बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथ हैनं कहोलः कौषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाच यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति । एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः । तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एवातोऽन्यदार्तं ततो ह कहोलः कौषीतकेय उपरराम ॥ १ ॥
तत्र परमार्थात्मस्वरूपमपेक्ष्य प्रश्नः पुनः — कतमो याज्ञवल्क्य सर्वान्तर इति । प्रत्याह इतरः — योऽशनायापिपासे, अशितुमिच्छा अशनाया, पातुमिच्छा पिपासा ; ते अशनायापिपासे योऽत्येतीति वक्ष्यमाणेन सम्बन्धः । अविवेकिभिः तलमलवदिव गगनं गम्यमानमेव तलमले अत्येति — परमार्थतः — ताभ्यामसंसृष्टस्वभावत्वात् — तथा मूढैः अशनायापिपासादिमद्ब्रह्म गम्यमानमपि — क्षुधितोऽहं पिपासितोऽहमिति, ते अत्येत्येव — परमार्थतः — ताभ्यामसंसृष्टस्वभावत्वात् ; ‘न लिप्यते लोकदुःखेन बाह्यः’ (क. उ. २ । २ । ११) इति श्रुतेः — अविद्वल्लोकाध्यारोपितदुःखेनेत्यर्थः । प्राणैकधर्मत्वात् समासकरणमशनायापिपासयोः । शोकं मोहम् — शोक इति कामः ; इष्टं वस्तु उद्दिश्य चिन्तयतो यत् अरमणम् , तत् तृष्णाभिभूतस्य कामबीजम् ; तेन हि कामो दीप्यते ; मोहस्तु विपरीतप्रत्ययप्रभवोऽविवेकः भ्रमः ; स च अविद्या सर्वस्यानर्थस्य प्रसवबीजम् ; भिन्नकार्यत्वात्तयोः शोकमोहयोः असमासकरणम् । तौ मनोऽधिकरणौ ; तथा शरीराधिकरणौ जरां मृत्युं च अत्येति ; जरेति कार्यकरणसङ्घातविपरिणामः वलीपलितादिलिङ्गः ; मृत्युरिति तद्विच्छेदः विपरिणामावसानः ; तौ जरामृत्यू शरीराधिकरणौ अत्येति । ये ते अशनायादयः प्राणमनःशरीराधिकरणाः प्राणिषु अनवरतं वर्तमानाः अहोरात्रादिवत् समुद्रोर्मिवच्च प्राणिषु संसार इत्युच्यन्ते ; योऽसौ दृष्टेर्द्रष्टेत्यादिलक्षणः साक्षादव्यवहितः अपरोक्षादगौणः सर्वान्तर आत्मा ब्रह्मादिस्तम्बपर्यन्तानां भूतानाम् अशनायापिपासादिभिः संसारधर्मैः सदा न स्पृश्यते — आकाश इव घनादिमलैः — तम् एतं वै आत्मानं स्वं तत्त्वम् , विदित्वा ज्ञात्वा — अयमहमस्मि परं ब्रह्म सदा सर्वसंसारविनिर्मुक्तं नित्यतृप्तमिति, ब्राह्मणाः — ब्राह्मणानामेवाधिकारो व्युत्थाने, अतो ब्राह्मणग्रहणम् — व्युत्थाय वैपरीत्येनोत्थानं कृत्वा ; कुत इत्याह — पुत्रैषणायाः पुत्रार्थैषणा पुत्रैषणा — पुत्रेणेमं लोकं जयेयमिति लोकजयसाधनं पुत्रं प्रति इच्छा एषणा दारसङ्ग्रहः ; दारसङ्ग्रहमकृत्वेत्यर्थः ; वित्तैषणायाश्च — कर्मसाधनस्य गवादेरुपादानम् — अनेन कर्मकृत्वा पितृलोकं जेष्यामीति, विद्यासंयुक्तेन वा देवलोकम् , केवलया वा हिरण्यगर्भविद्यया दैवेन वित्तेन देवलोकम् । दैवाद्वित्तात् व्युत्थानमेव नास्तीति केचित् , यस्मात् तद्बलेन हि किल व्युत्थानमिति — तदसत् , ‘एतावान्वै कामः’ (बृ. उ. १ । ४ । १७) इति पठितत्वात् एषणामध्ये दैवस्य वित्तस्य ; हिरण्यगर्भादिदेवताविषयैव विद्या वित्तमित्युच्यते, देवलोकहेतुत्वात् ; नहि निरुपाधिकप्रज्ञानघनविषया ब्रह्मविद्या देवलोकप्राप्तिहेतुः, ‘तस्मात्तत्सर्वमभवत्’ (बृ. उ. १ । ४ । १०) ‘आत्मा ह्येषां स भवति’ (बृ. उ. १ । ४ । १) इति श्रुतेः ; तद्बलेन हि व्युत्थानम् , ‘एतं वै तमात्मानं विदित्वा’ (बृ. उ. ३ । ५ । १) इति विशेषवचनात् । तस्मात् त्रिभ्योऽप्येतेभ्यः अनात्मलोकप्राप्तिसाधनेभ्यः एषणाविषयेभ्यो व्युत्थाय — एषणा कामः, ‘एतावान्वै कामः’ (बृ. उ. १ । ४ । १७) इति श्रुतेः — एतस्मिन् विविधे अनात्मलोकप्राप्तिसाधने तृष्णामकृत्वेत्यर्थः । सर्वा हि साधनेच्छा फलेच्छैव, अतो व्याचष्टे श्रुतिः — एकैव एषणेति ; कथम् ? या ह्येव पुत्रैषणा सा वित्तैषणा, दृष्टफलसाधनत्वतुल्यत्वात् ; या वित्तैषणा सा लोकैषणा ; फलार्थैव सा ; सर्वः फलार्थप्रयुक्त एव हि सर्वं साधनमुपादत्ते ; अत एकैव एषणा या लोकैषणा सा साधनमन्तरेण सम्पादयितुं न शक्यत इति, साध्यसाधनभेदेन उभे हि यस्मात् एते एषणे एव भवतः । तस्मात् ब्रह्मविदो नास्ति कर्म कर्मसाधनं वा — अतो येऽतिक्रान्ता ब्राह्मणाः, सर्वं कर्म कर्मसाधनं च सर्वं देवपितृमानुषनिमित्तं यज्ञोपवीतादि — तेन हि दैवं पित्र्यं मानुषं च कर्म क्रियते, ‘निवीतं मनुष्याणाम्’ (तै. सं. २ । ५ । ११ । १) इत्यादिश्रुतेः । तस्मात् पूर्वे ब्राह्मणाः ब्रह्मविदः व्युत्थाय कर्मभ्यः कर्मसाधनेभ्यश्च यज्ञोपवीतादिभ्यः, परमहंसपारिव्राज्यं प्रतिपद्य, भिक्षाचर्यं चरन्ति — भिक्षार्थं चरणं भिक्षाचर्यम् , चरन्ति — त्यक्त्वा स्मार्तं लिङ्गं केवलमाश्रममात्रशरणानां जीवनसाधनं पारिव्राज्यव्यञ्जकम् ; विद्वान् लिङ्गवर्जितः — ‘तस्मादलिङ्गो धर्मज्ञोऽव्यक्तलिङ्गोऽव्यक्ताचारः’ (अश्व. ४६ । ५१) (व. १० । १२) इत्यादिस्मृतिभ्यः, ‘अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः’ (जा. उ. ५) इत्यादिश्रुतेः, ‘सशिखान्केशान्निकृत्य विसृज्य यज्ञोपवीतम्’ (क. रु. १) इति च ॥

