अज्ञानादिनिग्रहं परिहरन्नुत्तरमाह —
स होवाचेति ।
स्मरणार्थो गन्धर्वाल्लब्धस्य ज्ञानस्येति शेषः ।
किमुवाचेत्यपेक्षायामाह —
अगच्छन्निति ।
अहोरात्रमादित्यरथगत्या यावान्पन्था मितस्तावान्देशो द्वात्रिंशद्गुणितस्तत्किरणव्याप्तः ।
स च चन्द्ररश्मिव्याप्तेन देशेन साकं पृथिवीत्युच्यते । ‘रविचन्द्रमसोर्यावन्मयूखैरवभास्यते । ससमुद्रसरिच्छैला तावती पृथिवी स्मृता’(ब्रह्मपुराणम् २३-३)इति स्मृतेरित्याह —
द्वात्रिंशतमित्यादिना ।
अयं लोक इत्यस्यार्थमाह —
तावदिति ।
तत्र लोकभागं विभजते —
यत्रेति ।
उक्तं लोकमनूद्यावशिष्टस्यालोकत्वमाह —
एतावानिति ।
तमिति प्रतीकमादाय व्याचष्टे —
लोकमित्यादिना ।
अन्वयं दर्शयितुं तं लोकमिति पुनरुक्तिः ।
तत्र पौराणिकसंमतिमाह —
यं घनोदमिति ।
उक्तं हि -
‘अण्डस्यास्य समन्तात्तु संनिविष्टोऽमृतोदधिः ।
समन्ताद्घनतोयेन धार्यमाणः स तिष्ठति ॥’ इति ।
तद्यावतीत्यादेस्तात्पर्यमाह —
तत्रेति ।
लोकादिपरिमाणे यथोक्तरीत्या स्थिते सतीति यावत् ।
कपालविवरस्यानुपयुक्तत्वात्किं तत्परिमाणचिन्तयेत्याशङ्क्याऽऽह —
येनेति ।
व्यवहारभूमिः सप्तम्यर्थः ।
परमात्मानं व्यावर्तयति —
योऽश्वमेध इति ।
सुपर्णशब्दस्य श्येनसादृश्यमाश्रित्य चित्येऽग्नौ प्रवृत्तिं दर्शयति —
यद्विषयमिति ।
उक्तार्थं पदमनुवदति —
सुपर्ण इति ।
भूत्वेत्यस्यार्थमाह —
पक्षेति ।
ननु चित्योऽग्निरण्डाद्बहिरश्वमेधयाजिनो गृहीत्वा स्वयमेव गच्छतु किमिति तान्वायवे प्रयच्छति तत्राऽऽह —
मूर्तत्वादिति ।
आत्मनश्चित्यस्याग्नेरिति यावत् । तत्रेत्यण्डाद्बाह्यदेशोक्तिः । इति युक्तं वायवे प्रदानमिति शेषः । आख्यायिकासमाप्तावितिशब्दः । परितो दुरितं क्षीयते येन स परिक्षिदश्वमेधस्तद्याजिनः पारिक्षितास्तेषां गतिं वायुमिति संबन्धः ।
मुनिवचने वर्तमाने कथामाख्यायिकासमाप्तिस्तत्राऽऽह —
समाप्तेति ।
वायुप्रशंसायां हेतुमाह —
यस्मादिति ।
किम्पुनर्यथोक्तवायुतत्त्वविज्ञानफलं तदाह —
एवमिति ॥२॥