बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ याज्ञवल्क्येति होवाच । मद्रेषु चरकाः पर्यव्रजाम ते पतञ्जलस्य काप्यस्य गृहानैम तस्यासीद्दुहिता गन्धर्वगृहीता तमपृच्छाम कोऽसीति सोऽब्रवीत्सुधन्वाङ्गिरस इति तं यदा लोकानामन्तानपृच्छामाथैनमब्रूम क्व पारिक्षिता अभवन्निति क्व पारिक्षिता अभवन्स त्वा पृच्छामि याज्ञवल्क्य क्व पारिक्षिता अभवन्निति ॥ १ ॥
मद्रेषु — मद्रा नाम जनपदाः तेषु, चरकाः — अध्ययनार्थं व्रतचरणाच्चरकाः अध्वर्यवो वा, पर्यव्रजाम पर्यटितवन्तः ; ते पतञ्जलस्य — ते वयं पर्यटन्तः, पतञ्जलस्य नामतः, काप्यस्य कपिगोत्रस्य, गृहान् ऐम गतवन्तः ; तस्यासीद्दुहिता गन्धर्वगृहीता — गन्धर्वेण अमानुषेण सत्त्वेन केनचित् आविष्टा ; गन्धर्वो वा धिष्ण्योऽग्निः ऋत्विक् देवता विशिष्टविज्ञानत्वात् अवसीयते ; न हि सत्त्वमात्रस्य ईदृशं विज्ञानमुपपद्यते । तं सर्वे वयं परिवारिताः सन्तः अपृच्छाम — कोऽसीति — कस्त्वमसि किन्नामा किंसतत्त्वः । सोऽब्रवीद्गन्धर्वः — सुधन्वा नामतः, आङ्गिरसो गोत्रतः । तं यदा यस्मिन्काले लोकानाम् अन्तान् पर्यवसानानि अपृच्छाम, अथ एनं गन्धर्वम् अब्रूम — भुवनकोशपरिमाणज्ञानाय प्रवृत्तेषु सर्वेषु आत्मानं श्लाघयन्तः पृष्टवन्तो वयम् ; कथम् ? क्व पारिक्षिता अभवन्निति । स च गन्धर्वः सर्वमस्मभ्यमब्रवीत् । तेन दिव्येभ्यो मया लब्धं ज्ञानम् ; तत् तव नास्ति ; अतो निगृहीतोऽसि’ — इत्यभिप्रायः । सोऽहं विद्यासम्पन्नो लब्धागमो गन्धर्वात् त्वा त्वाम् पृच्छामि याज्ञवल्क्य — क्व पारिक्षिता अभवन् — तत् त्वं किं जानासि ? हे याज्ञवल्क्य, कथय, पृच्छामि — क्व पारिक्षिता अभवन्निति ॥

‘अग्निर्वै देवानां होता’ इति श्रुतिमाश्रित्याऽऽह —

ऋत्विगिति ।

यथोक्तगन्धर्वशब्दार्थसंग्रहे लिङ्गमाह —

विशिष्टेति ।

तस्यान्यथासिद्धिं दूषयति —

न हीति ।

अथैनमित्यादेरर्थं विवृणोति —

भुवनेति ।

भवत्वेवं गन्धर्वं प्रति भवतः प्रश्नस्तथाऽपि किमायातं तदाह —

स चेति ।

तेन गन्धर्ववचनेनेति यावत् । दिव्येभ्यो गन्धर्वेभ्यः सकाशादित्येतत् ।

एतज्ज्ञानाभावे त्वज्ञानमप्रतिभा ब्रह्मिष्ठत्वप्रतिज्ञाहानिश्चेत्याह —

अत इति ।

प्रष्टुरभिप्रायमुक्त्वा प्रश्नाक्षराणि व्याचष्टे —

सोऽहमिति ।

प्रथमा तावत्क्व पारिक्षिता अभवन्नित्युक्तिर्गन्धर्वप्रश्नार्था । द्वितीया तदनुरूपप्रतिवचनार्था । यो हि क्व पारिक्षिता अभवन्निति प्रश्नो गन्धर्वं प्रति कृतस्तस्य प्रत्युक्तिं सर्वां सोऽस्मभ्यमब्रवीदिति तत्र विवक्ष्यते । तृतीया तु मुनिं प्रति प्रश्नार्थेति विभागः ॥१॥