बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स होवाचोवाच वै सोऽगच्छन्वै ते तद्यत्राश्वमेधयाजिनो गच्छन्तीति क्व न्वश्वमेधयाजिनो गच्छन्तीति द्वात्रिंशतं वै देवरथाह्न्यान्ययं लोकस्तं समन्तं पृथिवी द्विस्तावत्पर्येति तां समन्तं पृथिवीं द्विस्तावत्समुद्रः पर्येति तद्यावती क्षुरस्य धारा यावद्वा पक्षिकायाः पत्रं तावानन्तरेणाकाशस्तानिन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत्तान्वायुरात्मनि धित्वा तत्रागमयद्यत्राश्वमेधयाजिनोऽभवन्नित्येवमिव वै स वायुमेव प्रशशंस तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं वेद ततो ह भुज्युर्लाह्यायनिरुपरराम ॥ २ ॥
स होवाच याज्ञवल्क्यः ; उवाच वै सः — वै - शब्दः स्मरणार्थः — उवाच वै स गन्धर्वः तुभ्यम् । अगच्छन्वै ते पारिक्षिताः, तत् तत्र ; क्व ? यत्र यस्मिन् अश्वमेधयाजिनो गच्छन्ति — इति निर्णीते प्रश्न आह — क्व नु कस्मिन् अश्वमेधयाजिनो गच्छन्तीति । तेषां गतिविवक्षया भुवनकोशापरिमाणमाह — द्वात्रिंशतं वै, द्वे अधिके त्रिंशत् , द्वात्रिंशतं वै, देवरथाह्न्यानि — देव आदित्यः तस्य रथो देवरथः तस्य रथस्य गत्या अह्ना यावत्परिच्छिद्यते देशपरिमाणं तत् देवरथाह्न्यम् , तद्द्वात्रिंशद्गुणितं देवरथाह्न्यानि, तावत्परिमाणोऽयं लोकः लोकालोकगिरिणा परिक्षिप्तः — यत्र वैराजं शरीरम् , यत्र च कर्मफलोपभोगः प्राणिनाम् , स एष लोकः ; एतावान् लोकः, अतः परम् अलोकः, तं लोकं समन्तं समन्ततः, लोकविस्तारात् द्विगुणपरिमाणविस्तारेण परिमाणेन, तं लोकं परिक्षिप्ता पर्येति पृथिवी ; तां पृथिवीं तथैव समन्तम् , द्विस्तावत् — द्विगुणेन परिमाणेन समुद्रः पर्येति, यं घनोदमाचक्षते पौराणिकाः । तत्र अण्डकपालयोर्विवरपरिमाणमुच्यते, येन विवरेण मार्गेण बहिर्निर्गच्छन्तो व्याप्नुवन्ति अश्वमेधयाजिनः ; तत्र यावती यावत्परिमाणा क्षुरस्य धारा अग्रम् , यावद्वा सौक्ष्म्येण युक्तं मक्षिकायाः पत्रम् , तावान् तावत्परिमाणः, अन्तरेण मध्येऽण्डकपालयोः, आकाशः छिद्रम् , तेन आकाशेनेत्येतत् ; तान् पारिक्षितानश्वमेधयाजिनः प्राप्तान् इन्द्रः परमेश्वरः — योऽश्वमेधेऽग्निश्चितः, सुपर्णः — यद्विषयं दर्शनमुक्तम् ‘तस्य प्राची दिक्शिरः’ (बृ. उ. १ । २ । ४) इत्यादिना — सुपर्णः पक्षी भूत्वा, पक्षपुच्छात्मकः सुपर्णो भूत्वा, वायवे प्रायच्छत् — मूर्तत्वान्नास्त्यात्मनो गतिस्तत्रेति । तान् पारिक्षितान् वायुः आत्मनि धित्वा स्थापयित्वा स्वात्मभूतान्कृत्वा तत्र तस्मिन् अगमयत् ; क्व ? यत्र पूर्वे अतिक्रान्ताः पारिक्षिता अश्वमेधयाजिनोऽभवन्निति । एवमिव वै — एवमेव स गन्धर्वः वायुमेव प्रशशंस पारिक्षितानां गतिम् । समाप्ता आख्यायिका ; आख्यायिकानिर्वृत्तं तु अर्थम् आख्यायिकातोऽपसृत्य स्वेन श्रुतिरूपेणैव आचष्टेऽस्मभ्यम् । यस्मात् वायुः स्थावरजङ्गमानां भूतानामन्तरात्मा, बहिश्च स एव, तस्मात् अध्यात्माधिभूताधिदैवभावेन विविधा या अष्टिः व्याप्तिः स वायुरेव ; तथा समष्टिः केवलेन सूत्रात्मना वायुरेव । एवं वायुमात्मानं समष्टिव्यष्टिरूपात्मकत्वेन उपगच्छति यः — एवं वेद, तस्य किं फलमित्याह — अप पुनर्मृत्युं जयति, सकृन्मृत्वा पुनर्न म्रियते । तत आत्मनः प्रश्ननिर्णयात् भुज्युर्लाह्यायनिरुपरराम ॥

