प्रश्नयोरवान्तरविशेषप्रदर्शनार्थं परामृशति —
किमुषस्तेति ।
तत्र पूर्वपक्षं गृह्णाति —
भिन्नावितीति ।
उक्तमर्थं व्यतिरेकद्वारा विवृणोति —
यदि हीत्यादिना ।
अथैकं वाक्यं वस्तुपरं तस्यार्थवादो द्वितीयं वाक्यं नेत्याह —
न चेति ।
द्वयोर्वाक्ययोस्तुल्यलक्षणत्वे फलितमाह —
तस्मादिति ।
तत्राऽऽद्यं वाक्यं क्षेत्रज्ञमधिकरोति द्वितीयं परमात्मनमित्यभिप्रेत्याऽऽह —
क्षेत्रज्ञेति ।
ब्राह्मणद्वयेनार्थद्वयं विवक्षिमिति भर्तृप्रपञ्चप्रस्थानं प्रत्याह —
तन्नेति ।
प्रश्नप्रतिवचनयोरेकरूपत्वान्नार्थभेदोऽस्तीत्युक्तमुपपादयति —
एष त इति ।
तथाऽप्यर्थभेदे काऽनुपपत्तिस्तत्राऽऽह —
न चेति ।
तदेवोपपादयति —
एको हीति ।
कार्यकरणसंघातभेदादात्मभेदमाशङ्क्याऽऽह —
न चेति ।
जातितः स्वभावतोऽहमहमित्येकाकारस्फुरणादित्यर्थः ।
इतश्च न तत्त्वभेद इत्याह —
द्वयोरिति ।
तदेव स्फुटयति —
यदीति ।
द्वयोर्मध्ये यद्येकं ब्रह्मागौणं तदेतरेण गौणेनावश्यं भवितव्यं तथाऽऽत्मत्वादि यद्येकस्येष्टं तदेतरस्यानात्मत्वादीति कुतः स्यादिति चेत्तत्राऽऽह —
विरुद्धत्वादिति ।
उक्तोपपादनपूर्वकं द्विःश्रवणस्याभिप्रायमाह —
यदीत्यादिना ।
अनेकमुख्यत्वासंभवाद्वस्तुतः परिच्छिन्नस्य घटवदब्रह्मत्वादनात्मत्वाच्चैकमेव मुख्यं प्रत्यग्भूतं ब्रह्मेत्यर्थः ।
यदि जीवश्वरभेदाभावात्प्रश्नयोर्नार्थभेदस्तर्हि पुनरुक्तिरनर्थिकेत्याशङ्क्याऽऽह —
तस्मादिति ।
तर्हि स एव विशेषो दर्शयितव्यो येन पुनरुक्तिरर्थवतीत्याशङ्क्याऽऽह —
यत्त्विति ।
अनुक्तविशेषकथनार्थमुक्तपरिमाणं निर्णेतुमुक्तानुवादश्चेदनुक्तो विशेषस्तर्हि प्रदर्श्यतामिति पृच्छति —
कः पुनरिति ।
बुभुत्सितं विशेषं दर्शयति —
उच्यत इति ।
इति शब्दः क्रियापदेन संबध्यते ।
किमित्येष विशेषो निर्दिश्यते तत्राऽऽह —
यद्विशेषेति ।
अर्थभेदासंभवे फलितमाह —
तस्मादिति ।
योऽशनायेत्यादिना तु विवक्षितविशेषोक्तिरिति शेषः ।
एकमेवाऽऽत्मतत्त्वमधिकृत्य प्रश्नावित्यत्र चोदयति —
नन्विति ।
विरुद्धधर्मवत्त्वान्मिथो भिन्नौ प्रश्नार्थावित्येतद्दूषयति —
नेति ।
परिहृतत्वमेव प्रकटयति —
नामरूपेति ।
तयोर्विकारः कार्यकरणलक्षणः संघातः स एवोपाधिभेदस्तेन संपर्कस्तस्मिन्नहंममाध्यासस्तेन जनिता भ्रान्तिरहं कर्तेत्याद्या तावन्मात्रं संसारित्वमित्यनेकशो व्युत्पादितं तस्मान्नास्ति वस्तुतो विरुद्धधर्मवत्त्वमित्यर्थः ।
किं च सविशेषत्वनिर्विशेषत्वश्रुत्योर्विषयविभागोक्तिप्रसंगेन संसारित्वस्य मिथ्यात्वं मधुब्राह्मणान्तेऽवोचामेत्याह —
विरुद्धेति ।
कथं तर्हि विरुद्धधर्मवत्वप्रतीतिरित्याशङ्क्याऽऽह —
