न दृष्टेरित्यत्र स्वपक्षमुक्त्वा भर्तृप्रपञ्चपक्षमाह —
न दृष्टेरिति ।
कथमक्षराणामन्यथा व्याख्येत्याशङ्क्य तदिष्टमक्षरार्थमाह —
दृष्टेरिति ।
इति शब्दो व्याचक्षत इत्यनेन संबध्यते ।
एवं व्याकुर्वतामभिप्रायमाह —
दृष्टेरितीति ।
कर्मणि षष्ठीमेव स्फुटयति —
सा दृष्टिरिति ।
षष्ठीं व्याख्याय द्वितीयां व्याचष्टे —
द्रष्टारमितीति ।
पदार्थमुक्त्वा वाक्यार्थमाह —
तेनेति ।
उक्तां परकीयव्याख्यां दूषयति ।
तत्रेति ।
दृष्टिकर्तृत्वविवक्षायां तृजन्तेनैव तत्सिद्धेः षष्ठी निरर्थिकेत्यर्थः ।
कथं पुनर्व्याख्यातारो यथोक्तं दोषं न पश्यन्ति तत्राऽऽह —
पश्यतां वेति ।
षष्ठीनैरर्थक्यं प्रागुक्तमाकाङ्क्षाद्वारा समर्थयते —
कथमित्यादिना ।
कियत्तर्हीहार्थवदित्याशङ्क्याऽऽह —
तदेति ।
तत्र हेतुमाह —
यस्मादिति ।
क्रिया धात्वर्थः । कर्ता प्रत्ययार्थः । तथा चैकेनैव पदेनोभयलाभात्पृथक्क्रियाग्रहणमनर्थकमित्यर्थः ।
दृष्टेरित्यस्यानर्थकत्वं दृष्टान्तेन साधयति —
गन्तारमित्यादिना ।
अर्थवादत्वेन तर्हीदमुपात्तमित्याशङ्क्याऽऽह —
न चेति ।
विधिशेषत्वाभावादस्मदुक्तगत्या चार्थवत्त्वसंभवादित्यर्थः ।
अथ परपक्षे निरर्थकमेवेदं पदं प्रमादात्पठितमिति चेन्नेत्याह —
न चेति ।
सर्वेषां काण्वमाध्यन्दिनानामिति यावत् ।
कथं तर्हीदं पदमनर्थकमिति परेषां प्रतीतिस्तत्राऽऽह —
तस्मादिति ।
कथं पुनर्भवतामपि दृशेर्द्विरुपादानमुपपद्यते तत्राऽऽह —
यथा त्विति ।
प्रदर्शयितव्यपदादुपरिष्टादितिशब्दो द्रष्टव्यः । कर्तृकर्मविशेषणत्वेन साक्षिसाक्ष्यसमर्पकत्वेनेति यावत् ।
तत्समर्पणमिति कुत्रोपयुज्यते तत्राऽऽह —
आत्मेति ।
दृष्ट्यादिसाक्ष्यात्मा न तद्विषय इति तत्स्वरूपनिश्चयार्थं साक्ष्यादिसमर्पणामित्यर्थः ।
आत्मा नित्यदृष्टिस्वभावो न दृश्याया दृष्टेर्विषय इत्येष चेन्न दृष्टेरित्यादिवाक्यस्यार्थस्तदा नहीत्यादिनाऽस्यैकवाक्यत्वं सिध्यति । तस्माद्यथोक्तार्थत्वमेव न दृष्टेरित्यादिवाक्यस्येत्याह —
न हीति ।
आत्मा कूटस्थदृष्टिरित्यत्र तलवकारश्रुतिं संवादयति —
तथा चेति ।
तस्य कूटस्थदृष्टित्वे हेत्वन्तरमाह —
न्यायाच्चेति ।
तमेव न्यायं विशदयति —
एवमेवेति ।
विपक्षे दोषमाह —
विक्रियावच्चेति ।
इतश्चाऽऽत्मनो नास्ति विक्रियावत्त्वमित्याह —
ध्यायतीवेति ।
अन्यथा विक्रियावत्त्वे सतीति यावत् ।
अविक्रियत्वेऽपि श्रुत्यक्षराण्यनुपपन्नानीति शङ्कते —
नन्विति ।
न तेषां विरोधो दृष्टं दृष्ट्यादिकर्तृत्वमनुसृत्य प्रवृत्ते लौकिके वाक्ये तदर्थानुवादित्वादुक्तश्रुत्यक्षराणां स्वार्थे प्रामाण्याभावादिति परिहरति —
नेत्यादिना ।
न दृष्टेरित्यादीन्यपि तर्हि श्रुत्यक्षराणि न स्वार्थे प्रमाणानीत्याशङ्क्याऽऽह ।
न दृष्टेरिति ।
अन्योऽर्थो दृष्ट्यादिकर्ता । यथोक्तोऽर्थो दृष्ट्यादिसाक्षी ।
द्रष्टृपदस्य साक्षिविषयत्वे सिद्धे दृष्टेरिति साक्ष्यसमर्पणात्तदर्थवत्त्वोपपत्तिरित्युपसंहरति —
तस्मादिति ।
पक्षान्तरं निराकृत्य स्वपक्षमुपपाद्यानन्तरं वाक्यं विभजते —
एष इति ।
अन्यदार्तमितिविशेषणसामर्थ्यसिद्धमर्थमाह —
एतदेवेति ॥२॥