अथ हैनं कहोलः कौषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाच यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति । एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः । तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एवातोऽन्यदार्तं ततो ह कहोलः कौषीतकेय उपरराम ॥ १ ॥
ननु ‘व्युत्थायाथ भिक्षाचर्यं चरन्ति’ इति वर्तमानापदेशात् अर्थवादोऽयम् ; न विधायकः प्रत्ययः कश्चिच्छ्रूयते लिङ्लोट्तव्यानामन्यतमोऽपि ; तस्मात् अर्थवादमात्रेण श्रुतिस्मृतिविहितानां यज्ञोपवीतादीनां साधनानां न शक्यते परित्यागः कारयितुम् ; ‘यज्ञोपवीत्येवाधीयीत याजयेद्यजेत वा’ (तै. आ. २ । १ । १) । पारिव्राज्ये तावदध्ययनं विहितम् — ‘वेदसन्न्यसनाच्छूद्रस्तस्माद्वेदं न सन्न्यसेत्’ इति ; ‘स्वाध्याय एवोत्सृज्यमानो वाचम्’ (आ. ध. २ । २१ । १०) इति च आपस्तम्बः ; ‘ब्रह्मोज्झं वेदनिन्दा च कौटसाक्ष्यं सुहृद्वधः । गर्हितान्नाद्ययोर्जग्धिः सुरापानसमानि षट्’ (मनु. ११ । ५६) — इति वेदपरित्यागे दोषश्रवणात् । ‘उपासने गुरूणां वृद्धानामतिथीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीती स्यात्’ (आ. ध. १ । १५ । १) इति परिव्राजकधर्मेषु च गुरूपासनस्वाध्याय भोजनाचमनादीनां कर्मणां श्रुतिस्मृतिषु कर्तव्यतया चोदितत्वात् गुर्वाद्युपासनाङ्गत्वेन यज्ञोपवीतस्य विहितत्वात् तत्परित्यागो नैवावगन्तुं शक्यते । यद्यपि एषणाभ्यो व्युत्थानं विधीयत एव, तथापि पुत्राद्येषणाभ्यस्तिसृभ्य एव व्युत्थानम् , न तु सर्वस्मात्कर्मणः कर्मसाधनाच्च व्युत्थानम् ; सर्वपरित्यागे च अश्रुतं कृतं स्यात् , श्रुतं च यज्ञोपवीतादि हापितं स्यात् ; तथा च महानपराधः विहिताकरणप्रतिषिद्धाचरणनिमित्तः कृतः स्यात् ; तस्मात् यज्ञोपवीतादिलिङ्गपरित्यागोऽन्धपरम्परैव ॥