बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायःषष्ठं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथ हैनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्क्येति होवाच यदिदं सर्वमप्स्वोतं च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति वायौ गार्गीति कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति कस्मिन्नु खल्वन्तरिक्षलोका ओताश्च प्रोताश्चेति गन्धर्वलोकेषु गार्गीति कस्मिन्नु खलु गन्धर्वलोका ओताश्च प्रोताश्चेत्यादित्यलोकेषु गार्गीति कस्मिन्नु खल्वादित्यलोका ओताश्च प्रोताश्चेति चन्द्रलोकेषु गार्गीति कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति नक्षत्रलोकेषु गार्गीति कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति देवलोकेषु गार्गीति कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेतीन्द्रलोकेषु गार्गीति कस्मिन्नु खल्विन्द्रलोका ओताश्च प्रोताश्चेति प्रजापतिलोकेषु गार्गीति कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति ब्रह्मलोकेषु गार्गीति कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति स होवाच गार्गि मातिप्राक्षीर्मा ते मूर्धा व्यपप्तदनतिप्रश्न्यां वै देवतामतिपृच्छसि गार्गि मातिप्राक्षीरिति ततो ह गार्गी वाचक्नव्युपरराम ॥ १ ॥
यत्साक्षादपरोक्षाद्ब्रह्म सर्वान्तर आत्मेत्युक्तम् , तस्य सर्वान्तरस्य स्वरूपाधिगमाय आ शाकल्यब्राह्मणात् ग्रन्थ आरभ्यते । पृथिव्यादीनि ह्याकाशान्तानि भूतानि अन्तर्बहिर्भावेन व्यवस्थितानि ; तेषां यत् बाह्यं बाह्यम् , अधिगम्याधिगम्य निराकुर्वन् द्रष्टुः साक्षात्सर्वान्तरोऽगौण आत्मा सर्वसंसारधर्मविनिर्मुक्तो दर्शयितव्य इत्यारम्भः — अथ हैनं गार्गी नामतः, वाचक्नवी वचक्नोर्दुहिता, पप्रच्छ ; याज्ञवल्क्येति होवाच ; यदिदं सर्वं पार्थिवं धातुजातम् अप्सु उदके ओतं च प्रोतं च — ओतं दीर्घपटतन्तुवत् , प्रोतं तिर्यक्तन्तुवत् , विपरीतं वा — अद्भिः सर्वतोऽन्तर्बहिर्भूताभिर्व्याप्तमित्यर्थः ; अन्यथा सक्तुमुष्टिवद्विशीर्येत । इदं तावत् अनुमानमुपन्यस्तम् — यत् कार्यं परिच्छिन्नं स्थूलम् , कारणेन अपरिच्छिन्नेन सूक्ष्मेण व्याप्तमिति दृष्टम् — यथा पृथिवी अद्भिः ; तथा पूर्वं पूर्वम् उत्तरेणोत्तरेण व्यापिना भवितव्यम् — इत्येष आ सर्वान्तरादात्मनः प्रश्नार्थः । तत्र भूतानि पञ्च संहतान्येव उत्तरमुत्तरं सूक्ष्मभावेन व्यापकेन कारणरूपेण च व्यवतिष्ठन्ते ; न च परमात्मनोऽर्वाक् तद्व्यतिरेकेण वस्त्वन्तरमस्ति, ‘सत्यस्य सत्यम्’ (बृ. उ. २ । ३ । ६) इति श्रुतेः ; सत्यं च भूतपञ्चकम् , सत्यस्य सत्यं च पर आत्मा । कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति — तासामपि कार्यत्वात् स्थूलत्वात् परिच्छिन्नत्वाच्च क्वचिद्धि ओतप्रोतभावेन भवितव्यम् ; क्व तासाम् ओतप्रोतभाव इति । एवमुत्तरोत्तरप्रश्नप्रसङ्गो योजयितव्यः । वायौ गार्गीति ; ननु अग्नाविति वक्तव्यम् — नैष दोषः ; अग्नेः पार्थिवं वा आप्यं वा धातुमनाश्रित्य इतरभूतवत् स्वातन्त्र्येण आत्मलाभो नास्तीति तस्मिन् ओतप्रोतभावो नोपदिश्यते । कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति । तान्येव भूतानि संहतानि अन्तरिक्षलोकाः ; तान्यपि — गन्धर्वलोकेषु गन्धर्वलोकाः, आदित्यलोकेषु आदित्यलोकाः, चन्द्रलोकेषु चन्द्रलोकाः नक्षत्रलोकेषु नक्षत्रलोकाः, देवलोकेषु देवलोकाः, इन्द्रलोकेषु इन्द्रलोकाः, विराट्शरीरारम्भकेषु भूतेषु प्रजापतिलोकेषु प्रजापतिलोकाः, ब्रह्मलोकेषु ब्रह्मलोका नाम — अण्डारम्भकाणि भूतानि ; सर्वत्र हि सूक्ष्मतारतम्यक्रमेण प्राण्युपभोगाश्रयाकारपरिणतानि भूतानि संहतानि तान्येव पञ्चेति बहुवचनभाञ्जि । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति — स होवाच याज्ञवल्क्यः — हे गार्गि मातिप्राक्षीः स्वं प्रश्नम् , न्यायप्रकारमतीत्य आगमेन प्रष्टव्यां देवताम् अनुमानेन मा प्राक्षीरित्यर्थः ; पृच्छन्त्याश्च मा ते तव मूर्धा शिरः व्यपप्तत् विस्पष्टं पतेत् ; देवतायाः स्वप्रश्न आगमविषयः ; तं प्रश्नविषयमतिक्रान्तो गार्ग्याः प्रश्नः, आनुमानिकत्वात् ; स यस्या देवतायाः प्रश्नः सा अतिप्रश्न्या, न अतिप्रश्न्या अनतिप्रश्न्या, स्वप्रश्नविषयैव, केवलागमगम्येत्यर्थः ; ताम् अनतिप्रश्न्यां वै देवताम् अतिपृच्छसि । अतो गार्गी मातिप्राक्षीः, मर्तुं चेन्नेच्छसि । ततो ह गार्गी वाचक्नव्युपरराम ॥