निरुपाधिके परस्मिन्नात्मनि चिद्धातावनाद्यविद्याकल्पितोपाधिकृतमशनायादिमत्त्वं वस्तुतस्तु तद्राहित्यमित्युपपाद्यानन्तरप्रश्नमुत्थाप्य प्रतिवक्ति —

तत्रेत्यादिना ।

कल्पिताकल्पितयोरात्मरूपयोर्निर्धारणार्था सप्तमी । योऽत्येति स सर्वान्तरत्वादिविशेषणस्तवाऽऽत्मेति शेषः ।

ननु परो नाशनायादिमानप्रसिद्धेर्नापि जीवस्तथा तस्य परस्मादव्यतिरेकादत आह —

अविवेकिभिरिति ।

परमार्थत इत्युभयतः संबध्यते । ब्रह्मैवाखण्डं सच्चिदानन्दमनाद्यविद्यातत्कार्यबुद्ध्यादिसंबद्धमाभासद्वारा स्वानुभवादशनायादिमद्गम्यते तत्त्वं वस्तुतोऽविद्यासंबन्धादशनायाद्यतीतं नित्यमुक्तं तिष्ठतीत्यर्थः । अशनायापिपासादिमद्ब्रह्म । गम्यमानमिति वदन्नाचार्यो नानाजीववादस्यानिष्टत्वं सूचयति ।

परमार्थतो ब्रह्मण्यशनायाद्यसंबन्धे मानमाह —

न लिप्यत इति ।

बाह्यत्वमसंगत्वम् ।

लोकदुःखेनेत्ययुक्तं लोकस्यानात्मनो दुःखसंबन्धानभ्युपगमादित्याशङ्क्याऽऽह —

अविद्वदिति

अशनायापिपासयोः समस्योपादाने हेतुमाह —

प्राणेति ।

अरतिवाची शोकशब्दो न कामविषय इत्याशङ्क्याऽऽह —

इष्टमिति ।

कामबीजत्वमरतेरनुभवेनाभिव्यनक्ति —

तेन हति ।

कामस्य शोको बीजमिति स कामतया व्याख्यातः ।

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर्विपरीतप्रत्ययस्तस्मान्मनसि प्रभवति कर्तव्याकर्तव्याविवेकः स लौकिकः सम्यग्ज्ञानविरोधाद्भ्रमोऽविद्येत्युच्यते । तस्याः सर्वानर्थोत्पत्तौ निमित्तत्वं मूलाविद्यायास्तूपादानत्वं तदेतदाह —

मोहस्त्विति ।

कामस्य शोको मोहो दुःखस्य हेतुरिति भिन्नकार्यत्वं तद्विच्छेद इत्यत्र कार्यकरणसंघातस्तच्छब्दार्थः ।

संसाराद्विरक्तस्य पारिव्राज्यं वक्तुमुत्तरं वाक्यमित्यभिप्रेत्य संक्षेपतः संसारस्वरूपमाह —

ये त इत्यादिना ।

तेषामात्मधर्मत्वं व्यावर्तयितुं विशिनाष्टि —

प्राणेति ।

तेषां स्वरसतो विच्छेदशङ्कां वारयति —

प्राणिष्विति ।

प्रवाहरूपेण नैरन्तर्ये दृष्टान्तमाह —

अहोरात्रादिवदिति ।

तेषामतिचपलत्वे दृष्टान्तः —

समुद्रोर्मिवदिति ।

तेषां हेयत्वं द्योतयति —

प्राणिष्विति ।

ये यथोक्ताः प्राणिष्वशनायादयस्ते तेषु संसार इत्युच्यत इति योजना ।

एतं वै तमित्यत्रैतच्छब्दार्थमुषस्तप्रश्नोक्तं त्वम्पदार्थं कथयति —

योऽसाविति ।

तच्छब्दार्थं कहोलप्रश्नोक्तं तत्पदार्थं दर्शयति —

अशनायेति ।

तयोरैक्यं सामानाधिकरण्येन सूचितमित्याह —

तमेतमिति ।

ज्ञानमेव विशदयति —

अयमित्यादिना ।

ज्ञात्वा ब्राह्मणा व्युत्थाय भिक्षाचर्यं चरन्तीति संबन्धः ।

संन्यासविधायके वाक्ये किमित्यधिकारिणि ब्राह्मणपदं तत्राऽऽह —

ब्राह्मणानामिति ।

पुत्रार्थामेषणामेव विवृणोति —

पुत्रेणेति ।

ततो व्युत्थानं संगृह्णाति —

दारसंग्रहमिति ।

वित्तैषणायाश्च व्युत्थानं कर्तव्यमित्याह —

वित्तेति ।

वित्तं द्विविधं मानुषं दैवं च । मानुषं गवादि तस्य कर्मसाधनस्योपादानमुपार्जनं तेन कर्म कृत्वा केवलेन कर्मणा पितृलोकं जेष्यामि । दैवं वित्तं विद्या तत्संयुक्तेन कर्मणा देवलोकं केवलया च विद्यया तमेव जेष्यामीतीच्छा वित्तैषणा ततश्च व्युत्थानं कर्तव्यमिति व्याचष्टे —

