बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथ हैनं कहोलः कौषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाच यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति । एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः । तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एवातोऽन्यदार्तं ततो ह कहोलः कौषीतकेय उपरराम ॥ १ ॥
‘व्युत्थाय भिक्षाचर्यं चरन्ति’ इत्यनेन पारिव्राज्यं विधीयते ; पारिव्राज्याश्रमे च यज्ञोपवीतादिसाधनानि विहितानि लिङ्गं च श्रुतिभिः स्मृतिभिश्च ; अतः तत् वर्जयित्वा अन्यस्माद्व्युत्थानम् एषणात्वेऽपीति चेत् — न, विज्ञानसमानकर्तृकात्पारिव्राज्यात् एषणाव्युत्थानलक्षणात् पारिव्राज्यान्तरोपपत्तेः ; यद्धि तत् एषणाभ्यो व्युत्थानलक्षणं पारिव्राज्यम् , तत् आत्मज्ञानाङ्गम् , आत्मज्ञानविरोध्येषणापरित्यागरूपत्वात् , अविद्याविषयत्वाच्चैषणायाः ; तद्व्यतिरेकेण च अस्ति आश्रमरूपं पारिव्राज्यं ब्रह्मलोकादिफलप्राप्तिसाधनम् , यद्विषयं यज्ञोपवीतादिसाधनविधानं लिङ्गविधानं च । न च एषणारूपसाधनोपादानस्य आश्रमधर्ममात्रेण पारिव्राज्यान्तरे विषये सम्भवति सति, सर्वोपनिषद्विहितस्य आत्मज्ञानस्य बाधनं युक्तम् , यज्ञोपवीताद्यविद्याविषयैषणारूपसाधनोपादित्सायां च अवश्यम् असाधनफलरूपस्य अशनायादिसंसारधर्मवर्जितस्य अहं ब्रह्मास्मीति विज्ञानं बाध्यते । न च तद्बाधनं युक्तम् , सर्वोपनिषदां तदर्थपरत्वात् । ‘भिक्षाचर्यं चरन्ति’ इत्येषणां ग्राहयन्ती श्रुतिः स्वयमेव बाधत इति चेत् — अथापि स्यादेषणाभ्यो व्युत्थानं विधाय पुनरेषणैकदेशं भिक्षाचर्यं ग्राहयन्ती तत्सम्बद्धमन्यदपि ग्राहयतीति चेत् — न, भिक्षाचर्यस्याप्रयोजकत्वात् — हुत्वोत्तरकालभक्षणवत् ; शेषप्रतिपत्तिकर्मत्वात् अप्रयोजकं हि तत् ; असंस्कारकत्वाच्च — भक्षणं पुरुषसंस्कारकमपि स्यात् , न तु भिक्षाचर्यम् ; नियमादृष्टस्यापि ब्रह्मविदः अनिष्टत्वात् । नियमादृष्टस्यानिष्टत्वे किं भिक्षाचर्येणेति चेत् — न, अन्यसाधनात् व्युत्थानस्य विहितत्वात् । तथापि किं तेनेति चेत् — यदि स्यात् , बाढम् अभ्युपगम्यते हि तत् । यानि पारिव्राज्येऽभिहितानि वचनानि ‘यज्ञोपवीत्येवाधीयीत’ (तै. आ. २ । १ । १) इत्यादीनि, तानि अविद्वत्पारिव्राज्यमात्रविषयाणीति परिहृतानि ; इतरथात्मज्ञानबाधः स्यादिति ह्युक्तम् ; ‘निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् । अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः’ (मो. ध. २६३ । ३४) इति सर्वकर्माभावं दर्शयति स्मृतिः विदुषः — ‘विद्वांल्लिङ्गविवर्जितः’ ( ? ), ‘तस्मादलिङ्गो धर्मज्ञः’ (अश्व. ४६ । ५१) इति च । तस्मात् परमहंसपारिव्राज्यमेव व्युत्थानलक्षणं प्रतिपद्येत आत्मवित् सर्वकर्मसाधनपरित्यागरूपमिति ॥

संप्रति प्रकृते वाक्ये पारिव्राज्यविधिमङ्गीकृत्य स्वयूथ्यः शङ्कते —

व्युत्थायेति ।

का तर्हि विप्रतिपत्तिस्तत्राऽऽह —

पारिव्राज्येति ।

लिङ्गं त्रिदण्डत्वादि । ‘पुराणे यज्ञोपवीते विसृज्य नवमुपादायाऽऽश्रमं प्रविशेत्’ ‘त्रिदण्डी कमण्डलुमान्’ इत्याद्याः श्रुतयः स्मृतयश्च ।

एषणात्वाद्यज्ञोपवीतादीनामपि त्याज्यत्वमुक्तमित्याशङ्क्य श्रुतिस्मृतिवशाद्व्युत्थाने संकोचमभिप्रेत्याऽऽह —