पूर्वब्राह्मणयोरात्मनः सर्वान्तरत्वमुक्तं तन्निर्णयार्थमुत्तरं ब्राह्मणत्रयमिति संगतिमाह —

यत्साक्षादिति ।

उक्तमेव संबन्धं विवृणोति —

पृथिव्यादीनीति ।

अन्तर्बहिर्भावेन सूक्ष्मस्थूलतारतम्यक्रमेणेत्यर्थः । बाह्यं बाह्यमिति वीप्सोपरिष्टात्तच्छब्दो द्रष्टव्यो यत्तदोर्नित्यसंबन्धात् । निराकुर्वन्यथा मुमुक्षुः सर्वान्तरमात्मानं प्रतिपद्यते तथा स यथोक्तविशेषणो दर्शयितव्य इत्युत्तरग्रन्थारम्भ इति योजना । कहोलप्रश्ननिर्णयानन्तर्यमथशब्दार्थः । यत्पार्थिवं धातुजातं तदिदं सर्वमप्स्वित्यादि योजनीयम् ।

पदार्थमुक्त्वा वाक्यार्थमाह —

अद्भिरिति ।

पार्थिवस्य धातुजातस्याद्भिर्व्याप्त्यभावे दोषमाह —

अन्यथेति ।

किमत्र गार्ग्या विवक्षितमिति तदाह —

इदं तावदिति ।

तदेव दर्शयितुं व्याप्तिमाह —

यत्कार्यमिति ।

कारणेन व्यापकेनेति शेषः । यत्कार्यं तत्कारणेन व्याप्तं यत्परिच्छिन्नं तद्व्यापकेन व्याप्तं यच्च स्थलं तत्सूक्ष्मेण व्याप्तमिति त्रिप्रकारा व्याप्तिः । इति शब्दस्तत्समाप्त्यर्थः ।

व्याप्तिभूमिमाह —

यथेति ।

संप्रत्यनुमानमाह —

तथेति ।

पूर्वं पूर्वमित्यबादेर्धर्मिणो निर्देशः । उत्तरेणोत्तरेण वाय्वादिकारणेनापरिच्छिन्नेन सूक्ष्मेण व्याप्तमिति शेषः। विमतं कारणेन व्यापकेन सूक्ष्मेण व्याप्तं कार्यत्वात्परिच्छिन्नत्वात्स्थूलत्वाच्च पृथिवीवदित्यर्थः ।

सर्वान्तरादात्मनोऽर्वागुक्तन्यायं सर्वत्र संचारयति —

इत्येष इति ।

ननु तथाऽपि भूतपञ्चकव्यतिरिक्तानां गन्धर्वलोकादीनामप्यान्तरत्वेनोपदेशात्कथं भूतपञ्चकव्युदासेन सर्वान्तरप्रतिपत्तिर्विवक्षितेति तत्राऽऽह —

तत्रेति ।

उक्तनीत्या प्रश्नार्थे स्थिते सतीति यावत् । भूतात्मस्थितिनिर्धारणे वा सप्तमी ।

अथ परमात्मानं भूतानि च हित्वा पृथगेव गन्धर्वलोकादीनि वस्त्वन्तराणि भविष्यन्ति नेत्याह —

न चेति ।

गन्धर्वलोकादीन्यपि भूतानामेवावस्थाविशेषास्ततः सत्यं भूतपञ्चकं तस्य सत्यं परं ब्रह्म नान्यदन्तराले प्रतिपत्तव्यमित्यन्यप्रतिषेधार्थो च शब्दौ ।

तात्पर्यमुक्त्वा प्रश्नमुत्थाप्य तदक्षराणि व्याकरोति —

कस्मिन्नित्यादिना ।

कस्मिन्नु खलु वायुरित्यादावुक्तन्यायमतिदिशति —

एवमिति ।

वायावित्ययुक्ता प्रत्युक्तिरपामग्निकार्यत्वादग्नाविति वक्तव्यत्वादिति शङ्कते —

नन्विति ।

अग्नेरुदकव्यापकत्वेऽपि काष्ठविद्युदादिपारतन्त्र्यात्स्वतन्त्रेण केनचिदपां व्याप्तिर्वक्तव्येत्यग्निं हित्वा तत्करणे वायावित्युक्तं वायोश्च स्वकारणतन्त्रत्वेऽपि नोदकतन्त्रतेति तद्व्यापकत्वसिद्धिरित्युत्तरमाह —

नैष दोष इत्यादिना ।

अन्तरिक्षलोकशब्दार्थमाह —

तान्येवेति ।

प्रजापतिलोकशब्दार्थं कथयति —

विराडिति ।

अन्तरिक्षलोकादीनां प्रत्येकमेकत्वात्कुतो बहुवचनमित्याशङ्क्याऽऽह —

सर्वत्र हीति ।

पूर्ववदनुमानेन सूत्रं पृच्छन्तीं गार्गीं प्रतिषेधति —

स होवाचेत्यादिना ।

उक्तमेव स्पष्टयन्वाक्यार्थमाह —

आगमेनेति ।

प्रतिषेधातिक्रमे दोषमाह —

पृच्छन्त्याश्चेति ।

मूर्धपातप्रसंगं प्रकटयन्प्रतिषेधमुपसंहरति —

देवताया इत्यादिना ॥१॥