नेयमन्धपरम्परेति परिहरति —
नेत्यादिना ।
ब्रह्मचर्यादेव प्रव्रजेदित्यादिविध्युपलम्भेऽति प्रौढवादेनाऽऽत्मज्ञानविधिबलादेव संन्यासं साधयितुमात्मज्ञानपरत्वं तावदुपनिषदामुपन्यस्यति —
अपि चेति ।
इतश्चास्ति संन्यासे विधिरिति यावत् । तद्द्विधिबलादेव संन्याससिद्धिरिति शेषः ।
कथं सर्वोपनिषदात्मज्ञानपरेष्यते कर्तृस्तुतिद्वारा कर्मविधिशेषत्वेनार्थवादत्वादित्याशङ्क्याऽऽह —
आत्मेत्यादिना ।
अस्तु यथोक्तं वस्तु विज्ञेयं तथाऽपि प्रस्तुते किं जातं तदाह —
सर्वा हीति ।
ननु तस्य कर्तव्यत्वेऽपि कथं कर्मतत्साधनत्यागसिद्धिरत आह —
आत्मा चेति ।
विपक्षे दोषमाह —
अत इति ।
साधनफलान्तर्भूतत्वेनाऽऽत्मनो ज्ञानमविद्येत्यत्र प्रमाणमाह —
अन्योऽसावित्यादिना ।
क्रियाकारकफलविलक्षणस्याऽऽत्मनो ज्ञानं कर्तव्यं तत्सामर्थ्यात्साध्यसाधनत्यागः सिध्यतीत्युक्तं संप्रत्यविद्याविषयत्वाच्च साध्यसाधनयोर्विद्यावतां त्याज्यतेत्याह —
क्रियेति ।
तस्याविद्याविषयत्वे श्रुतीरुदाहरति —
यत्रेति ।
अविद्याविषयत्वेऽपि साधनादि विद्यावत एव भविष्यति विद्याविद्ययोरस्मदादिषु साहित्योपलम्भादित्याशङ्क्याऽऽह —
न चेति ।
विद्याविद्ययोः साहित्यासंभवे फलितमाह —
तस्मादिति ।
इतश्च प्रयोजकज्ञानवता साध्यसाधनभेदो न द्रष्टव्यो विवक्षिततत्त्वसाक्षात्कारविरोधित्वादित्याह —
सर्वेति ।
भवत्वविद्याविषयाणां विद्यावतस्त्यागस्तथाऽपि कुतो यज्ञोपवीतादीनां त्यागस्तत्राऽऽह —
यज्ञोपवीतादीति ।
तद्विषयत्वादित्यत्र तच्छब्दोऽविद्याविषयः ।
एषणात्वाच्च यज्ञोपवीतादीनां त्याज्यतेत्याह —
तस्मादिति ।
ज्ञेयत्वेन प्रस्तुतादिति यावत् ।
साध्यसाधनविषया तदात्मिकैषणा त्याज्येत्यत्र हेतुमाह —
विलक्षणेति ।
पुरुषार्थरूपाद्विपरीता सा हेयेत्यर्थः ।
साध्यसाधनयोरेषणात्वं साधयति ।
उभे हीति ।
तथाऽपि यज्ञोपवीतादीनां कर्माणां च कथमेषणात्वमित्याशङ्क्य साधनान्तर्भावादित्याह —
यज्ञोपवीतादेरिति ।
तयोरेषणात्वं कथं प्रतिज्ञामात्रेण सेत्स्यतीत्याशङ्क्याऽऽह —
उभे हीति ।
तयोरेषणात्वे सिद्धे फलितमाह —
यज्ञोपवीतादीति ।
आत्मज्ञानविधिरेव संन्यासविधिरित्युक्तत्वाद्व्युत्थायेत्यस्य नास्ति विधित्वमिति शङ्कते —
नन्विति ।
व्युत्थाय विदित्वेति पाठक्रममतिक्रम्य व्याख्याने भवत्येवायं विविदिषोर्विधिरिति परिहरति —
न विधित्सितेति ।
पाठक्रमेऽपि प्रयोजकज्ञानवतो विरक्तस्य भवत्येवायं विधिरित्यभिप्रेत्याऽऽह —
न हीति ।
उक्तमेवान्वयमुखेनोदाहरणद्वारा विवृणोति —
कर्तव्यानामिति ।
अभिषुत्य सोमस्य कण्डनं कृत्वा रसमादायेत्यर्थः ।
पाठक्रममेवाऽऽश्रित्य शङ्कते —
अविद्येति ।
प्रयोजकज्ञानवतो विरक्तस्याऽऽत्मज्ञानविधिसामर्थ्यलब्धस्य यज्ञोपवीतादित्यागस्य कर्तव्यात्मज्ञानेन समानकर्तृकत्वश्रवणादतिशयेनाऽऽवश्यकत्वसिद्धिरित्युत्तरमाह —
न सुतरामिति ।
व्युत्थाने दर्शितं न्यायं भिक्षाचर्येऽप्यतिदिशति —
तथेति ।
भिक्षाचर्यस्य चाऽऽत्मज्ञानविधिनैकवाक्यस्य तथैव दार्ढ्योपपत्तिरिति संबन्धः ।
व्युत्थानादिवाक्यस्यार्थवादत्वमुक्तमनूद्य दूषयति —
यत्पुनरित्यादिना ।
औदुम्बरो यूपो भवतीत्यादौ लेट्परिग्रहेण विधिस्वीकारवदत्रापि पञ्चमलकारेण विधिसिद्धेर्नार्थवादत्वशङ्केत्यर्थः ।