अत इति ।

उदाहृतश्रुतिस्मृतीनां विषयान्तरं दर्शयन्नुत्तरमाह —

नेत्यादिना ।

तदेव विवृणोति —

यद्धीत्यादिना ।

तस्याऽऽत्मज्ञानाङ्गत्वे हेतुमाह —

आत्मज्ञानेति ।

एषणायास्तद्विरोधित्वमेव कुतस्सिद्धं तत्राऽऽह —

अविद्येति ।

तर्हि यथोक्तानां श्रुतिस्मृतीनां किमालम्बनं तदाह —

तद्व्यतिरेकेणेति ।

आश्रमत्वेन रूप्यते वस्तुतस्तु नाऽऽश्रमस्तदाभास इति यावत् ।

तस्याऽऽत्मज्ञानाङ्गत्वं वारयति —

ब्रह्मेति ।

अथ व्युत्थानवाक्योक्तमुख्यपारिव्राज्यविषयत्वमेव लिङ्गादिविधानस्य किं न स्यात्तत्राऽऽह —

न चेति ।

एषणारूपाणि साधनानि यज्ञोपवीतादीनि तेषामुपादानमनुष्ठानं तस्याऽऽश्रमधर्ममात्रेणोक्तस्य यथोक्ते संन्यासाभासे विषये सति प्रधानबाधेन मुख्यपारिव्राज्यविषयत्वमयुक्तमित्यर्थः ।

कथं पुनर्मुख्यपारिव्राज्यविषयत्वे यज्ञोपवीतादेरिष्टे प्रधानबाधनं तदाह —

यज्ञोपवीतादीति ।

साध्यसाधनयोरासंगे तद्विलक्षणस्याऽऽत्मनो ज्ञानं बाध्यते चेत्का नो हानिरित्याशङ्क्याऽऽह —

न चेति ।

भिक्षाचर्यं तावद्विहितं विहितानुष्ठानं च यज्ञोपवीतादि विना न संभवतीति श्रुत्यैवाऽऽत्मज्ञानं यज्ञोपवीतादिविरोधि बाधितमिति शङ्कते —

भिक्षाचर्यमिति ।

शङ्कामेव विशदयति —

अथापीत्यादिना ।

यथा हुतशेषस्य भक्षणं विहितमपि न द्रव्याक्षेपकं परिशिष्टद्रव्योपादानेन प्रवृत्तेस्तथा सर्वस्वत्यागे विहिते परिशिष्टभिक्षोपादानेन विहितमपि भिक्षाचरणमुपवीताद्यनाक्षेपकमित्युत्तरमाह —

नेत्यादिना ।

दृष्टान्तमेव स्पष्टयति —

शेषेति ।

तद्भक्षणमिति संबन्धः । अप्रयोजकं द्रव्यविशेषस्यानाक्षेपकमिति यावत्।

यद्वा दार्ष्टान्तिकमेव स्फुटयति —

शेषेति ।

सर्वस्वत्यागे विहिते शेषस्य कालस्य शरीरपातान्तस्य प्रतिपत्तिकर्ममात्रं भिक्षाचर्यमतो न तदुपवीतादिप्रापकमित्यर्थः ।

किञ्च भिक्षाचर्यस्य शरीरस्थित्यैवाऽऽक्षिप्तत्वान्न तत्राऽपि विधिर्दूरे तद्वशादुपवीतादिसिद्धिरित्याह —

असंस्कारकत्वाच्चेति ।

तदेव स्फुट्यते —

भक्षणमिति ।

‘एककालं चरेद्भैक्षम्’(म.स्मृ. ६। ५५) इत्यादिनियमवशाददृष्टं सिध्यदुपवीतादिकमप्याक्षिपतीति चेन्नेत्याह —

नियमेति ।

विविदिषोस्तदिष्टमपि नोपवीताद्याक्षेपकं ज्ञानोत्पादकश्रवणाद्युपयोगिदेहस्थित्यर्थत्वेनैव चरितार्थत्वादिति भावः ।

तर्हि यथाकथञ्चिदुपनतेनान्नेन शरीरस्थितिसंभवाद्भिक्षाचर्यं चरन्तीति वाक्यं व्यर्थमिति शङ्कते —

नियमादृष्टस्येति ।

भिक्षाचर्यानुवादेन प्रतिग्रहादिनिवृत्त्यर्थत्वाद्वाकस्य नाऽऽनर्थक्यमित्युत्तरमाह —

नान्येति ।

निवृत्त्युपदेशेन वाक्यस्यार्थवत्त्वेऽपि तदुपदेशस्य नार्थवत्त्वं कूटस्थात्मज्ञानेनैव सर्वनिवृत्तेः सिद्धेरिति शङ्कते —

तथाऽपीति ।

यदि निष्क्रियात्मज्ञानादशेषनिवृत्तिः स्यात्तर्हि तदस्माभिरपि स्वीक्रियते सत्यमित्यङ्गीकरोति —

यदीति ।

यदि तु क्षुदादिदोषप्राबल्यादात्मानं निष्क्रियमपि विस्मृत्य प्रार्थनादिपरो भवति तदा निवृत्त्युपदेशोऽपि भवत्यर्थवानिति भावः ।

प्रागुक्तवाक्यविरोधान्निवृत्त्युपदेशोऽशक्य इति चेत्तत्राऽऽह —

यानीति ।

मुख्यपरिव्राड्विषयत्वे दोषं स्मारयति —

इतरथेति ।

निवृत्त्युपदेशानुग्राहकत्वेन स्मृतीरुदाहरति —

निराशिषमित्यादिना ।

अमुख्यसंन्यासिविषयत्वासंभवान्मुख्यपरिव्राड्विषयं व्युत्थानवाक्यमित्युपसंहरति —

तस्मादिति ।

इति शब्दो व्युत्थानवाक्यव्याख्यानसमाप्त्यर्थः ।