बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथ हैनं कहोलः कौषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाच यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति । एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः । तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एवातोऽन्यदार्तं ततो ह कहोलः कौषीतकेय उपरराम ॥ १ ॥
यस्मात् पूर्वे ब्राह्मणा एतमात्मानम् असाधनफलस्वभावं विदित्वा सर्वस्मात् साधनफलस्वरूपात् एषणालक्षणात् व्युत्थाय भिक्षाचर्यं चरन्ति स्म, दृष्टादृष्टार्थं कर्म तत्साधनं च हित्वा — तस्मात् अद्यत्वेऽपि ब्राह्मणः ब्रह्मवित् , पाण्डित्यं पण्डितभावम् , एतदात्मविज्ञानं पाण्डित्यम् , तत् निर्विद्य निःशेषं विदित्वा, आत्मविज्ञानं निरवशेषं कृत्वेत्यर्थः — आचार्यत आगमतश्च एषणाभ्यो व्युत्थाय — एषणाव्युत्थानावसानमेव हि तत्पाण्डित्यम् , एषणातिरस्कारोद्भवत्वात् एषणाविरुद्धत्वात् ; एषणामतिरस्कृत्य न ह्यात्मविषयस्य पाण्डित्यस्योद्भव इति आत्मज्ञानेनैव विहितमेषणाव्युत्थानम् आत्मज्ञानसमानकर्तृकत्वाप्रत्ययोपादानलिङ्गश्रुत्या दृढीकृतम् । तस्मात् एषणाभ्यो व्युत्थाय ज्ञानबलभावेन बाल्येन तिष्ठासेत् स्थातुमिच्छेत् ; साधनफलाश्रयणं हि बलम् इतरेषामनात्मविदाम् ; तद्बलं हित्वा विद्वान् असाधनफलस्वरूपात्मविज्ञानमेव बलं तद्भावमेव केवलम् आश्रयेत् , तदाश्रयणे हि करणानि एषणाविषये एनं हृत्वा स्थापयितुं नोत्सहन्ते ; ज्ञानबलहीनं हि मूढं दृष्टादृष्टविषयायामेषणायामेव एनं करणानि नियोजयन्ति ; बलं नाम आत्मविद्यया अशेषविषयदृष्टितिरस्करणम् ; अतः तद्भावेन बाल्येन तिष्ठासेत् , तथा ‘आत्मना विन्दते वीर्यम्’ (के. उ. २ । ४) इति श्रुत्यन्तरात् , ‘नायमात्मा बलहीनेन लभ्यः’ (मु. उ. ३ । २ । ४) इति च । बाल्यं च पाण्डित्यं च निर्विद्य निःशेषं कृत्वा अथ मननान्मुनिः योगी भवति ; एतावद्धि ब्राह्मणेन कर्तव्यम् , यदुत सर्वानात्मप्रत्ययतिरस्करणम् ; एतत्कृत्वा कृतकृत्यो योगी भवति । अमौनं च आत्मज्ञानानात्मप्रत्ययतिरस्कारौ पाण्डित्यबाल्यसंज्ञकौ निःशेषं कृत्वा, मौनं नाम अनात्मप्रत्ययतिरस्करणस्य पर्यवसानं फलम् — तच्च निर्विद्य अथ ब्राह्मणः कृतकृत्यो भवति — ब्रह्मैव सर्वमिति प्रत्यय उपजायते । स ब्राह्मणः कृतकृत्यः, अतो ब्राह्मणः ; निरुपचरितं हि तदा तस्य ब्राह्मण्यं प्राप्तम् ; अत आह — स ब्राह्मणः केन स्यात् केन चरणेन भवेत् ? येन स्यात् — येन चरणेन भवेत् , तेन ईदृश एवायम् — येन केनचित् चरणेन स्यात् , तेन ईदृश एव उक्तलक्षण एव ब्राह्मणो भवति ; येन केनचिच्चरणेनेति स्तुत्यर्थम् — येयं ब्राह्मण्यावस्था सेयं स्तूयते, न तु चरणेऽनादरः । अतः एतस्माद्ब्राह्मण्यावस्थानात् अशनायाद्यतीतात्मस्वरूपात् नित्यतृप्तात् , अन्यत् अविद्याविषयमेषणालक्षणं वस्त्वन्तरम् , आर्तम् विनाशि आर्तिपरिगृहीतं स्वप्नमायामरीच्युदकसमम् असारम् , आत्मैव एकः केवलो नित्यमुक्त इति । ततो ह कहोलः कौषीतकेयः उपरराम ॥

तस्मादित्यादिवाक्यमवतार्य व्याचष्टे —

यस्मादित्यादिना ।

उक्तमेव व्युत्थानं स्पष्टयति —

दृष्टेति ।

विवेकवैराग्याभ्यामेषणाभ्यो व्युत्थाय श्रुत्याचार्याभ्यां कर्तव्यं ज्ञानं निःशेषं कृत्वा बाल्येन तिष्ठासेदिति व्यवहितेन संबन्धः ।

पाण्डित्यं निर्विद्येत्यनेनैव व्युत्थानं विहितमित्याह —

एषणेति ।

तद्धि पाण्डित्यमेषणाभ्यो व्युत्थानस्यावसाने संभवति तदत्र व्युत्थानविधिरित्यर्थः ।