अज्ञानादिनिग्रहं परिहरन्नुत्तरमाह —

स होवाचेति ।

स्मरणार्थो गन्धर्वाल्लब्धस्य ज्ञानस्येति शेषः ।

किमुवाचेत्यपेक्षायामाह —

अगच्छन्निति ।

अहोरात्रमादित्यरथगत्या यावान्पन्था मितस्तावान्देशो द्वात्रिंशद्गुणितस्तत्किरणव्याप्तः ।

स च चन्द्ररश्मिव्याप्तेन देशेन साकं पृथिवीत्युच्यते । ‘रविचन्द्रमसोर्यावन्मयूखैरवभास्यते । ससमुद्रसरिच्छैला तावती पृथिवी स्मृता’(ब्रह्मपुराणम् २३-३)इति स्मृतेरित्याह —

द्वात्रिंशतमित्यादिना ।

अयं लोक इत्यस्यार्थमाह —

तावदिति ।

तत्र लोकभागं विभजते —

यत्रेति ।

उक्तं लोकमनूद्यावशिष्टस्यालोकत्वमाह —

एतावानिति ।

तमिति प्रतीकमादाय व्याचष्टे —

लोकमित्यादिना ।

अन्वयं दर्शयितुं तं लोकमिति पुनरुक्तिः ।

तत्र पौराणिकसंमतिमाह —

यं घनोदमिति ।

उक्तं हि -
‘अण्डस्यास्य समन्तात्तु संनिविष्टोऽमृतोदधिः ।
समन्ताद्घनतोयेन धार्यमाणः स तिष्ठति ॥’ इति ।

तद्यावतीत्यादेस्तात्पर्यमाह —

तत्रेति ।

लोकादिपरिमाणे यथोक्तरीत्या स्थिते सतीति यावत् ।

कपालविवरस्यानुपयुक्तत्वात्किं तत्परिमाणचिन्तयेत्याशङ्क्याऽऽह —

येनेति ।

व्यवहारभूमिः सप्तम्यर्थः ।

परमात्मानं व्यावर्तयति —

योऽश्वमेध इति ।

सुपर्णशब्दस्य श्येनसादृश्यमाश्रित्य चित्येऽग्नौ प्रवृत्तिं दर्शयति —

यद्विषयमिति ।

उक्तार्थं पदमनुवदति —

सुपर्ण इति ।

भूत्वेत्यस्यार्थमाह —

पक्षेति ।

ननु चित्योऽग्निरण्डाद्बहिरश्वमेधयाजिनो गृहीत्वा स्वयमेव गच्छतु किमिति तान्वायवे प्रयच्छति तत्राऽऽह —

मूर्तत्वादिति ।

आत्मनश्चित्यस्याग्नेरिति यावत् । तत्रेत्यण्डाद्बाह्यदेशोक्तिः । इति युक्तं वायवे प्रदानमिति शेषः । आख्यायिकासमाप्तावितिशब्दः । परितो दुरितं क्षीयते येन स परिक्षिदश्वमेधस्तद्याजिनः पारिक्षितास्तेषां गतिं वायुमिति संबन्धः ।

मुनिवचने वर्तमाने कथामाख्यायिकासमाप्तिस्तत्राऽऽह —

समाप्तेति ।

वायुप्रशंसायां हेतुमाह —

यस्मादिति ।

किम्पुनर्यथोक्तवायुतत्त्वविज्ञानफलं तदाह —

एवमिति ॥२॥