ।

तस्योक्तप्रमाणत्वं प्रकटयति —

यः सर्वेति ।

विज्ञानात्मानं व्यावर्तयति —

लिङ्गमिति ।

‘त्यस्य ह्येष रसः’ इति श्रुतिमनुसृत्याऽऽह —

अमूर्तेति ।

तस्य साधनाश्रयत्वं दर्शयति —

यदाश्रितानीति ।

तस्यैव फलाश्रयत्वमाह —

यः कर्मणामिति ।

परा गतिरित्यस्यैव व्याख्यानं परं फलमिति ।

एवं भूमिकामारचय्यानन्तरब्राह्मणमवतारयति —

तस्येति ।

प्रश्नमेव प्रकटयति —

कियतीति ।

सर्वतः परितो मण्डलभावमासाद्य स्थितेति यावत् ।

ननु किमिति सा वक्तव्या तस्यामुक्तायामपि वक्तव्यसंसारावशेषादाकाङ्क्षाविश्रान्त्यभावादत आह —

तस्यामिति ।

इयान्बन्धो नाधिको न्यूनो वेत्यन्यव्यवच्छेदेन बन्धपरिमाणपरिच्छेदार्थं कर्मफलव्याप्तिरत्रोच्यते तत्परिच्छेदश्च वैराग्यद्वारा मुक्तिहेतुरिति भावः ।

ब्राह्मणस्यैवं प्रवृत्तावपि किमिति भुज्युः स्वस्य पूर्वनिर्वृत्तां कथामाहेत्याशङ्क्याऽऽह —

तस्य चेति ।

समष्टिव्यष्ट्यात्मदर्शनस्यालौकिकत्वप्रदर्शनेन वा किं स्यात्तदाह —

तेन चेति ।

इति मन्यते भुज्युरिति शेषः । जल्पे परपराजयेनाऽऽत्मजयस्येष्टत्वादित्यर्थः । धिष्ण्यत्वमग्नेरुपास्यत्वम् ।