तदेव स्फुटयति —

एषणेत्यादिना ।

तासां तिरस्कारेण पाण्डित्यमुद्भवति तस्यैषणाभ्यो विरुद्धत्वात्तथा च पाण्डित्यं निर्विद्येत्यत्र ताभ्यो व्युत्थानविधानमुचितमित्यर्थः ।

विनाऽपि व्युत्थानं पाण्डित्यमुद्भविष्यतीति चेन्नेत्याह —

न हीति ।

पाण्डित्यं निर्विद्येत्यत्र व्युत्थानविधिमुक्तमुपसंहरति —

इत्यात्मज्ञानेनेति ।

तर्हि किमिति विदित्वा व्युत्थायेत्यत्र व्युत्थाने विधिरभ्युपगतस्तत्राऽऽह —

आत्मज्ञानेति ।

तेन व्युत्थानस्य समानकर्तृकत्वे क्त्वाप्रत्ययस्योपादानमेव लिङ्गभूता श्रुतिस्तया दृढीकृतं नियमेन प्रापितं व्युत्थानमित्यर्थः ।

बाल्येनेत्यादि वाक्यमुत्थाप्य व्याकरोति —

तस्मादिति ।

विवेकादिवशादेषणाभ्यो व्युत्थाय पाण्डित्यं संपाद्य तस्मात्पाण्डित्याज्ज्ञानबलभावेन स्थातुमिच्छेदिति योजना ।

केयं ज्ञानबलभावेन स्थितिरित्याशङ्क्य तां व्युत्पादयति —

साधनेत्यादिना ।

विद्वानिति विवेकित्वोक्तिः ।

यथोक्तबलभावावष्टम्भे करणानां विषयपारवश्यनिवृत्त्या पुरुषस्यापि तत्पारवश्यनिवृत्तिः फलतीत्याह —

तदाश्रयणे हीति ।

उक्तमेवार्थं व्यतिरेकमुखेन विशदयति —

ज्ञानबलेति ।

नन्वद्यापि ज्ञानस्य बलं कीदृगिति न ज्ञायते तत्राऽऽह —

बलं नामेति ।

बाल्यवाक्यार्थमुपसंहरति —

अत इति ।

यथा ज्ञानबलेन विषयाभिमुखी तद्व्यापके दृष्टिस्तिरस्क्रियते तथेति यावत् । आत्मना तद्विज्ञानातिशयेनेत्यर्थः । वीर्यं विषयदृष्टितिरस्करणसामर्थ्यमित्येतत् । बलहीनेन विषयदृष्टितिरस्करणसामर्थ्यरहितेनायमात्मा न लभ्यो न शक्यः साक्षात्कर्तुमित्यर्थः ।

बाल्यं चेत्यादि वाक्यमादाय व्याचष्टे —

बाल्यं चेति ।

पूर्वोक्तयोरुत्तरत्र हेतुत्वद्योतनार्थोऽथशब्दः ।

तदेवोपपादयति —

एतावद्धीति ।

वाक्यान्तरमुत्थाप्य व्याकरोति —

अमौनं चेत्यादिना ।

मौनामौनयोर्ब्राह्मण्यं प्रति सामग्रीत्वद्योतकोऽथशब्दः ।

ब्राह्मण्यमुपपादयति —

ब्रह्मैवेति ।

आचार्यपरिचर्यापूर्वकं वेदान्तानां तात्पर्यावधारणं पाण्डित्यम् । युक्तितोऽनात्मदृष्टितिरस्कारो बाल्यम् । ‘अहमात्मा परं ब्रह्म न मत्तोऽन्यदस्ति किञ्चन’ इति मनसैवानुसन्धानं मौनम् । महावाक्यार्थावगतिर्ब्राह्मण्यमिति विभागः ।

प्रागपि प्रसिद्धं ब्राह्मण्यमिति चेत्तत्राऽऽह —

निरुपचरितमिति ।

ब्रह्मविदः समाचारं पृच्छति —

स इति ।

अनियतं तस्य चरणमित्युत्तरमाह —

येनेति ।

उक्तलक्षणत्वं कृतकृत्यत्वम् ।

अव्यवस्थितं चरणमिच्छतो ब्रह्मविदो यथेष्टचेष्टाऽभीष्टा स्यात्तथा च ‘यद्यदाचरति श्रेष्ठः’ (भ. गी. ३-२१) इति स्मृतेरितरेषामप्याचारेऽनादरः स्यादित्याशङ्क्याऽऽह —

येन केनचिदिति ।

विहितमाचरतो निषिद्धं च त्यजतः शुद्धबुद्धेः श्रुताद्वाक्यात्सम्यग्धीरुत्पद्यते तस्य च वासनावसाद्व्यवस्थितैव चेष्टा नाव्यवस्थितेति न यथेष्टाचरणप्रयुक्तो दोष इत्यर्थः ।

अतोऽन्यदित्यादि व्याकरोति —

अत इति ।

स्वप्नेत्यादि बहुदृष्टान्तोपादानं दार्ष्टान्तिकस्य बहुरूपत्वद्योतनार्थम् ।

अतोऽन्यदिति कुतो विशेषणमित्याशङ्क्याऽऽह —

आत्मैवेति ॥१॥