पूर्वब्राह्मणयोरात्मनः सर्वान्तरत्वमुक्तं तन्निर्णयार्थमुत्तरं ब्राह्मणत्रयमिति संगतिमाह —
यत्साक्षादिति ।
उक्तमेव संबन्धं विवृणोति —
पृथिव्यादीनीति ।
अन्तर्बहिर्भावेन सूक्ष्मस्थूलतारतम्यक्रमेणेत्यर्थः । बाह्यं बाह्यमिति वीप्सोपरिष्टात्तच्छब्दो द्रष्टव्यो यत्तदोर्नित्यसंबन्धात् । निराकुर्वन्यथा मुमुक्षुः सर्वान्तरमात्मानं प्रतिपद्यते तथा स यथोक्तविशेषणो दर्शयितव्य इत्युत्तरग्रन्थारम्भ इति योजना । कहोलप्रश्ननिर्णयानन्तर्यमथशब्दार्थः । यत्पार्थिवं धातुजातं तदिदं सर्वमप्स्वित्यादि योजनीयम् ।
पदार्थमुक्त्वा वाक्यार्थमाह —
अद्भिरिति ।
पार्थिवस्य धातुजातस्याद्भिर्व्याप्त्यभावे दोषमाह —
अन्यथेति ।
किमत्र गार्ग्या विवक्षितमिति तदाह —
इदं तावदिति ।
तदेव दर्शयितुं व्याप्तिमाह —
यत्कार्यमिति ।
कारणेन व्यापकेनेति शेषः । यत्कार्यं तत्कारणेन व्याप्तं यत्परिच्छिन्नं तद्व्यापकेन व्याप्तं यच्च स्थलं तत्सूक्ष्मेण व्याप्तमिति त्रिप्रकारा व्याप्तिः । इति शब्दस्तत्समाप्त्यर्थः ।
व्याप्तिभूमिमाह —
यथेति ।
संप्रत्यनुमानमाह —
तथेति ।
पूर्वं पूर्वमित्यबादेर्धर्मिणो निर्देशः । उत्तरेणोत्तरेण वाय्वादिकारणेनापरिच्छिन्नेन सूक्ष्मेण व्याप्तमिति शेषः। विमतं कारणेन व्यापकेन सूक्ष्मेण व्याप्तं कार्यत्वात्परिच्छिन्नत्वात्स्थूलत्वाच्च पृथिवीवदित्यर्थः ।
सर्वान्तरादात्मनोऽर्वागुक्तन्यायं सर्वत्र संचारयति —
इत्येष इति ।
ननु तथाऽपि भूतपञ्चकव्यतिरिक्तानां गन्धर्वलोकादीनामप्यान्तरत्वेनोपदेशात्कथं भूतपञ्चकव्युदासेन सर्वान्तरप्रतिपत्तिर्विवक्षितेति तत्राऽऽह —
तत्रेति ।
उक्तनीत्या प्रश्नार्थे स्थिते सतीति यावत् । भूतात्मस्थितिनिर्धारणे वा सप्तमी ।
अथ परमात्मानं भूतानि च हित्वा पृथगेव गन्धर्वलोकादीनि वस्त्वन्तराणि भविष्यन्ति नेत्याह —
न चेति ।
गन्धर्वलोकादीन्यपि भूतानामेवावस्थाविशेषास्ततः सत्यं भूतपञ्चकं तस्य सत्यं परं ब्रह्म नान्यदन्तराले प्रतिपत्तव्यमित्यन्यप्रतिषेधार्थो च शब्दौ ।
तात्पर्यमुक्त्वा प्रश्नमुत्थाप्य तदक्षराणि व्याकरोति —
कस्मिन्नित्यादिना ।
कस्मिन्नु खलु वायुरित्यादावुक्तन्यायमतिदिशति —
एवमिति ।
वायावित्ययुक्ता प्रत्युक्तिरपामग्निकार्यत्वादग्नाविति वक्तव्यत्वादिति शङ्कते —
नन्विति ।
अग्नेरुदकव्यापकत्वेऽपि काष्ठविद्युदादिपारतन्त्र्यात्स्वतन्त्रेण केनचिदपां व्याप्तिर्वक्तव्येत्यग्निं हित्वा तत्करणे वायावित्युक्तं वायोश्च स्वकारणतन्त्रत्वेऽपि नोदकतन्त्रतेति तद्व्यापकत्वसिद्धिरित्युत्तरमाह —
नैष दोष इत्यादिना ।
अन्तरिक्षलोकशब्दार्थमाह —
तान्येवेति ।
प्रजापतिलोकशब्दार्थं कथयति —
विराडिति ।
अन्तरिक्षलोकादीनां प्रत्येकमेकत्वात्कुतो बहुवचनमित्याशङ्क्याऽऽह —
सर्वत्र हीति ।
पूर्ववदनुमानेन सूत्रं पृच्छन्तीं गार्गीं प्रतिषेधति —
स होवाचेत्यादिना ।
उक्तमेव स्पष्टयन्वाक्यार्थमाह —
आगमेनेति ।
प्रतिषेधातिक्रमे दोषमाह —
पृच्छन्त्याश्चेति ।
मूर्धपातप्रसंगं प्रकटयन्प्रतिषेधमुपसंहरति —
देवताया इत्यादिना ॥१॥