स होवाचोषस्तश्चाक्रायणो यथा विब्रूयादसौ गौरसावश्व इत्येवमेवैतद्व्यपदिष्टं भवति यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरः । न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेः श्रोतारं शृणुया न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं विजानीयाः । एष त आत्मा सर्वान्तरोऽतोऽन्यदार्तं ततो होषस्तश्चाक्रायण उपरराम ॥ २ ॥
स होवाचोषस्तश्चाक्रायणः ; यथा कश्चित् अन्यथा प्रतिज्ञाय पूर्वम् , पुनर्विप्रतिपन्नो ब्रूयादन्यथा — असौ गौः असावश्वः यश्चलति धावतीति वा, पूर्वं प्रत्यक्षं दर्शयामीति प्रतिज्ञाय, पश्चात् चलनादिलिङ्गैर्व्यपदिशति — एवमेव एतद्ब्रह्म प्राणनादिलिङ्गैर्व्यपदिष्टं भवति त्वया ; किं बहुना ? त्यक्त्वा गोतृष्णानिमित्तं व्याजम् , यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः, तं मे व्याचक्ष्वेति । इतर आह — यथा मया प्रथमं प्रतिज्ञातः तव आत्मा — एवँलक्षण इति — तां प्रतिज्ञामनुवर्त एव ; तत् तथैव, यथोक्तं मया । यत्पुनरुक्तम् , तमात्मानं घटादिवत् विषयीकुर्विति — तत् अशक्यत्वान्न क्रियते । कस्मात्पुनः तदशक्यमित्याह — वस्तुस्वाभाव्यात् ; किं पुनः तत् वस्तुस्वाभाव्यम् ? दृष्ट्यादिद्रष्टृत्वम् ; दृष्टेर्द्रष्टा ह्यात्मा ; दृष्टिरिति द्विविधा भवति — लौकिकी पारमार्थिकी चेति ; तत्र लौकिकी चक्षुःसंयुक्तान्तःकरणवृत्तिः ; सा क्रियत इति जायते विनश्यति च ; या तु आत्मनो दृष्टिः अग्न्युष्णप्रकाशादिवत् , सा च द्रष्टुः स्वरूपत्वात् , न जायते न विनश्यति च ; सा क्रियमाणया उपाधिभूतया संसृष्टेवेति, व्यपदिश्यते — द्रष्टेति, भेदवच्च — द्रष्टा दृष्टिरिति च ; यासौ लौकिकी दृष्टिः चक्षुर्द्वारा रूपोपरक्ता जायमानैव नित्यया आत्मदृष्ट्या संसृष्टेव, तत्प्रतिच्छाया — तया व्याप्तैव जायते, तथा विनश्यति च ; तेन उपचर्यते द्रष्टा सदा पश्यन्नपि — पश्यति न पश्यति चेति ; न तु पुनः द्रष्टुर्दृष्टेः कदाचिदप्यन्यथात्वम् ; तथा च वक्ष्यति षष्ठे — ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७), ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २३) इति च । तमिममर्थमाह — लौकिक्या दृष्टेः कर्मभूतायाः, द्रष्टारं स्वकीयया नित्यया दृष्ट्या व्याप्तारम् , न पश्येः ; यासौ लौकिकी दृष्टिः कर्मभूता, सा रूपोपरक्ता रूपाभिव्यञ्जिका न आत्मानं स्वात्मनो व्याप्तारं प्रत्यञ्चं व्याप्नोति ; तस्मात् तं प्रत्यगात्मानं दृष्टेर्द्रष्टारं न पश्येः । तथा श्रुतेः श्रोतारं न शृणुयाः । तथा मतेः मनोवृत्तेः केवलाया व्याप्तारं न मन्वीथाः । तथा विज्ञातेः केवलाया बुद्धिवृत्तेः व्याप्तारं न विजानीयाः । एष वस्तुनः स्वभावः ; अतः नैव दर्शयितुं शक्यते गवादिवत् ॥