यथेति ।
परेणपुरुषेणाज्ञानेन वाऽध्यारोपितैः सर्पत्वादिभिर्धर्मैर्विशिष्टा इति यावत् । स्वतश्चाध्यारोपेण विनेत्यर्थः ।
प्रतिभासतो विरुद्धधर्मवत्त्वेऽपि क्षेत्रज्ञेश्वरयोर्भिन्नत्वाद्भिन्नार्थावेव प्रश्नाविति चेन्नेत्याह —
न चैवमिति ।
निरुपाधिकरूपेणासंसारित्वं सोपाधिकरूपेण संसारित्वमित्यविरोध उक्तः । इदानीमुपाध्यभ्युपगमे सद्वयत्वं सतश्चैव घटादेरुपाधित्वदृष्टेरिति शङ्कते —
नामेति ।
सलिलातिरोकेण न सन्ति फेनादयो विकारा नापि मृदाद्यतिरेकेण तद्विकारः शरावादयः सन्तीति दृष्टान्ताख्ययुक्तिबलादाविद्यनामरूपरचितकार्यकरणसंघातस्याविद्यामात्रत्वत्तस्याश्च विद्यया निरासान्नैवमिति परिहरति —
नेत्यादिना ।
कार्यसत्त्वमभ्युपगम्योक्तमिदानीं तदपि निरूप्यमाणे नास्तीत्याह —
यदा त्विति ।
नेह नानाऽस्ति किञ्चनेत्यादिश्रुत्यनुसारिभिर्वस्तुदृष्ट्या निरूप्यमाणे नामरूपे परमात्मतत्त्वादन्यत्वेनानन्यत्वेन वा निरूप्यमाणे तत्त्वतो वस्त्वन्तरे यदा तु न स्त इति संबन्धः ।
मृदादिविकारवदित्युक्तं प्रकटयति —
सलिलेति ।
तदा तत्परमात्मतत्त्वमपेक्ष्येति योजनीयम् ।
कदा तर्हि लौकिको व्यवहारस्तत्राऽऽह —
यदा त्विति ।
अविद्यया स्वाभाविक्या ब्रह्म यदोपाधिभ्यो विवेकेन नावधार्यते सदा लौकिको व्यवहारश्चेत्तार्हि विवेकिनां नासौ स्यादित्याशङ्क्याऽऽह —
अस्ति चेति ।
भेदभानप्रयुक्तो व्यवहारो विवेकिनामविवेकिनां च तुल्य एवायं वस्त्वन्तरास्तित्वाभिनिवेशस्तु विवेकिनां नास्तीति विशेषः ।
ननु यथाप्रतिभासं वस्त्वन्तरं पारमार्थिकमेव किं न स्यात्तत्राऽऽह —
परमार्थेति ।
किं द्वितीयं वस्तु तत्त्वतोऽस्ति किं वा नास्तीति वस्तुनि निरूप्यमाणे सति श्रुत्यनुसारेण तत्त्वदर्शिभिरेकमेवाद्वितीयं ब्रह्माव्यवहार्यमिति निर्धार्यते तेन व्यवहारदृष्ट्याश्रयणेन भेदकृतो मिथ्याव्यवहारस्तत्त्वदृष्ट्याश्रयणेन च तदभावविषयः शास्त्रीयो व्यवहार इत्युभयविधव्यवहारसिद्धिरित्यर्थः ।
तत्र शास्त्रीयव्यवहारोपपत्तिं प्रपञ्चयति —
न हीति ।
तथा च विद्यावस्थायां शास्त्रीयोऽभेदव्यवहारस्तदितरव्यवहारस्त्वाभासमात्रमिति शेषः ।
अविद्यावस्थायां लौकिकव्यवहारोपपत्तिंविवृणोति —
न च नामेति ।
उभयविधव्यवहारोपपत्तिमुपसंहरति —
तस्मादिति ।
उक्तरीत्या व्यवहारद्वयोपपत्तौ फलितमाह —
अत इति ।
प्रत्यक्षादिषु वेदान्तेषु चेति शेषः ।
ज्ञानाज्ञाने पुरस्कृत्य व्यवहारः शास्त्रीयो लौकिकश्चेति नास्माभिरेवोच्यते किन्तु सर्वेषामपि परीक्षकाणामेतत्संमतं संसारदशायां क्रियाकारकव्यवहारस्य मोक्षावस्थायां च तदभावस्येष्टत्वादित्याह —
सर्ववादिनामिति ।