बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
बन्धनं सप्रयोजकमुक्तम् । यश्च बद्धः, तस्यापि अस्तित्वमधिगतम् , व्यतिरिक्तत्वं च । तस्य इदानीं बन्धमोक्षसाधनं ससन्न्यासमात्मज्ञानं वक्तव्यमिति कहोलप्रश्न आरभ्यते —
बन्धनं सप्रयोजकमुक्तम् । यश्च बद्धः, तस्यापि अस्तित्वमधिगतम् , व्यतिरिक्तत्वं च । तस्य इदानीं बन्धमोक्षसाधनं ससन्न्यासमात्मज्ञानं वक्तव्यमिति कहोलप्रश्न आरभ्यते —

ब्राह्मणत्रयार्थं संगतिं वक्तुमनुवदति —

बन्धनमिति ।

चतुर्थब्राह्मणार्थं संक्षिपति —

यश्चेति ।

उत्तरब्राह्मणतात्पर्यमाह —

तस्येति ।

उषस्तप्रश्नानन्तर्यमथशब्दार्थः । पूर्ववदित्यभिमुखीकरणार्थं संबोधितवानित्यर्थः ।