कर्मसाधनस्येति ।

एतेन लोकैषणायाश्च व्युत्थानमुक्तं वेदितव्यम् ।

दैवाद्वित्ताद्व्युत्थानमाक्षिपति —

दैवादिति ।

तस्यापि कामत्वात्ततो व्युत्थातव्यमिति परिहरति —

तदसदिति ।

तर्हि ब्रह्मविद्यायाः सकाशादपि व्युत्थानात्तन्मूलध्वंसे तद्व्याघातः स्यादित्याशङ्क्याऽऽह —

हिरण्यगर्भादीति ।

देवतोपासनाया वित्तशब्दितविद्यात्वे हेतुमाह —

देवलोकेति ।

तत्प्राप्तिहेतुत्वं ब्रह्मविद्यायामपि तुल्यमिति चेन्नेत्याह —

न हीति ।

तत्र फलान्तरश्रवणं हेतूकरोति —

तस्मादिति ।

इतश्च ब्रह्मविद्या दैवाद्वित्ताद्बहिरेवेत्याह —

तद्बलेनेति ।

प्रागेव वेदनं सिद्धं चेत्किं पुनर्व्युत्थानेनेत्याशङ्क्य प्रयोजकज्ञानं तत्प्रयोजकमुद्देश्यं तु तत्त्वसाक्षात्करणमिति विवक्षित्वाऽऽह —

तस्मादिति ।

प्रयोजकज्ञानं पञ्चम्यर्थः । व्युत्थाय भिक्षाचर्यं चरन्तीति संबन्धः ।

व्युत्थानस्वरूपप्रदर्शनार्थमेषणास्वरूपमाह —

एषणेति ।

किमेतावतेत्याशङ्क्य व्युत्थानस्वरूपमाह —

एतस्मिन्निति ।

संबन्धस्तु पूर्ववत् ।

या ह्येवेत्यादिश्रुतेस्तात्पर्यमाह —

सर्वा हीति ।

फलं नेच्छाति साधनं च चिकीर्षतीति व्याघातात्फलेच्छान्तर्भूतैव साधनेच्छा तद्युक्तमेषणैक्यमित्यर्थः ।

श्रुतेस्तदैक्यव्युत्पादकत्वं प्रश्नपूर्वकं व्युत्पादयति —

कथमित्यादिना ।

फलैषणान्तर्भावं साधनैषणायाः समर्थयते —

सर्व इति ।

उभे हीत्यादिश्रुतिमवतार्य व्याचष्टे —

या लोकैषणेति ।

प्रयोजकज्ञानवतः साध्यसाधनरूपात्संसाराद्विरक्तस्य कर्मतत्साधनयोरसंभवे साक्षात्कारमुद्दिश्य फलितं संन्यासं दर्शयति —

अत इति ।

अतिक्रान्ता ब्राह्मणाः किं प्रजयेत्यादिप्रकाशितास्तेषां कर्म कर्मसाधनं च यज्ञोपवीतादि नास्तीति पूर्वेण संबन्धः ।

देवपितृमानुषनिमित्तमिति विशेषणं विशदयति —

तेन हीति ।

प्राचीनावीतं पितॄणामुपवीतं देवानामित्यादिशब्दार्थः ।

यस्मात्पूर्वे विचारप्रयोजकज्ञानवन्तो ब्राह्मणा विरक्ताः संन्यस्य तत्प्रयुक्तं धर्ममन्वतिष्ठंस्तस्मादधुनातनोऽपि प्रयोजकज्ञानी विरक्तो ब्राह्मणस्तथा कुर्यादित्याह —

तस्मादिति ।

‘त्रिदण्डेन यतिश्चैव’ इत्यादिस्मृतेर्न परमहंसपारिव्राज्यमत्र विवक्षितमित्याशङ्क्याऽऽह —

त्यक्त्वेति ।

तस्य दृष्टार्थत्वान्मुमुक्षुभिस्त्याज्यत्वं सूचयति —

केवलमिति ।

अमुख्यत्वाच्च तस्य त्याज्यतेत्याह —

परिव्राज्येति ।

तथाऽपि त्वदिष्टः संन्यासो न स्मृतिकारैर्निबद्ध इति चेन्नेत्याह —

विद्वानिति ।

प्रत्यक्षश्रुतिविरोधाच्च स्मार्तसंन्यासो मुख्यो न भवतीत्याह —

अथेति ।